Karna Parva, Adhyaya 32, Verse 1
तथा व्यूढेष्वनीकेषु संसक्तेषु च संजय
संशप्तकान्कथं पार्थो गतः कर्णश्च पाण्डवान्
Containing 84 sacred Sanskrit shlokas with multi-author commentaries and translations.
तथा व्यूढेष्वनीकेषु संसक्तेषु च संजय
संशप्तकान्कथं पार्थो गतः कर्णश्च पाण्डवान्
एतद्विस्तरतो युद्धं प्रब्रूहि कुशलो ह्यसि
न हि तृप्यामि वीराणां शृण्वानो विक्रमान्रणे
तत्स्थाने समवस्थाप्य प्रत्यमित्रं महाबलम्
अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्नये
तत्सादिनागकलिलं पदातिरथसंकुलम्
धृष्टद्युम्नमुखैर्व्यूढमशोभत महद्बलम्
पारावतसवर्णाश्वश्चन्द्रादित्यसमद्युतिः
पार्षतः प्रबभौ धन्वी कालो विग्रहवानिव
पार्षतं त्वभि संतस्थुर्द्रौपदेया युयुत्सवः
सानुगा भीमवपुषश्चन्द्रं तारागणा इव
अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे
क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः
अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः
विजये कृतसंकल्पा मृत्युं कृत्वा निवर्तनम्
तदश्वसंघबहुलं मत्तनागरथाकुलम्
पत्तिमच्छूरवीरौघैर्द्रुतमर्जुनमाद्रवत्
स संप्रहारस्तुमुलस्तेषामासीत्किरीटिना
तस्यैव नः श्रुतो यादृङ्निवातकवचैः सह
रथानश्वान्ध्वजान्नागान्पत्तीन्रथपतीनपि
इषून्धनूंषि खड्गांश्च चक्राणि च परश्वधान्
सायुधानुद्यतान्बाहूनुद्यतान्यायुधानि च
चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः
तस्मिन्सैन्ये महावर्ते पातालावर्तसंनिभे
निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा
स पुरस्तादरीन्हत्वा पश्चार्धेनोत्तरेण च
दक्षिणेन च बीभत्सुः क्रुद्धो रुद्रः पशूनिव
अथ पाञ्चालचेदीनां सृञ्जयानां च मारिष
त्वदीयैः सह संग्राम आसीत्परमदारुणः
कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः
हृष्टसेनाः सुसंरब्धा रथानीकैः प्रहारिणः
कोसलैः काशिमत्स्यैश्च कारूषैः केकयैरपि
शूरसेनैः शूरवीरैर्युयुधुर्युद्धदुर्मदाः
तेषामन्तकरं युद्धं देहपाप्मप्रणाशनम्
शूद्रविट्क्षत्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम्
दुर्योधनोऽपि सहितो भ्रातृभिर्भरतर्षभ
गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः
पाण्डवैः सहपाञ्चालैश्चेदिभिः सात्यकेन च
युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत्
कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम्
प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत्
विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः
युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत्
यत्तत्प्रविश्य पार्थानां सेनां कुर्वञ्जनक्षयम्
कर्णो राजानमभ्यर्च्छत्तन्ममाचक्ष्व संजय
के च प्रवीराः पार्थानां युधि कर्णमवारयन्
कांश्च प्रमथ्याधिरथिर्युधिष्ठिरमपीडयत्
धृष्टद्युम्नमुखान्पार्थान्दृष्ट्वा कर्णो व्यवस्थितान्
समभ्यधावत्त्वरितः पाञ्चालाञ्शत्रुकर्शनः
तं तूर्णमभिधावन्तं पाञ्चाला जितकाशिनः
प्रत्युद्ययुर्महाराज हंसा इव महार्णवम्
ततः शङ्खसहस्राणां निस्वनो हृदयंगमः
प्रादुरासीदुभयतो भेरीशब्दश्च दारुणः
नानावादित्रनादश्च द्विपाश्वरथनिस्वनः
सिंहनादश्च वीराणामभवद्दारुणस्तदा
साद्रिद्रुमार्णवा भूमिः सवाताम्बुदमम्बरम्
सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं व्यघूर्णत
अति भूतानि तं शब्दं मेनिरेऽति च विव्यथुः
यानि चाप्लवसत्त्वानि प्रायस्तानि मृतानि च