Mahabharata

Karna Parva, Adhyaya 49

Containing 116 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 49, Verse 1

युधिष्ठिरेणैवमुक्तः कौन्तेयः श्वेतवाहनः

असिं जग्राह संक्रुद्धो जिघांसुर्भरतर्षभम्

Mahabharata

Karna Parva, Adhyaya 49, Verse 2

तस्य कोपं समुद्वीक्ष्य चित्तज्ञः केशवस्तदा

उवाच किमिदं पार्थ गृहीतः खड्ग इत्युत

Mahabharata

Karna Parva, Adhyaya 49, Verse 3

नेह पश्यामि योद्धव्यं तव किंचिद्धनंजय

ते ध्वस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता

Mahabharata

Karna Parva, Adhyaya 49, Verse 4

अपयातोऽसि कौन्तेय राजा द्रष्टव्य इत्यपि

स राजा भवता दृष्टः कुशली च युधिष्ठिरः

Mahabharata

Karna Parva, Adhyaya 49, Verse 5

तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम्

हर्षकाले तु संप्राप्ते कस्मात्त्वा मन्युराविशत्

Mahabharata

Karna Parva, Adhyaya 49, Verse 6

न तं पश्यामि कौन्तेय यस्ते वध्यो भवेदिह

कस्माद्भवान्महाखड्गं परिगृह्णाति सत्वरम्

Mahabharata

Karna Parva, Adhyaya 49, Verse 7

तत्त्वा पृच्छामि कौन्तेय किमिदं ते चिकीर्षितम्

परामृशसि यत्क्रुद्धः खड्गमद्भुतविक्रम

Mahabharata

Karna Parva, Adhyaya 49, Verse 8

एवमुक्तस्तु कृष्णेन प्रेक्षमाणो युधिष्ठिरम्

अर्जुनः प्राह गोविन्दं क्रुद्धः सर्प इव श्वसन्

Mahabharata

Karna Parva, Adhyaya 49, Verse 9

दद गाण्डीवमन्यस्मा इति मां योऽभिचोदयेत्

छिन्द्यामहं शिरस्तस्य इत्युपांशुव्रतं मम

Mahabharata

Karna Parva, Adhyaya 49, Verse 10

तदुक्तोऽहमदीनात्मन्राज्ञामितपराक्रम

समक्षं तव गोविन्द न तत्क्षन्तुमिहोत्सहे

Mahabharata

Karna Parva, Adhyaya 49, Verse 11

तस्मादेनं वधिष्यामि राजानं धर्मभीरुकम्

प्रतिज्ञां पालयिष्यामि हत्वेमं नरसत्तमम्

एतदर्थं मया खड्गो गृहीतो यदुनन्दन

Mahabharata

Karna Parva, Adhyaya 49, Verse 12

सोऽहं युधिष्ठिरं हत्वा सत्येऽप्यानृण्यतां गतः

विशोको विज्वरश्चापि भविष्यामि जनार्दन

Mahabharata

Karna Parva, Adhyaya 49, Verse 13

किं वा त्वं मन्यसे प्राप्तमस्मिन्काले समुत्थिते

त्वमस्य जगतस्तात वेत्थ सर्वं गतागतम्

तत्तथा प्रकरिष्यामि यथा मां वक्ष्यते भवान्

Mahabharata

Karna Parva, Adhyaya 49, Verse 14

इदानीं पार्थ जानामि न वृद्धाः सेवितास्त्वया

अकाले पुरुषव्याघ्र संरम्भक्रिययानया

न हि धर्मविभागज्ञः कुर्यादेवं धनंजय

Mahabharata

Karna Parva, Adhyaya 49, Verse 15

अकार्याणां च कार्याणां संयोगं यः करोति वै

कार्याणामक्रियाणां च स पार्थ पुरुषाधमः

Mahabharata

Karna Parva, Adhyaya 49, Verse 16

अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः

समासविस्तरविदां न तेषां वेत्थ निश्चयम्

Mahabharata

Karna Parva, Adhyaya 49, Verse 17

अनिश्चयज्ञो हि नरः कार्याकार्यविनिश्चये

अवशो मुह्यते पार्थ यथा त्वं मूढ एव तु

Mahabharata

Karna Parva, Adhyaya 49, Verse 18

न हि कार्यमकार्यं वा सुखं ज्ञातुं कथंचन

श्रुतेन ज्ञायते सर्वं तच्च त्वं नावबुध्यसे

Mahabharata

Karna Parva, Adhyaya 49, Verse 19

अविज्ञानाद्भवान्यच्च धर्मं रक्षति धर्मवित्

प्राणिनां हि वधं पार्थ धार्मिको नावबुध्यते

Mahabharata

Karna Parva, Adhyaya 49, Verse 20

प्राणिनामवधस्तात सर्वज्यायान्मतो मम

अनृतं तु भवेद्वाच्यं न च हिंस्यात्कथंचन

Mahabharata

Karna Parva, Adhyaya 49, Verse 21

स कथं भ्रातरं ज्येष्ठं राजानं धर्मकोविदम्

हन्याद्भवान्नरश्रेष्ठ प्राकृतोऽन्यः पुमानिव

Mahabharata

Karna Parva, Adhyaya 49, Verse 22

अयुध्यमानस्य वधस्तथाशस्त्रस्य भारत

पराङ्मुखस्य द्रवतः शरणं वाभिगच्छतः

कृताञ्जलेः प्रपन्नस्य न वधः पूज्यते बुधैः

Mahabharata

Karna Parva, Adhyaya 49, Verse 23

त्वया चैव व्रतं पार्थ बालेनैव कृतं पुरा

तस्मादधर्मसंयुक्तं मौढ्यात्कर्म व्यवस्यसि

Mahabharata

Karna Parva, Adhyaya 49, Verse 24

स गुरुं पार्थ कस्मात्त्वं हन्या धर्ममनुस्मरन्

असंप्रधार्य धर्माणां गतिं सूक्ष्मां दुरन्वयाम्

Mahabharata

Karna Parva, Adhyaya 49, Verse 25

इदं धर्मरहस्यं च वक्ष्यामि भरतर्षभ

यद्ब्रूयात्तव भीष्मो वा धर्मज्ञो वा युधिष्ठिरः

Mahabharata

Karna Parva, Adhyaya 49, Verse 26

विदुरो वा तथा क्षत्ता कुन्ती वापि यशस्विनी

तत्ते वक्ष्यामि तत्त्वेन तन्निबोध धनंजय

Mahabharata

Karna Parva, Adhyaya 49, Verse 27

सत्यस्य वचनं साधु न सत्याद्विद्यते परम्

तत्त्वेनैतत्सुदुर्ज्ञेयं यस्य सत्यमनुष्ठितम्

Mahabharata

Karna Parva, Adhyaya 49, Verse 28

भवेत्सत्यमवक्तव्यं वक्तव्यमनृतं भवेत्

सर्वस्वस्यापहारे तु वक्तव्यमनृतं भवेत्

Mahabharata

Karna Parva, Adhyaya 49, Verse 29

प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत्

यत्रानृतं भवेत्सत्यं सत्यं चाप्यनृतं भवेत्

Mahabharata

Karna Parva, Adhyaya 49, Verse 30

तादृशं पश्यते बालो यस्य सत्यमनुष्ठितम्

सत्यानृते विनिश्चित्य ततो भवति धर्मवित्