Karna Parva, Adhyaya 38, Verse 1
कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष
उलूकः सौबलश्चैव राजा च सह सोदरैः
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
कृतवर्मा कृपो द्रौणिः सूतपुत्रश्च मारिष
उलूकः सौबलश्चैव राजा च सह सोदरैः
सीदमानां चमूं दृष्ट्वा पाण्डुपुत्रभयार्दिताम्
समुज्जिहीर्षुर्वेगेन भिन्नां नावमिवार्णवे
ततो युद्धमतीवासीन्मुहूर्तमिव भारत
भीरूणां त्रासजननं शूराणां हर्षवर्धनम्
कृपेण शरवर्षाणि विप्रमुक्तानि संयुगे
सृञ्जयाः शातयामासुः शलभानां व्रजा इव
शिखण्डी तु ततः क्रुद्धो गौतमं त्वरितो ययौ
ववर्ष शरवर्षाणि समन्तादेव ब्राह्मणे
कृपस्तु शरवर्षं तद्विनिहत्य महास्त्रवित्
शिखण्डिनं रणे क्रुद्धो विव्याध दशभिः शरैः
ततः शिखण्डी कुपीतः शरैः सप्तभिराहवे
कृपं विव्याध सुभृशं कङ्कपत्रैरजिह्मगैः
ततः कृपः शरैस्तीक्ष्णैः सोऽतिविद्धो महारथः
व्यश्वसूतरथं चक्रे पार्षतं तु द्विजोत्तमः
हताश्वात्तु ततो यानादवप्लुत्य महारथः
चर्मखड्गे च संगृह्य सत्वरं ब्राह्मणं ययौ
तमापतन्तं सहसा शरैः संनतपर्वभिः
छादयामास समरे तदद्भुतमिवाभवत्
तत्राद्भुतमपश्याम शिलानां प्लवनं यथा
निश्चेष्टो यद्रणे राजञ्शिखण्डी समतिष्ठत
कृपेण छादितं दृष्ट्वा नृपोत्तम शिखण्डिनम्
प्रत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नो महारथः
धृष्टद्युम्नं ततो यान्तं शारद्वतरथं प्रति
प्रतिजग्राह वेगेन कृतवर्मा महारथः
युधिष्ठिरमथायान्तं शारद्वतरथं प्रति
सपुत्रं सहसेनं च द्रोणपुत्रो न्यवारयत्
नकुलं सहदेवं च त्वरमाणौ महारथौ
प्रतिजग्राह ते पुत्रः शरवर्षेण वारयन्
भीमसेनं करूषांश्च केकयान्सहसृञ्जयान्
कर्णो वैकर्तनो युद्धे वारयामास भारत
शिखण्डिनस्ततो बाणान्कृपः शारद्वतो युधि
प्राहिणोत्त्वरया युक्तो दिधक्षुरिव मारिष
ताञ्शरान्प्रेषितांस्तेन समन्ताद्धेमभूषणान्
चिच्छेद खड्गमाविध्य भ्रामयंश्च पुनः पुनः
शतचन्द्रं ततश्चर्म गौतमः पार्षतस्य ह
व्यधमत्सायकैस्तूर्णं तत उच्चुक्रुशुर्जनाः
स विचर्मा महाराज खड्गपाणिरुपाद्रवत्
कृपस्य वशमापन्नो मृत्योरास्यमिवातुरः
शारद्वतशरैर्ग्रस्तं क्लिश्यमानं महाबलम्
चित्रकेतुसुतो राजन्सुकेतुस्त्वरितो ययौ
विकिरन्ब्राह्मणं युद्धे बहुभिर्निशितैः शरैः
अभ्यापतदमेयात्मा गौतमस्य रथं प्रति
दृष्ट्वाविषह्यं तं युद्धे ब्राह्मणं चरितव्रतम्
अपयातस्ततस्तूर्णं शिखण्डी राजसत्तम
सुकेतुस्तु ततो राजन्गौतमं नवभिः शरैः
विद्ध्वा विव्याध सप्तत्या पुनश्चैनं त्रिभिः शरैः
अथास्य सशरं चापं पुनश्चिच्छेद मारिष
सारथिं च शरेणास्य भृशं मर्मण्यताडयत्
गौतमस्तु ततः क्रुद्धो धनुर्गृह्य नवं दृढम्
सुकेतुं त्रिंशता बाणैः सर्वमर्मस्वताडयत्
स विह्वलितसर्वाङ्गः प्रचचाल रथोत्तमे
भूमिचाले यथा वृक्षश्चलत्याकम्पितो भृशम्
चलतस्तस्य कायात्तु शिरो ज्वलितकुण्डलम्
सोष्णीषं सशिरस्त्राणं क्षुरप्रेणान्वपातयत्
तच्छिरः प्रापतद्भूमौ श्येनाहृतमिवामिषम्
ततोऽस्य कायो वसुधां पश्चात्प्राप तदा च्युतः
तस्मिन्हते महाराज त्रस्तास्तस्य पदानुगाः
गौतमं समरे त्यक्त्वा दुद्रुवुस्ते दिशो दश