Mahabharata

Karna Parva, Adhyaya 31

Containing 68 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 31, Verse 1

ततः परानीकभिदं व्यूहमप्रतिमं परैः

समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम्

Mahabharata

Karna Parva, Adhyaya 31, Verse 2

प्रययौ रथघोषेण सिंहनादरवेण च

वादित्राणां च निनदैः कम्पयन्निव मेदिनीम्

Mahabharata

Karna Parva, Adhyaya 31, Verse 3

वेपमान इव क्रोधाद्युद्धशौण्डः परंतपः

प्रतिव्यूह्य महातेजा यथावद्भरतर्षभ

Mahabharata

Karna Parva, Adhyaya 31, Verse 4

व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव

युधिष्ठिरं चाभिभवन्नपसव्यं चकार ह

Mahabharata

Karna Parva, Adhyaya 31, Verse 5

कथं संजय राधेयः प्रत्यव्यूहत पाण्डवान्

धृष्टद्युम्नमुखान्वीरान्भीमसेनाभिरक्षितान्

Mahabharata

Karna Parva, Adhyaya 31, Verse 6

के च प्रपक्षौ पक्षौ वा मम सैन्यस्य संजय

प्रविभज्य यथान्यायं कथं वा समवस्थिताः

Mahabharata

Karna Parva, Adhyaya 31, Verse 7

कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान्

कथं चैतन्महायुद्धं प्रावर्तत सुदारुणम्

Mahabharata

Karna Parva, Adhyaya 31, Verse 8

क्व च बीभत्सुरभवद्यत्कर्णोऽयाद्युधिष्ठिरम्

को ह्यर्जुनस्य सांनिध्ये शक्तोऽभ्येतुं युधिष्ठिरम्

Mahabharata

Karna Parva, Adhyaya 31, Verse 9

सर्वभूतानि यो ह्येकः खाण्डवे जितवान्पुरा

कस्तमन्यत्र राधेयात्प्रतियुध्येज्जिजीविषुः

Mahabharata

Karna Parva, Adhyaya 31, Verse 10

शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः

परिदाय नृपं तेभ्यः संग्रामश्चाभवद्यथा

Mahabharata

Karna Parva, Adhyaya 31, Verse 11

कृपः शारद्वतो राजन्मागधश्च तरस्विनः

सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः

Mahabharata

Karna Parva, Adhyaya 31, Verse 12

तेषां प्रपक्षे शकुनिरुलूकश्च महारथः

सादिभिर्विमलप्रासैस्तवानीकमरक्षताम्

Mahabharata

Karna Parva, Adhyaya 31, Verse 13

गान्धारिभिरसंभ्रान्तैः पार्वतीयैश्च दुर्जयैः

शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः

Mahabharata

Karna Parva, Adhyaya 31, Verse 14

चतुस्त्रिंशत्सहस्राणि रथानामनिवर्तिनाम्

संशप्तका युद्धशौण्डा वामं पार्श्वमपालयन्

Mahabharata

Karna Parva, Adhyaya 31, Verse 15

समुच्चितास्तव सुतैः कृष्णार्जुनजिघांसवः

तेषां प्रपक्षः काम्बोजाः शकाश्च यवनैः सह

Mahabharata

Karna Parva, Adhyaya 31, Verse 16

निदेशात्सूतपुत्रस्य सरथाः साश्वपत्तयः

आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम्

Mahabharata

Karna Parva, Adhyaya 31, Verse 17

मध्येसेनामुखं कर्णो व्यवातिष्ठत दंशितः

चित्रवर्माङ्गदः स्रग्वी पालयन्ध्वजिनीमुखम्

Mahabharata

Karna Parva, Adhyaya 31, Verse 18

रक्ष्यमाणः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः

वाहिनीप्रमुखं वीरः संप्रकर्षन्नशोभत

Mahabharata

Karna Parva, Adhyaya 31, Verse 19

अयोरत्निर्महाबाहुः सूर्यवैश्वानरद्युतिः

महाद्विपस्कन्धगतः पिङ्गलः प्रियदर्शनः

दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः

Mahabharata

Karna Parva, Adhyaya 31, Verse 20

तमन्वयान्महाराज स्वयं दुर्योधनो नृपः

चित्राश्वैश्चित्रसंनाहैः सोदर्यैरभिरक्षितः

Mahabharata

Karna Parva, Adhyaya 31, Verse 21

रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः

अशोभत महाराज देवैरिव शतक्रतुः

Mahabharata

Karna Parva, Adhyaya 31, Verse 22

अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः

नित्यमत्ताश्च मातङ्गाः शूरैर्म्लेच्छैरधिष्ठिताः

अन्वयुस्तद्रथानीकं क्षरन्त इव तोयदाः

Mahabharata

Karna Parva, Adhyaya 31, Verse 23

ते ध्वजैर्वैजयन्तीभिर्ज्वलद्भिः परमायुधैः

सादिभिश्चास्थिता रेजुर्द्रुमवन्त इवाचलाः

Mahabharata

Karna Parva, Adhyaya 31, Verse 24

तेषां पदातिनागानां पादरक्षाः सहस्रशः

पट्टिशासिधराः शूरा बभूवुरनिवर्तिनः

Mahabharata

Karna Parva, Adhyaya 31, Verse 25

सादिभिः स्यन्दनैर्नागैरधिकं समलंकृतैः

स व्यूहराजो विबभौ देवासुरचमूपमः

Mahabharata

Karna Parva, Adhyaya 31, Verse 26

बार्हस्पत्यः सुविहितो नायकेन विपश्चिता

नृत्यतीव महाव्यूहः परेषामादधद्भयम्

Mahabharata

Karna Parva, Adhyaya 31, Verse 27

तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः

पत्त्यश्वरथमातङ्गाः प्रावृषीव बलाहकाः

Mahabharata

Karna Parva, Adhyaya 31, Verse 28

ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः

धनंजयममित्रघ्नमेकवीरमुवाच ह

Mahabharata

Karna Parva, Adhyaya 31, Verse 29

पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे

युक्तं पक्षैः प्रपक्षैश्च सेनानीकं प्रकाशते

Mahabharata

Karna Parva, Adhyaya 31, Verse 30

तदेतद्वै समालोक्य प्रत्यमित्रं महद्बलम्

यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम्