Karna Parva, Adhyaya 29, Verse 1
मद्राधिपस्याधिरथिस्तदैवं; वचो निशम्याप्रियमप्रतीतः
उवाच शल्यं विदितं ममैत;द्यथाविधावर्जुनवासुदेवौ
Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.
मद्राधिपस्याधिरथिस्तदैवं; वचो निशम्याप्रियमप्रतीतः
उवाच शल्यं विदितं ममैत;द्यथाविधावर्जुनवासुदेवौ
शौरे रथं वाहयतोऽर्जुनस्य; बलं महास्त्राणि च पाण्डवस्य
अहं विजानामि यथावदद्य; परोक्षभूतं तव तत्तु शल्य
तौ चाप्रधृष्यौ शस्त्रभृतां वरिष्ठौ; व्यपेतभीर्योधयिष्यामि कृष्णौ
संतापयत्यभ्यधिकं तु रामा;च्छापोऽद्य मां ब्राह्मणसत्तमाच्च
अवात्सं वै ब्राह्मणच्छद्मनाहं; रामे पुरा दिव्यमस्त्रं चिकीर्षुः
तत्रापि मे देवराजेन विघ्नो; हितार्थिना फल्गुनस्यैव शल्य
कृतोऽवभेदेन ममोरुमेत्य; प्रविश्य कीटस्य तनुं विरूपाम्
गुरोर्भयाच्चापि न चेलिवानहं; तच्चावबुद्धो ददृशे स विप्रः
पृष्टश्चाहं तमवोचं महर्षिं; सूतोऽहमस्मीति स मां शशाप
सूतोपधावाप्तमिदं त्वयास्त्रं; न कर्मकाले प्रतिभास्यति त्वाम्
अन्यत्र यस्मात्तव मृत्युकाला;दब्राह्मणे ब्रह्म न हि ध्रुवं स्यात्
तदद्य पर्याप्तमतीव शस्त्र;मस्मिन्संग्रामे तुमुले तात भीमे
अपां पतिर्वेगवानप्रमेयो; निमज्जयिष्यन्निवहान्प्रजानाम्
महानगं यः कुरुते समुद्रं; वेलैव तं वारयत्यप्रमेयम्
प्रमुञ्चन्तं बाणसंघानमोघा;न्मर्मच्छिदो वीरहणः सपत्रान्
कुन्तीपुत्रं प्रतियोत्स्यामि युद्धे; ज्याकर्षिणामुत्तममद्य लोके
एवं बलेनातिबलं महास्त्रं; समुद्रकल्पं सुदुरापमुग्रम्
शरौघिणं पार्थिवान्मज्जयन्तं; वेलेव पार्थमिषुभिः संसहिष्ये
अद्याहवे यस्य न तुल्यमन्यं; मन्ये मनुष्यं धनुराददानम्
सुरासुरान्वै युधि यो जयेत; तेनाद्य मे पश्य युद्धं सुघोरम्
अतिमानी पाण्डवो युद्धकामो; अमानुषैरेष्यति मे महास्त्रैः
तस्यास्त्रमस्त्रैरभिहत्य संख्ये; शरोत्तमैः पातयिष्यामि पार्थम्
दिवाकरेणापि समं तपन्तं; समाप्तरश्मिं यशसा ज्वलन्तम्
तमोनुदं मेघ इवातिमात्रो; धनंजयं छादयिष्यामि बाणैः
वैश्वानरं धूमशिखं ज्वलन्तं; तेजस्विनं लोकमिमं दहन्तम्
मेघो भूत्वा शरवर्षैर्यथाग्निं; तथा पार्थं शमयिष्यामि युद्धे
प्रमाथिनं बलवन्तं प्रहारिणं; प्रभञ्जनं मातरिश्वानमुग्रम्
युद्धे सहिष्ये हिमवानिवाचलो; धनंजयं क्रुद्धममृष्यमाणम्
विशारदं रथमार्गेष्वसक्तं; धुर्यं नित्यं समरेषु प्रवीरम्
लोके वरं सर्वधनुर्धराणां; धनंजयं संयुगे संसहिष्ये
अद्याहवे यस्य न तुल्यमन्यं; मध्येमनुष्यं धनुराददानम्
सर्वामिमां यः पृथिवीं सहेत; तथा विद्वान्योत्स्यमानोऽस्मि तेन
यः सर्वभूतानि सदेवकानि; प्रस्थेऽजयत्खाण्डवे सव्यसाची
को जीवितं रक्षमाणो हि तेन; युयुत्सते मामृते मानुषोऽन्यः
अहं तस्य पौरुषं पाण्डवस्य; ब्रूयां हृष्टः समितौ क्षत्रियाणाम्
किं त्वं मूर्खः प्रभषन्मूढचेता; मामवोचः पौरुषमर्जुनस्य
अप्रियो यः परुषो निष्ठुरो हि; क्षुद्रः क्षेप्ता क्षमिणश्चाक्षमावान्
हन्यामहं तादृशानां शतानि; क्षमामि त्वां क्षमया कालयोगात्
अवोचस्त्वं पाण्डवार्थेऽप्रियाणि; प्रधर्षयन्मां मूढवत्पापकर्मन्
मय्यार्जवे जिह्मगतिर्हतस्त्वं; मित्रद्रोही सप्तपदं हि मित्रम्
कालस्त्वयं मृत्युमयोऽतिदारुणो; दुर्योधनो युद्धमुपागमद्यत्
तस्यार्थसिद्धिमभिकाङ्क्षमाण;स्तमभ्येष्ये यत्र नैकान्त्यमस्ति
मित्रं मिदेर्नन्दतेः प्रीयतेर्वा; संत्रायतेर्मानद मोदतेर्वा
ब्रवीति तच्चामुत विप्रपूर्वा;त्तच्चापि सर्वं मम दुर्योधनेऽस्ति
शत्रुः शदेः शासतेः शायतेर्वा; शृणातेर्वा श्वयतेर्वापि सर्गे
उपसर्गाद्बहुधा सूदतेश्च; प्रायेण सर्वं त्वयि तच्च मह्यम्
दुर्योधनार्थं तव चाप्रियार्थं; यशोर्थमात्मार्थमपीश्वरार्थम्
तस्मादहं पाण्डववासुदेवौ; योत्स्ये यत्नात्कर्म तत्पश्य मेऽद्य
अस्त्राणि पश्याद्य ममोत्तमानि; ब्राह्माणि दिव्यान्यथ मानुषाणि
आसादयिष्याम्यहमुग्रवीर्यं; द्विपोत्तमं मत्तमिवाभिमत्तः
अस्त्रं ब्राह्मं मनसा तद्ध्यजय्यं; क्षेप्स्ये पार्थायाप्रतिमं जयाय
तेनापि मे नैव मुच्येत युद्धे; न चेत्पतेद्विषमे मेऽद्य चक्रम्
वैवस्वताद्दण्डहस्ताद्वरुणाद्वापि पाशिनः
सगदाद्वा धनपतेः सवज्राद्वापि वासवात्
नान्यस्मादपि कस्माच्चिद्बिभिमो ह्याततायिनः
इति शल्य विजानीहि यथा नाहं बिभेम्यभीः
तस्माद्भयं न मे पार्थान्नापि चैव जनार्दनात्
अद्य युद्धं हि ताभ्यां मे संपराये भविष्यति