Mahabharata

Karna Parva, Adhyaya 36

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 36, Verse 1

क्षत्रियास्ते महाराज परस्परवधैषिणः

अन्योन्यं समरे जघ्नुः कृतवैराः परस्परम्

Mahabharata

Karna Parva, Adhyaya 36, Verse 2

रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः

गजौघाश्च महाराज संसक्ताः स्म परस्परम्

Mahabharata

Karna Parva, Adhyaya 36, Verse 3

गदानां परिघाणां च कणपानां च सर्पताम्

प्रासानां भिण्डिपालानां भुशुण्डीनां च सर्वशः

Mahabharata

Karna Parva, Adhyaya 36, Verse 4

संपातं चान्वपश्याम संग्रामे भृशदारुणे

शलभा इव संपेतुः समन्ताच्छरवृष्टयः

Mahabharata

Karna Parva, Adhyaya 36, Verse 5

नागा नागान्समासाद्य व्यधमन्त परस्परम्

हया हयांश्च समरे रथिनो रथिनस्तथा

पत्तयः पत्तिसंघैश्च हयसंघैर्हयास्तथा

Mahabharata

Karna Parva, Adhyaya 36, Verse 6

पत्तयो रथमातङ्गान्रथा हस्त्यश्वमेव च

नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप

Mahabharata

Karna Parva, Adhyaya 36, Verse 7

पततां तत्र शूराणां क्रोशतां च परस्परम्

घोरमायोधनं जज्ञे पशूनां वैशसं यथा

Mahabharata

Karna Parva, Adhyaya 36, Verse 8

रुधिरेण समास्तीर्णा भाति भारत मेदिनी

शक्रगोपगणाकीर्णा प्रावृषीव यथा धरा

Mahabharata

Karna Parva, Adhyaya 36, Verse 9

यथा वा वाससी शुक्ले महारजनरञ्जिते

बिभृयाद्युवतिः श्यामा तद्वदासीद्वसुंधरा

मांसशोणितचित्रेव शातकौम्भमयीव च

Mahabharata

Karna Parva, Adhyaya 36, Verse 10

छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह

कुण्डलानां प्रविद्धानां भूषणानां च भारत

Mahabharata

Karna Parva, Adhyaya 36, Verse 11

निष्काणामधिसूत्राणां शरीराणां च धन्विनाम्

वर्मणां सपताकानां संघास्तत्रापतन्भुवि

Mahabharata

Karna Parva, Adhyaya 36, Verse 12

गजान्गजाः समासाद्य विषाणाग्रैरदारयन्

विषाणाभिहतास्ते च भ्राजन्ते द्विरदा यथा

Mahabharata

Karna Parva, Adhyaya 36, Verse 13

रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव

यथा भ्राजन्ति स्यन्दन्तः पर्वता धातुमण्डिताः

Mahabharata

Karna Parva, Adhyaya 36, Verse 14

तोमरान्गजिभिर्मुक्तान्प्रतीपानास्थितान्बहून्

हस्तैर्विचेरुस्ते नागा बभञ्जुश्चापरे तथा

Mahabharata

Karna Parva, Adhyaya 36, Verse 15

नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः

हिमागमे महाराज व्यभ्रा इव महीधराः

Mahabharata

Karna Parva, Adhyaya 36, Verse 16

शरैः कनकपुङ्खैस्तु चिता रेजुर्गजोत्तमाः

उल्काभिः संप्रदीप्ताग्राः पर्वता इव मारिष

Mahabharata

Karna Parva, Adhyaya 36, Verse 17

केचिदभ्याहता नागा नागैर्नगनिभा भुवि

निपेतुः समरे तस्मिन्पक्षवन्त इवाद्रयः

Mahabharata

Karna Parva, Adhyaya 36, Verse 18

अपरे प्राद्रवन्नागाः शल्यार्ता व्रणपीडिताः

प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे

Mahabharata

Karna Parva, Adhyaya 36, Verse 19

निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान्

मम्लुश्च बहवो राजंश्चुकूजुश्चापरे तथा

Mahabharata

Karna Parva, Adhyaya 36, Verse 20

हयाश्च निहता बाणैः स्वर्णभाण्डपरिच्छदाः

निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश

Mahabharata

Karna Parva, Adhyaya 36, Verse 21

अपरे कृष्यमाणाश्च विवेष्टन्तो महीतले

भावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः

Mahabharata

Karna Parva, Adhyaya 36, Verse 22

नरास्तु निहता भूमौ कूजन्तस्तत्र मारिष

दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान्

Mahabharata

Karna Parva, Adhyaya 36, Verse 23

धावमानान्परांश्चैव दृष्ट्वान्ये तत्र भारत

गोत्रनामानि ख्यातानि शशंसुरितरेतरम्

Mahabharata

Karna Parva, Adhyaya 36, Verse 24

तेषां छिन्ना महाराज भुजाः कनकभूषणाः

उद्वेष्टन्ते विवेष्टन्ते पतन्ते चोत्पतन्ति च

Mahabharata

Karna Parva, Adhyaya 36, Verse 25

निपतन्ति तथा भूमौ स्फुरन्ति च सहस्रशः

वेगांश्चान्ये रणे चक्रुः स्फुरन्त इव पन्नगाः

Mahabharata

Karna Parva, Adhyaya 36, Verse 26

ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशां पते

लोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव

Mahabharata

Karna Parva, Adhyaya 36, Verse 27

वर्तमाने तथा घोरे संकुले सर्वतोदिशम्

अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम्

Mahabharata

Karna Parva, Adhyaya 36, Verse 28

भौमेन रजसा कीर्णे शस्त्रसंपातसंकुले

नैव स्वे न परे राजन्व्यज्ञायन्त तमोवृते

Mahabharata

Karna Parva, Adhyaya 36, Verse 29

तथा तदभवद्युद्धं घोररूपं भयानकम्

शोणितोदा महानद्यः प्रसस्रुस्तत्र चासकृत्

Mahabharata

Karna Parva, Adhyaya 36, Verse 30

शीर्षपाषाणसंछन्नाः केशशैवलशाद्वलाः

अस्थिसंघातसंकीर्णा धनुःशरवरोत्तमाः