Mahabharata

Karna Parva, Adhyaya 46

Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 46, Verse 1

महासत्त्वौ तु तौ दृष्ट्वा सहितौ केशवार्जुनौ

हतमाधिरथिं मेने संख्ये गाण्डीवधन्वना

Mahabharata

Karna Parva, Adhyaya 46, Verse 2

तावभ्यनन्दत्कौन्तेयः साम्ना परमवल्गुना

स्मितपूर्वममित्रघ्नः पूजयन्भरतर्षभ

Mahabharata

Karna Parva, Adhyaya 46, Verse 3

स्वागतं देवकीपुत्र स्वागतं ते धनंजय

प्रियं मे दर्शनं बाढं युवयोरच्युतार्जुनौ

Mahabharata

Karna Parva, Adhyaya 46, Verse 4

अक्षताभ्यामरिष्टाभ्यां कथं युध्य महारथम्

आशीविषसमं युद्धे सर्वशस्त्रविशारदम्

Mahabharata

Karna Parva, Adhyaya 46, Verse 5

अग्रगं धार्तराष्ट्राणां सर्वेषां शर्म वर्म च

रक्षितं वृषसेनेन सुषेणेन च धन्विना

Mahabharata

Karna Parva, Adhyaya 46, Verse 6

अनुज्ञातं महावीर्यं रामेणास्त्रेषु दुर्जयम्

त्रातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे

Mahabharata

Karna Parva, Adhyaya 46, Verse 7

हन्तारमरिसैन्यानाममित्रगणमर्दनम्

दुर्योधनहिते युक्तमस्मद्युद्धाय चोद्यतम्

Mahabharata

Karna Parva, Adhyaya 46, Verse 8

अप्रधृष्यं महायुद्धे देवैरपि सवासवैः

अनलानिलयोस्तुल्यं तेजसा च बलेन च

Mahabharata

Karna Parva, Adhyaya 46, Verse 9

पातालमिव गम्भीरं सुहृदानन्दवर्धनम्

अन्तकाभममित्राणां कर्णं हत्वा महाहवे

दिष्ट्या युवामनुप्राप्तौ जित्वासुरमिवामरौ

Mahabharata

Karna Parva, Adhyaya 46, Verse 10

तेन युद्धमदीनेन मया ह्यद्याच्युतार्जुनौ

कुपितेनान्तकेनेव प्रजाः सर्वा जिघांसता

Mahabharata

Karna Parva, Adhyaya 46, Verse 11

तेन केतुश्च मे छिन्नो हतौ च पार्ष्णिसारथी

हतवाहः कृतश्चास्मि युयुधानस्य पश्यतः

Mahabharata

Karna Parva, Adhyaya 46, Verse 12

धृष्टद्युम्नस्य यमयोर्वीरस्य च शिखण्डिनः

पश्यतां द्रौपदेयानां पाञ्चालानां च सर्वशः

Mahabharata

Karna Parva, Adhyaya 46, Verse 13

एताञ्जित्वा महावीर्यान्कर्णः शत्रुगणान्बहून्

जितवान्मां महाबाहो यतमानं महारणे

Mahabharata

Karna Parva, Adhyaya 46, Verse 14

अनुसृत्य च मां युद्धे परुषाण्युक्तवान्बहु

तत्र तत्र युधां श्रेष्ठः परिभूय न संशयः

Mahabharata

Karna Parva, Adhyaya 46, Verse 15

भीमसेनप्रभावात्तु यज्जीवामि धनंजय

बहुनात्र किमुक्तेन नाहं तत्सोढुमुत्सहे

Mahabharata

Karna Parva, Adhyaya 46, Verse 16

त्रयोदशाहं वर्षाणि यस्माद्भीतो धनंजय

न स्म निद्रां लभे रात्रौ न चाहनि सुखं क्वचित्

Mahabharata

Karna Parva, Adhyaya 46, Verse 17

तस्य द्वेषेण संयुक्तः परिदह्ये धनंजय

आत्मनो मरणं जानन्वाध्रीणस इव द्विपः

Mahabharata

Karna Parva, Adhyaya 46, Verse 18

यस्यायमगमत्कालश्चिन्तयानस्य मे विभो

कथं शक्यो मया कर्णो युद्धे क्षपयितुं भवेत्

Mahabharata

Karna Parva, Adhyaya 46, Verse 19

जाग्रत्स्वपंश्च कौन्तेय कर्णमेव सदा ह्यहम्

पश्यामि तत्र तत्रैव कर्णभूतमिदं जगत्

Mahabharata

Karna Parva, Adhyaya 46, Verse 20

यत्र यत्र हि गच्छामि कर्णाद्भीतो धनंजय

तत्र तत्र हि पश्यामि कर्णमेवाग्रतः स्थितम्

Mahabharata

Karna Parva, Adhyaya 46, Verse 21

सोऽहं तेनैव वीरेण समरेष्वपलायिना

सहयः सरथः पार्थ जित्वा जीवन्विसर्जितः

Mahabharata

Karna Parva, Adhyaya 46, Verse 22

को नु मे जीवितेनार्थो राज्येनार्थोऽथ वा पुनः

ममैवं धिक्कृतस्येह कर्णेनाहवशोभिना

Mahabharata

Karna Parva, Adhyaya 46, Verse 23

न प्राप्तपूर्वं यद्भीष्मात्कृपाद्द्रोणाच्च संयुगे

तत्प्राप्तमद्य मे युद्धे सूतपुत्रान्महारथात्

Mahabharata

Karna Parva, Adhyaya 46, Verse 24

तत्त्वा पृच्छामि कौन्तेय यथा ह्यकुशलस्तथा

तन्ममाचक्ष्व कार्त्स्न्येन यथा कर्णस्त्वया हतः

Mahabharata

Karna Parva, Adhyaya 46, Verse 25

शक्रवीर्यसमो युद्धे यमतुल्यपराक्रमः

रामतुल्यस्तथास्त्रे यः स कथं वै निषूदितः

Mahabharata

Karna Parva, Adhyaya 46, Verse 26

महारथः समाख्यातः सर्वयुद्धविशारदः

धनुर्धराणां प्रवरः सर्वेषामेकपूरुषः

Mahabharata

Karna Parva, Adhyaya 46, Verse 27

पूजितो धृतराष्ट्रेण सपुत्रेण विशां पते

सदा त्वदर्थं राधेयः स कथं निहतस्त्वया

Mahabharata

Karna Parva, Adhyaya 46, Verse 28

धृतराष्ट्रो हि योधेषु सर्वेष्वेव सदार्जुन

तव मृत्युं रणे कर्णं मन्यते पुरुषर्षभः

Mahabharata

Karna Parva, Adhyaya 46, Verse 29

स त्वया पुरुषव्याघ्र कथं युद्धे निषूदितः

तं ममाचक्ष्व बीभत्सो यथा कर्णो हतस्त्वया

Mahabharata

Karna Parva, Adhyaya 46, Verse 30

सोत्सेधमस्य च शिरः पश्यतां सुहृदां हृतम्

त्वया पुरुषशार्दूल शार्दूलेन यथा रुरोः