Karna Parva, Adhyaya 34, Verse 1
तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम्
क्रोशतस्तव पुत्रस्य न स्म राजन्न्यवर्तत
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम्
क्रोशतस्तव पुत्रस्य न स्म राजन्न्यवर्तत
ततः पक्षात्प्रपक्षाच्च प्रपक्षैश्चापि दक्षिणात्
उदस्तशस्त्राः कुरवो भीममभ्यद्रवन्रणे
कर्णोऽपि दृष्ट्वा द्रवतो धार्तराष्ट्रान्पराङ्मुखान्
हंसवर्णान्हयाग्र्यांस्तान्प्रैषीद्यत्र वृकोदरम्
ते प्रेषिता महाराज शल्येनाहवशोभिना
भीमसेनरथं प्राप्य समसज्जन्त वाजिनः
दृष्ट्वा कर्णं समायान्तं भीमः क्रोधसमन्वितः
मतिं दध्रे विनाशाय कर्णस्य भरतर्षभ
सोऽब्रवीत्सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम्
एनं रक्षत राजानं धर्मात्मानं युधिष्ठिरम्
संशयान्महतो मुक्तं कथंचित्प्रेक्षतो मम
अग्रतो मे कृतो राजा छिन्नसर्वपरिच्छदः
दुर्योधनस्य प्रीत्यर्थं राधेयेन दुरात्मना
अन्तमद्य करिष्यामि तस्य दुःखस्य पार्षत
हन्ता वास्मि रणे कर्णं स वा मां निहनिष्यति
संग्रामेण सुघोरेण सत्यमेतद्ब्रवीमि वः
राजानमद्य भवतां न्यासभूतं ददामि वै
अस्य संरक्षणे सर्वे यतध्वं विगतज्वराः
एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति
सिंहनादेन महता सर्वाः संनादयन्दिशः
दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम्
सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः
पश्य कर्ण महाबाहुं क्रुद्धं पाण्डवनन्दनम्
दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वयि ध्रुवम्
ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचन
अभिमन्यौ हते कर्ण राक्षसे वा घटोत्कचे
त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणे
बिभर्ति यादृशं रूपं कालाग्निसदृशं शुभम्
इति ब्रुवति राधेयं मद्राणामीश्वरे नृप
अभ्यवर्तत वै कर्णं क्रोधदीप्तो वृकोदरः
तथागतं तु संप्रेक्ष्य भीमं युद्धाभिनन्दिनम्
अब्रवीद्वचनं शल्यं राधेयः प्रहसन्निव
यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर
भीमसेनं प्रति विभो तत्सत्यं नात्र संशयः
एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः
निरपेक्षः शरीरे च प्राणतश्च बलाधिकः
अज्ञातवासं वसता विराटनगरे तदा
द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात्
गूढभावं समाश्रित्य कीचकः सगणो हतः
सोऽद्य संग्रामशिरसि संनद्धः क्रोधमूर्च्छितः
किंकरोद्यतदण्डेन मृत्युनापि व्रजेद्रणम्
चिरकालाभिलषितो ममायं तु मनोरथः
अर्जुनं समरे हन्यां मां वा हन्याद्धनंजयः
स मे कदाचिदद्यैव भवेद्भीमसमागमात्
निहते भीमसेने तु यदि वा विरथीकृते
अभियास्यति मां पार्थस्तन्मे साधु भविष्यति
अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं संप्रधारय
एतच्छ्रुत्वा तु वचनं राधेयस्य महात्मनः
उवाच वचनं शल्यः सूतपुत्रं तथागतम्
अभियासि महाबाहो भीमसेनं महाबलम्
निरस्य भीमसेनं तु ततः प्राप्स्यसि फल्गुनम्
यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गतः
स वै संपत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते
एवमुक्ते ततः कर्णः शल्यं पुनरभाषत
हन्ताहमर्जुनं संख्ये मां वा हन्ता धनंजयः
युद्धे मनः समाधाय याहि याहीत्यचोदयत्
ततः प्रायाद्रथेनाशु शल्यस्तत्र विशां पते
यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम्
ततस्तूर्यनिनादश्च भेरीणां च महास्वनः
उदतिष्ठत राजेन्द्र कर्णभीमसमागमे
भीमसेनोऽथ संक्रुद्धस्तव सैन्यं दुरासदम्
नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली
स संनिपातस्तुमुलो भीमरूपो विशां पते
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे
ततो मुहूर्ताद्राजेन्द्र पाण्डवः कर्णमाद्रवत्