Mahabharata

Karna Parva, Adhyaya 44

Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 44, Verse 1

निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे

वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः

Mahabharata

Karna Parva, Adhyaya 44, Verse 2

द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः

किमकुर्वन्त कुरवस्तन्ममाचक्ष्व संजय

Mahabharata

Karna Parva, Adhyaya 44, Verse 3

दृष्ट्वा भीमं महाबाहुं सूतपुत्रः प्रतापवान्

क्रोधरक्तेक्षणो राजन्भीमसेनमुपाद्रवत्

Mahabharata

Karna Parva, Adhyaya 44, Verse 4

तावकं च बलं दृष्ट्वा भीमसेनात्पराङ्मुखम्

यत्नेन महता राजन्पर्यवस्थापयद्बली

Mahabharata

Karna Parva, Adhyaya 44, Verse 5

व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम्

प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान्

Mahabharata

Karna Parva, Adhyaya 44, Verse 6

प्रत्युद्ययुस्तु राधेयं पाण्डवानां महारथाः

धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान्

Mahabharata

Karna Parva, Adhyaya 44, Verse 7

भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः

धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः

Mahabharata

Karna Parva, Adhyaya 44, Verse 8

पाञ्चालाश्च नरव्याघ्राः समन्तात्तव वाहिनीम्

अभ्यद्रवन्त संक्रुद्धाः समरे जितकाशिनः

Mahabharata

Karna Parva, Adhyaya 44, Verse 9

तथैव तावका राजन्पाण्डवानामनीकिनीम्

अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथाः

Mahabharata

Karna Parva, Adhyaya 44, Verse 10

रथनागाश्वकलिलं पत्तिध्वजसमाकुलम्

बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम्

Mahabharata

Karna Parva, Adhyaya 44, Verse 11

शिखण्डी च ययौ कर्णं धृष्टद्युम्नः सुतं तव

दुःशासनं महाराज महत्या सेनया वृतम्

Mahabharata

Karna Parva, Adhyaya 44, Verse 12

नकुलो वृषसेनं च चित्रसेनं युधिष्ठिरः

उलूकं समरे राजन्सहदेवः समभ्ययात्

Mahabharata

Karna Parva, Adhyaya 44, Verse 13

सात्यकिः शकुनिं चापि भीमसेनश्च कौरवान्

अर्जुनं च रणे यत्तं द्रोणपुत्रो महारथः

Mahabharata

Karna Parva, Adhyaya 44, Verse 14

युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे

कृतवर्मा च बलवानुत्तमौजसमाद्रवत्

Mahabharata

Karna Parva, Adhyaya 44, Verse 15

भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष

सहानीकान्महाबाहुरेक एवाभ्यवारयत्

Mahabharata

Karna Parva, Adhyaya 44, Verse 16

शिखण्डी च ततः कर्णं विचरन्तमभीतवत्

भीष्महन्ता महाराज वारयामास पत्रिभिः

Mahabharata

Karna Parva, Adhyaya 44, Verse 17

प्रतिरब्धस्ततः कर्णो रोषात्प्रस्फुरिताधरः

शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्ये व्यताडयत्

Mahabharata

Karna Parva, Adhyaya 44, Verse 18

धारयंस्तु स तान्बाणाञ्शिखण्डी बह्वशोभत

राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः

Mahabharata

Karna Parva, Adhyaya 44, Verse 19

सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे

कर्णं विव्याध समरे नवत्या निशितैः शरैः

Mahabharata

Karna Parva, Adhyaya 44, Verse 20

तस्य कर्णो हयान्हत्वा सारथिं च त्रिभिः शरैः

उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः

Mahabharata

Karna Parva, Adhyaya 44, Verse 21

हताश्वात्तु ततो यानादवप्लुत्य महारथः

शक्तिं चिक्षेप कर्णाय संक्रुद्धः शत्रुतापनः

Mahabharata

Karna Parva, Adhyaya 44, Verse 22

तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः

शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः

Mahabharata

Karna Parva, Adhyaya 44, Verse 23

कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः

अपयातस्ततस्तूर्णं शिखण्डी जयतां वरः

Mahabharata

Karna Parva, Adhyaya 44, Verse 24

ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत्

तूलराशिं समासाद्य यथा वायुर्महाजवः

Mahabharata

Karna Parva, Adhyaya 44, Verse 25

धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः

दुःशासनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे

Mahabharata

Karna Parva, Adhyaya 44, Verse 26

तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष

शितेन रुक्मपुङ्खेन भल्लेन नतपर्वणा

Mahabharata

Karna Parva, Adhyaya 44, Verse 27

धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः

दुःशासनाय संक्रुद्धः प्रेषयामास भारत

Mahabharata

Karna Parva, Adhyaya 44, Verse 28

आपतन्तं महावेगं धृष्टद्युम्नसमीरितम्

शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशां पते

Mahabharata

Karna Parva, Adhyaya 44, Verse 29

अथापरैः सप्तदशैर्भल्लैः कनकभूषणैः

धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्दयत्

Mahabharata

Karna Parva, Adhyaya 44, Verse 30

ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष

क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः