Karna Parva, Adhyaya 33, Verse 1
विदार्य कर्णस्तां सेनां धर्मराजमुपाद्रवत्
रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः
Containing 70 sacred Sanskrit shlokas with multi-author commentaries and translations.
विदार्य कर्णस्तां सेनां धर्मराजमुपाद्रवत्
रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः
नानायुधसहस्राणि प्रेषितान्यरिभिर्वृषः
छित्त्वा बाणशतैरुग्रैस्तानविध्यदसंभ्रमः
निचकर्त शिरांस्येषां बाहूनूरूंश्च सर्वशः
ते हता वसुधां पेतुर्भग्नाश्चान्ये विदुद्रुवुः
द्रविडान्ध्रनिषादास्तु पुनः सात्यकिचोदिताः
अभ्यर्दयञ्जिघांसन्तः पत्तयः कर्णमाहवे
ते विबाहुशिरस्त्राणाः प्रहताः कर्णसायकैः
पेतुः पृथिव्यां युगपच्छिन्नं शालवनं यथा
एवं योधशतान्याजौ सहस्राण्ययुतानि च
हतानीयुर्महीं देहैर्यशसापूरयन्दिशः
अथ वैकर्तनं कर्णं रणे क्रुद्धमिवान्तकम्
रुरुधुः पाण्डुपाञ्चाला व्याधिं मन्त्रौषधैरिव
स तान्प्रमृद्याभ्यपतत्पुनरेव युधिष्ठिरम्
मन्त्रौषधिक्रियातीतो व्याधिरत्युल्बणो यथा
स राजगृद्धिभी रुद्धः पाण्डुपाञ्चालकेकयैः
नाशकत्तानतिक्रान्तुं मृत्युर्ब्रह्मविदो यथा
ततो युधिष्ठिरः कर्णमदूरस्थं निवारितम्
अब्रवीत्परवीरघ्नः क्रोधसंरक्तलोचनः
कर्ण कर्ण वृथादृष्टे सूतपुत्र वचः शृणु
सदा स्पर्धसि संग्रामे फल्गुनेन यशस्विना
तथास्मान्बाधसे नित्यं धार्तराष्ट्रमते स्थितः
यद्बलं यच्च ते वीर्यं प्रद्वेषो यश्च पाण्डुषु
तत्सर्वं दर्शयस्वाद्य पौरुषं महदास्थितः
युद्धश्रद्धां स तेऽद्याहं विनेष्यामि महाहवे
एवमुक्त्वा महाराज कर्णं पाण्डुसुतस्तदा
सुवर्णपुङ्खैर्दशभिर्विव्याधायस्मयैः शितैः
तं सूतपुत्रो नवभिः प्रत्यविध्यदरिंदमः
वत्सदन्तैर्महेष्वासः प्रहसन्निव भारत
ततः क्षुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः
जघान समरे शूरः शरैः संनतपर्वभिः
तावुभौ धर्मराजस्य प्रवीरौ परिपार्श्वतः
रथाभ्याशे चकाशेते चन्द्रस्येव पुनर्वसू
युधिष्ठिरः पुनः कर्णमविध्यत्त्रिंशता शरैः
सुषेणं सत्यसेनं च त्रिभिस्त्रिभिरताडयत्
शल्यं नवत्या विव्याध त्रिसप्तत्या च सूतजम्
तांश्चास्य गोप्तॄन्विव्याध त्रिभिस्त्रिभिरजिह्मगैः
ततः प्रहस्याधिरथिर्विधुन्वानः स कार्मुकम्
भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्यानदन्मुदा
ततः प्रवीराः पाण्डूनामभ्यधावन्युधिष्ठिरम्
सूतपुत्रात्परीप्सन्तः कर्णमभ्यर्दयञ्शरैः
सात्यकिश्चेकितानश्च युयुत्सुः पाण्ड्य एव च
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः
यमौ च भीमसेनश्च शिशुपालस्य चात्मजः
कारूषा मत्स्यशेषाश्च केकयाः काशिकोसलाः
एते च त्वरिता वीरा वसुषेणमवारयन्
जनमेजयश्च पाञ्चाल्यः कर्णं विव्याध सायकैः
वराहकर्णैर्नाराचैर्नालीकैर्निशितैः शरैः
वत्सदन्तैर्विपाठैश्च क्षुरप्रैश्चटकामुखैः
नानाप्रहरणैश्चोग्रै रथहस्त्यश्वसादिनः
सर्वतोऽभ्याद्रवन्कर्णं परिवार्य जिघांसया
स पाण्डवानां प्रवरैः सर्वतः समभिद्रुतः
उदैरयद्ब्राह्ममस्त्रं शरैः संपूरयन्दिशः
ततः शरमहाज्वालो वीर्योष्मा कर्णपावकः
निर्दहन्पाण्डववनं चारु पर्यचरद्रणे
स संवार्य महास्त्राणि महेष्वासो महात्मनाम्
प्रहस्य पुरुषेन्द्रस्य शरैश्चिच्छेद कार्मुकम्
ततः संधाय नवतिं निमेषान्नतपर्वणाम्
बिभेद कवचं राज्ञो रणे कर्णः शितैः शरैः
तद्वर्म हेमविकृतं रराज निपतत्तदा
सविद्युदभ्रं सवितुः शिष्टं वातहतं यथा
तदङ्गं पुरुषेन्द्रस्य भ्रष्टवर्म व्यरोचत
रत्नैरलंकृतं दिव्यैर्व्यभ्रं निशि यथा नभः