Mahabharata

Karna Parva, Adhyaya 28

Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 28, Verse 1

मारिषाधिरथेः श्रुत्वा वचो युद्धाभिनन्दिनः

शल्योऽब्रवीत्पुनः कर्णं निदर्शनमुदाहरन्

Mahabharata

Karna Parva, Adhyaya 28, Verse 2

यथैव मत्तो मद्येन त्वं तथा न च वा तथा

तथाहं त्वां प्रमाद्यन्तं चिकित्सामि सुहृत्तया

Mahabharata

Karna Parva, Adhyaya 28, Verse 3

इमां काकोपमां कर्ण प्रोच्यमानां निबोध मे

श्रुत्वा यथेष्टं कुर्यास्त्वं विहीन कुलपांसन

Mahabharata

Karna Parva, Adhyaya 28, Verse 4

नाहमात्मनि किंचिद्वै किल्बिषं कर्ण संस्मरे

येन त्वं मां महाबाहो हन्तुमिच्छस्यनागसम्

Mahabharata

Karna Parva, Adhyaya 28, Verse 5

अवश्यं तु मया वाच्यं बुध्यतां यदि ते हितम्

विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा

Mahabharata

Karna Parva, Adhyaya 28, Verse 6

समं च विषमं चैव रथिनश्च बलाबलम्

श्रमः खेदश्च सततं हयानां रथिना सह

Mahabharata

Karna Parva, Adhyaya 28, Verse 7

आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम्

भारश्चाप्यतिभारश्च शल्यानां च प्रतिक्रिया

Mahabharata

Karna Parva, Adhyaya 28, Verse 8

अस्त्रयोगश्च युद्धं च निमित्तानि तथैव च

सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना

अतस्त्वां कथये कर्ण निदर्शनमिदं पुनः

Mahabharata

Karna Parva, Adhyaya 28, Verse 9

वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान्

यज्वा दानपतिः क्षान्तः स्वकर्मस्थोऽभवच्छुचिः

Mahabharata

Karna Parva, Adhyaya 28, Verse 10

बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः

राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः

Mahabharata

Karna Parva, Adhyaya 28, Verse 11

पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम्

काको बहूनामभवदुच्छिष्टकृतभोजनः

Mahabharata

Karna Parva, Adhyaya 28, Verse 12

तस्मै सदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः

मांसोदनं दधि क्षीरं पायसं मधुसर्पिषी

Mahabharata

Karna Parva, Adhyaya 28, Verse 13

स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः

सदृशान्पक्षिणो दृप्तः श्रेयसश्चावमन्यते

Mahabharata

Karna Parva, Adhyaya 28, Verse 14

अथ हंसाः समुद्रान्ते कदाचिदभिपातिनः

गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः

Mahabharata

Karna Parva, Adhyaya 28, Verse 15

कुमारकास्ततो हंसान्दृष्ट्वा काकमथाब्रुवन्

भवानेव विशिष्टो हि पतत्रिभ्यो विहंगम

Mahabharata

Karna Parva, Adhyaya 28, Verse 16

प्रतार्यमाणस्तु स तैरल्पबुद्धिभिरण्डजः

तद्वचः सत्यमित्येव मौर्ख्याद्दर्पाच्च मन्यते

Mahabharata

Karna Parva, Adhyaya 28, Verse 17

तान्सोऽभिपत्य जिज्ञासुः क एषां श्रेष्ठभागिति

उच्छिष्टदर्पितः काको बहूनां दूरपातिनाम्

Mahabharata

Karna Parva, Adhyaya 28, Verse 18

तेषां यं प्रवरं मेने हंसानां दूरपातिनाम्

तमाह्वयत दुर्बुद्धिः पताम इति पक्षिणम्

Mahabharata

Karna Parva, Adhyaya 28, Verse 19

तच्छ्रुत्वा प्राहसन्हंसा ये तत्रासन्समागताः

भाषतो बहु काकस्य बलिनः पततां वराः

इदमूचुश्च चक्राङ्गा वचः काकं विहंगमाः

Mahabharata

Karna Parva, Adhyaya 28, Verse 20

वयं हंसाश्चरामेमां पृथिवीं मानसौकसः

पक्षिणां च वयं नित्यं दूरपातेन पूजिताः

Mahabharata

Karna Parva, Adhyaya 28, Verse 21

कथं नु हंसं बलिनं वज्राङ्गं दूरपातिनम्

काको भूत्वा निपतने समाह्वयसि दुर्मते

कथं त्वं पतनं काक सहास्माभिर्ब्रवीषि तत्

Mahabharata

Karna Parva, Adhyaya 28, Verse 22

अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः

प्रजगादोत्तरं काकः कत्थनो जातिलाघवात्

Mahabharata

Karna Parva, Adhyaya 28, Verse 23

शतमेकं च पातानां पतितास्मि न संशयः

शतयोजनमेकैकं विचित्रं विविधं तथा

Mahabharata

Karna Parva, Adhyaya 28, Verse 24

उड्डीनमवडीनं च प्रडीनं डीनमेव च

निडीनमथ संडीनं तिर्यक्चातिगतानि च

Mahabharata

Karna Parva, Adhyaya 28, Verse 25

विडीनं परिडीनं च पराडीनं सुडीनकम्

अतिडीनं महाडीनं निडीनं परिडीनकम्

Mahabharata

Karna Parva, Adhyaya 28, Verse 26

गतागतप्रतिगता बह्वीश्च निकुडीनिकाः

कर्तास्मि मिषतां वोऽद्य ततो द्रक्ष्यथ मे बलम्

Mahabharata

Karna Parva, Adhyaya 28, Verse 27

एवमुक्ते तु काकेन प्रहस्यैको विहंगमः

उवाच हंसस्तं काकं वचनं तन्निबोध मे

Mahabharata

Karna Parva, Adhyaya 28, Verse 28

शतमेकं च पातानां त्वं काक पतिता ध्रुवम्

एकमेव तु ये पातं विदुः सर्वे विहंगमाः

Mahabharata

Karna Parva, Adhyaya 28, Verse 29

तमहं पतिता काक नान्यं जानामि कंचन

पत त्वमपि रक्ताक्ष येन वा तेन मन्यसे

Mahabharata

Karna Parva, Adhyaya 28, Verse 30

अथ काकाः प्रजहसुर्ये तत्रासन्समागताः

कथमेकेन पातेन हंसः पातशतं जयेत्