Mahabharata

Karna Parva, Adhyaya 48

Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 48, Verse 1

श्रुत्वा कर्णं कल्यमुदारवीर्यं; क्रुद्धः पार्थः फल्गुनस्यामितौजाः

धनंजयं वाक्यमुवाच चेदं; युधिष्ठिरः कर्णशराभितप्तः

Mahabharata

Karna Parva, Adhyaya 48, Verse 2

इदं यदि द्वैतवने ह्यवक्ष्यः; कर्णं योद्धुं न प्रसहे नृपेति

वयं तदा प्राप्तकालानि सर्वे; वृत्तान्युपैष्याम तदैव पार्थ

Mahabharata

Karna Parva, Adhyaya 48, Verse 3

मयि प्रतिश्रुत्य वधं हि तस्य; बलस्य चाप्तस्य तथैव वीर

आनीय नः शत्रुमध्यं स कस्मा;त्समुत्क्षिप्य स्थण्डिले प्रत्यपिंष्ठाः

Mahabharata

Karna Parva, Adhyaya 48, Verse 4

अन्वाशिष्म वयमर्जुन त्वयि; यियासवो बहु कल्याणमिष्टम्

तन्नः सर्वं विफलं राजपुत्र; फलार्थिनां निचुल इवातिपुष्पः

Mahabharata

Karna Parva, Adhyaya 48, Verse 5

प्रच्छादितं बडिशमिवामिषेण; प्रच्छादितो गवय इवापवाचा

अनर्थकं मे दर्शितवानसि त्वं; राज्यार्थिनो राज्यरूपं विनाशम्

Mahabharata

Karna Parva, Adhyaya 48, Verse 6

यत्तत्पृथां वागुवाचान्तरिक्षे; सप्ताहजाते त्वयि मन्दबुद्धौ

जातः पुत्रो वासवविक्रमोऽयं; सर्वाञ्शूराञ्शात्रवाञ्जेष्यतीति

Mahabharata

Karna Parva, Adhyaya 48, Verse 7

अयं जेता खाण्डवे देवसंघा;न्सर्वाणि भूतान्यपि चोत्तमौजाः

अयं जेता मद्रकलिङ्गकेकया;नयं कुरून्हन्ति च राजमध्ये

Mahabharata

Karna Parva, Adhyaya 48, Verse 8

अस्मात्परो न भविता धनुर्धरो; न वै भूतः कश्चन जातु जेता

इच्छन्नार्यः सर्वभूतानि कुर्या;द्वशे वशी सर्वसमाप्तविद्यः

Mahabharata

Karna Parva, Adhyaya 48, Verse 9

कान्त्या शशाङ्कस्य जवेन वायोः; स्थैर्येण मेरोः क्षमया पृथिव्याः

सूर्यस्य भासा धनदस्य लक्ष्म्या; शौर्येण शक्रस्य बलेन विष्णोः

Mahabharata

Karna Parva, Adhyaya 48, Verse 10

तुल्यो महात्मा तव कुन्ति पुत्रो; जातोऽदितेर्विष्णुरिवारिहन्ता

स्वेषां जयाय द्विषतां वधाय; ख्यातोऽमितौजाः कुलतन्तुकर्ता

Mahabharata

Karna Parva, Adhyaya 48, Verse 11

इत्यन्तरिक्षे शतशृङ्गमूर्ध्नि; तपस्विनां शृण्वतां वागुवाच

एवंविधं त्वां तच्च नाभूत्तवाद्य; देवा हि नूनमनृतं वदन्ति

Mahabharata

Karna Parva, Adhyaya 48, Verse 12

तथापरेषामृषिसत्तमानां; श्रुत्वा गिरं पूजयतां सदैव

न संनतिं प्रैमि सुयोधनस्य; न त्वा जानाम्याधिरथेर्भयार्तम्

Mahabharata

Karna Parva, Adhyaya 48, Verse 13

त्वष्ट्रा कृतं वाहमकूजनाक्षं; शुभं समास्थाय कपिध्वजं त्वम्

खड्गं गृहीत्वा हेमचित्रं समिद्धं; धनुश्चेदं गाण्डिवं तालमात्रम्

स केशवेनोह्यमानः कथं नु; कर्णाद्भीतो व्यपयातोऽसि पार्थ

Mahabharata

Karna Parva, Adhyaya 48, Verse 14

धनुश्चैतत्केशवाय प्रदाय; यन्ताभविष्यस्त्वं रणे चेद्दुरात्मन्

ततोऽहनिष्यत्केशवः कर्णमुग्रं; मरुत्पतिर्वृत्रमिवात्तवज्रः

Mahabharata

Karna Parva, Adhyaya 48, Verse 15

मासेऽपतिष्यः पञ्चमे त्वं प्रकृच्छ्रे; न वा गर्भोऽप्यभविष्यः पृथायाः

तत्ते श्रमो राजपुत्राभविष्य;न्न संग्रामादपयातुं दुरात्मन्