Mahabharata

Karna Parva, Adhyaya 47

Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 47, Verse 1

तद्धर्मशीलस्य वचो निशम्य; राज्ञः क्रुद्धस्याधिरथौ महात्मा

उवाच दुर्धर्षमदीनसत्त्वं; युधिष्ठिरं जिष्णुरनन्तवीर्यः

Mahabharata

Karna Parva, Adhyaya 47, Verse 2

संशप्तकैर्युध्यमानस्य मेऽद्य; सेनाग्रयायी कुरुसैन्यस्य राजन्

आशीविषाभान्खगमान्प्रमुञ्च;न्द्रौणिः पुरस्तात्सहसा व्यतिष्ठत्

Mahabharata

Karna Parva, Adhyaya 47, Verse 3

दृष्ट्वा रथं मेघनिभं ममेम;मम्बष्ठसेना मरणे व्यतिष्ठत्

तेषामहं पञ्च शतानि हत्वा; ततो द्रौणिमगमं पार्थिवाग्र्य

Mahabharata

Karna Parva, Adhyaya 47, Verse 4

ततोऽपरान्बाणसंघाननेका;नाकर्णपूर्णायतविप्रमुक्तान्

ससर्ज शिक्षास्त्रबलप्रयत्नै;स्तथा यथा प्रावृषि कालमेघः

Mahabharata

Karna Parva, Adhyaya 47, Verse 5

नैवाददानं न च संदधानं; जानीमहे कतरेणास्यतीति

वामेन वा यदि वा दक्षिणेन; स द्रोणपुत्रः समरे पर्यवर्तत्

Mahabharata

Karna Parva, Adhyaya 47, Verse 6

अविध्यन्मां पञ्चभिर्द्रोणपुत्रः; शितैः शरैः पञ्चभिर्वासुदेवम्

अहं तु तं त्रिंशता वज्रकल्पैः; समार्दयं निमिषस्यान्तरेण

Mahabharata

Karna Parva, Adhyaya 47, Verse 7

स विक्षरन्रुधिरं सर्वगात्रै; रथानीकं सूतसूनोर्विवेश

मयाभिभूतः सैनिकानां प्रबर्हा;नसावपश्यन्रुधिरेण प्रदिग्धान्

Mahabharata

Karna Parva, Adhyaya 47, Verse 8

ततोऽभिभूतं युधि वीक्ष्य सैन्यं; विध्वस्तयोधं द्रुतवाजिनागम्

पञ्चाशता रथमुख्यैः समेतः; कर्णस्त्वरन्मामुपायात्प्रमाथी

Mahabharata

Karna Parva, Adhyaya 47, Verse 9

तान्सूदयित्वाहमपास्य कर्णं; द्रष्टुं भवन्तं त्वरयाभियातः

सर्वे पाञ्चाला ह्युद्विजन्ते स्म कर्णा;द्गन्धाद्गावः केसरिणो यथैव

Mahabharata

Karna Parva, Adhyaya 47, Verse 10

महाझषस्येव मुखं प्रपन्नाः; प्रभद्रकाः कर्णमभि द्रवन्ति

मृत्योरास्यं व्यात्तमिवान्वपद्य;न्प्रभद्रकाः कर्णमासाद्य राजन्

Mahabharata

Karna Parva, Adhyaya 47, Verse 11

आयाहि पश्याद्य युयुत्समानं; मां सूतपुत्रं च वृतौ जयाय

षट्साहस्रा भारत राजपुत्राः; स्वर्गाय लोकाय रथा निमग्नाः

Mahabharata

Karna Parva, Adhyaya 47, Verse 12

समेत्याहं सूतपुत्रेण संख्ये; वृत्रेण वज्रीव नरेन्द्रमुख्य

योत्स्ये भृशं भारत सूतपुत्र;मस्मिन्संग्रामे यदि वै दृश्यतेऽद्य

Mahabharata

Karna Parva, Adhyaya 47, Verse 13

कर्णं न चेदद्य निहन्मि राज;न्सबान्धवं युध्यमानं प्रसह्य

प्रतिश्रुत्याकुर्वतां वै गतिर्या; कष्टां गच्छेयं तामहं राजसिंह

Mahabharata

Karna Parva, Adhyaya 47, Verse 14

आमन्त्रये त्वां ब्रूहि जयं रणे मे; पुरा भीमं धार्तराष्ट्रा ग्रसन्ते

सौतिं हनिष्यामि नरेन्द्रसिंह; सैन्यं तथा शत्रुगणांश्च सर्वान्