Mahabharata

Karna Parva, Adhyaya 52

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 52, Verse 1

स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम्

विशोकः संप्रहृष्टश्च क्षणेन समपद्यत

Mahabharata

Karna Parva, Adhyaya 52, Verse 2

ततो ज्यामनुमृज्याशु व्याक्षिपद्गाण्डिवं धनुः

दध्रे कर्णविनाशाय केशवं चाभ्यभाषत

Mahabharata

Karna Parva, Adhyaya 52, Verse 3

त्वया नाथेन गोविन्द ध्रुव एष जयो मम

प्रसन्नो यस्य मेऽद्य त्वं भूतभव्यभवत्प्रभुः

Mahabharata

Karna Parva, Adhyaya 52, Verse 4

त्वत्सहायो ह्यहं कृष्ण त्रीँल्लोकान्वै समागतान्

प्रापयेयं परं लोकं किमु कर्णं महारणे

Mahabharata

Karna Parva, Adhyaya 52, Verse 5

पश्यामि द्रवतीं सेनां पाञ्चालानां जनार्दन

पश्यामि कर्णं समरे विचरन्तमभीतवत्

Mahabharata

Karna Parva, Adhyaya 52, Verse 6

भार्गवास्त्रं च पश्यामि विचरन्तं समन्ततः

सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम्

Mahabharata

Karna Parva, Adhyaya 52, Verse 7

अयं खलु स संग्रामो यत्र कृष्ण मया कृतम्

कथयिष्यन्ति भूतानि यावद्भूमिर्धरिष्यति

Mahabharata

Karna Parva, Adhyaya 52, Verse 8

अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे

गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः

Mahabharata

Karna Parva, Adhyaya 52, Verse 9

अद्य राजा धृतराष्ट्रः स्वां बुद्धिमवमंस्यते

दुर्योधनमराज्यार्हं यया राज्येऽभ्यषेचयत्

Mahabharata

Karna Parva, Adhyaya 52, Verse 10

अद्य राज्यात्सुखाच्चैव श्रियो राष्ट्रात्तथा पुरात्

पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो वियोक्ष्यते

Mahabharata

Karna Parva, Adhyaya 52, Verse 11

अद्य दुर्योधनो राजा जीविताच्च निराशकः

भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते

Mahabharata

Karna Parva, Adhyaya 52, Verse 12

अद्य दृष्ट्वा मया कर्णं शरैर्विशकलीकृतम्

स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः

Mahabharata

Karna Parva, Adhyaya 52, Verse 13

अद्यासौ सौबलः कृष्ण ग्लहं जानातु वै शरान्

दुरोदरं च गाण्डीवं मण्डलं च रथं मम

Mahabharata

Karna Parva, Adhyaya 52, Verse 14

योऽसौ रणे नरं नान्यं पृथिव्यामभिमन्यते

तस्याद्य सूतपुत्रस्य भूमिः पास्यति शोणितम्

गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम्

Mahabharata

Karna Parva, Adhyaya 52, Verse 15

अद्य तप्स्यति राधेयः पाञ्चालीं यत्तदाब्रवीत्

सभामध्ये वचः क्रूरं कुत्सयन्पाण्डवान्प्रति

Mahabharata

Karna Parva, Adhyaya 52, Verse 16

ये वै षण्ढतिलास्तत्र भवितारोऽद्य ते तिलाः

हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि

Mahabharata

Karna Parva, Adhyaya 52, Verse 17

अहं वः पाण्डुपुत्रेभ्यस्त्रास्यामीति यदब्रवीत्

अनृतं तत्करिष्यन्ति मामका निशिताः शराः

Mahabharata

Karna Parva, Adhyaya 52, Verse 18

हन्ताहं पाण्डवान्सर्वान्सपुत्रानिति योऽब्रवीत्

तमद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम्

Mahabharata

Karna Parva, Adhyaya 52, Verse 19

यस्य वीर्ये समाश्वस्य धार्तराष्ट्रो बृहन्मनाः

अवामन्यत दुर्बुद्धिर्नित्यमस्मान्दुरात्मवान्

तमद्य कर्णं राधेयं हन्तास्मि मधुसूदन

Mahabharata

Karna Parva, Adhyaya 52, Verse 20

अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः

विद्रवन्तु दिशो भीताः सिंहत्रस्ता मृगा इव

Mahabharata

Karna Parva, Adhyaya 52, Verse 21

अद्य दुर्योधनो राजा पृथिवीमन्ववेक्षताम्

हते कर्णे मया संख्ये सपुत्रे ससुहृज्जने

Mahabharata

Karna Parva, Adhyaya 52, Verse 22

अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः

जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम्

Mahabharata

Karna Parva, Adhyaya 52, Verse 23

अद्याहमनृणः कृष्ण भविष्यामि धनुर्भृताम्

क्रोधस्य च कुरूणां च शराणां गाण्डिवस्य च

Mahabharata

Karna Parva, Adhyaya 52, Verse 24

अद्य दुःखमहं मोक्ष्ये त्रयोदशसमार्जितम्

हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव

Mahabharata

Karna Parva, Adhyaya 52, Verse 25

अद्य कर्णे हते युद्धे सोमकानां महारथाः

कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवो युधि

Mahabharata

Karna Parva, Adhyaya 52, Verse 26

न जाने च कथं प्रीतिः शैनेयस्याद्य माधव

भविष्यति हते कर्णे मयि चापि जयाधिके

Mahabharata

Karna Parva, Adhyaya 52, Verse 27

अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम्

प्रीतिं दास्यामि भीमस्य यमयोः सात्यकेरपि

Mahabharata

Karna Parva, Adhyaya 52, Verse 28

धृष्टद्युम्नशिखण्डिभ्यां पाञ्चालानां च माधव

अध्यानृण्यं गमिष्यामि हत्वा कर्णं महारणे

Mahabharata

Karna Parva, Adhyaya 52, Verse 29

अद्य पश्यन्तु संग्रामे धनंजयममर्षणम्

युध्यन्तं कौरवान्संख्ये पातयन्तं च सूतजम्

भवत्सकाशे वक्ष्ये च पुनरेवात्मसंस्तवम्

Mahabharata

Karna Parva, Adhyaya 52, Verse 30

धनुर्वेदे मत्समो नास्ति लोके; पराक्रमे वा मम कोऽस्ति तुल्यः

को वाप्यन्यो मत्समोऽस्ति क्षमायां; तथा क्रोधे सदृशोऽन्यो न मेऽस्ति