Mahabharata

Karna Parva, Adhyaya 41

Containing 7 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 41, Verse 1

त्वरमाणः पुनः कृष्णः पार्थमभ्यवदच्छनैः

पश्य कौरव्य राजानमपयातांश्च पाण्डवान्

Mahabharata

Karna Parva, Adhyaya 41, Verse 2

कर्णं पश्य महारङ्गे ज्वलन्तमिव पावकम्

असौ भीमो महेष्वासः संनिवृत्तो रणं प्रति

Mahabharata

Karna Parva, Adhyaya 41, Verse 3

तमेतेऽनु निवर्तन्ते धृष्टद्युम्नपुरोगमाः

पाञ्चालानां सृञ्जयानां पाण्डवानां च यन्मुखम्

निवृत्तैश्च तथा पार्थैर्भग्नं शत्रुबलं महत्

Mahabharata

Karna Parva, Adhyaya 41, Verse 4

कौरवान्द्रवतो ह्येष कर्णो धारयतेऽर्जुन

अन्तकप्रतिमो वेगे शक्रतुल्यपराक्रमः

Mahabharata

Karna Parva, Adhyaya 41, Verse 5

असौ गच्छति कौरव्य द्रौणिरस्त्रभृतां वरः

तमेष प्रद्रुतः संख्ये धृष्टद्युम्नो महारथः

Mahabharata

Karna Parva, Adhyaya 41, Verse 6

सर्वं व्याचष्ट दुर्धर्षो वासुदेवः किरीटिने

ततो राजन्प्रादुरासीन्महाघोरो महारणः

Mahabharata

Karna Parva, Adhyaya 41, Verse 7

सिंहनादरवाश्चात्र प्रादुरासन्समागमे

उभयोः सेनयो राजन्मृत्युं कृत्वा निवर्तनम्