Mahabharata

Karna Parva, Adhyaya 27

Containing 105 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 27, Verse 1

प्रयानेव तदा कर्णो हर्षयन्वाहिनीं तव

एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत

Mahabharata

Karna Parva, Adhyaya 27, Verse 2

यो ममाद्य महात्मानं दर्शयेच्छ्वेतवाहनम्

तस्मै दद्यामभिप्रेतं वरं यं मनसेच्छति

Mahabharata

Karna Parva, Adhyaya 27, Verse 3

स चेत्तदभिमन्येत तस्मै दद्यामहं पुनः

शकटं रत्नसंपूर्णं यो मे ब्रूयाद्धनंजयम्

Mahabharata

Karna Parva, Adhyaya 27, Verse 4

स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्

अन्यं तस्मै पुनर्दद्यां सौवर्णं हस्तिषड्गवम्

Mahabharata

Karna Parva, Adhyaya 27, Verse 5

तथा तस्मै पुनर्दद्यां स्त्रीणां शतमलंकृतम्

श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम्

Mahabharata

Karna Parva, Adhyaya 27, Verse 6

स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्

अन्यं तस्मै वरं दद्यां श्वेतान्पञ्चशतान्हयान्

Mahabharata

Karna Parva, Adhyaya 27, Verse 7

हेमभाण्डपरिच्छन्नान्सुमृष्टमणिकुण्डलान्

सुदान्तानपि चैवाहं दद्यामष्टशतान्परान्

Mahabharata

Karna Parva, Adhyaya 27, Verse 8

रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलंकृतम्

युक्तं परमकाम्बोजैर्यो मे ब्रूयाद्धनंजयम्

Mahabharata

Karna Parva, Adhyaya 27, Verse 9

अन्यं तस्मै वरं दद्यां कुञ्जराणां शतानि षट्

काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः

उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः

Mahabharata

Karna Parva, Adhyaya 27, Verse 10

स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान्

अन्यं तस्मै वरं दद्यां यमसौ कामयेत्स्वयम्

Mahabharata

Karna Parva, Adhyaya 27, Verse 11

पुत्रदारान्विहारांश्च यदन्यद्वित्तमस्ति मे

तच्च तस्मै पुनर्दद्यां यद्यत्स मनसेच्छति

Mahabharata

Karna Parva, Adhyaya 27, Verse 12

हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः

तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ

Mahabharata

Karna Parva, Adhyaya 27, Verse 13

एता वाचः सुबहुशः कर्ण उच्चारयन्युधि

दध्मौ सागरसंभूतं सुस्वनं शङ्खमुत्तमम्

Mahabharata

Karna Parva, Adhyaya 27, Verse 14

ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु

दुर्योधनो महाराज प्रहृष्टः सानुगोऽभवत्

Mahabharata

Karna Parva, Adhyaya 27, Verse 15

ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशः

सिंहनादः सवादित्रः कुञ्जराणां च निस्वनः

Mahabharata

Karna Parva, Adhyaya 27, Verse 16

प्रादुरासीत्तदा राजंस्त्वत्सैन्ये भरतर्षभ

योधानां संप्रहृष्टानां तथा समभवत्स्वनः

Mahabharata

Karna Parva, Adhyaya 27, Verse 17

तथा प्रहृष्टे सैन्ये तु प्लवमानं महारथम्

विकत्थमानं समरे राधेयमरिकर्शनम्

मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत

Mahabharata

Karna Parva, Adhyaya 27, Verse 18

मा सूतपुत्र मानेन सौवर्णं हस्तिषड्गवम्

प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनंजयम्

Mahabharata

Karna Parva, Adhyaya 27, Verse 19

बाल्यादिव त्वं त्यजसि वसु वैश्रवणो यथा

अयत्नेनैव राधेय द्रष्टास्यद्य धनंजयम्

Mahabharata

Karna Parva, Adhyaya 27, Verse 20

परासृजसि मिथ्या किं किं च त्वं बहु मूढवत्

अपात्रदाने ये दोषास्तान्मोहान्नावबुध्यसे

Mahabharata

Karna Parva, Adhyaya 27, Verse 21

यत्प्रवेदयसे वित्तं बहुत्वेन खलु त्वया

शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः

Mahabharata

Karna Parva, Adhyaya 27, Verse 22

यच्च प्रार्थयसे हन्तुं कृष्णौ मोहान्मृषैव तत्

न हि शुश्रुम संमर्दे क्रोष्ट्रा सिंहौ निपातितौ

Mahabharata

Karna Parva, Adhyaya 27, Verse 23

अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते

ये त्वां न वारयन्त्याशु प्रपतन्तं हुताशने

Mahabharata

Karna Parva, Adhyaya 27, Verse 24

कालकार्यं न जानीषे कालपक्वोऽस्यसंशयम्

बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः

Mahabharata

Karna Parva, Adhyaya 27, Verse 25

समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम्

गिर्यग्राद्वा निपतनं तादृक्तव चिकीर्षितम्

Mahabharata

Karna Parva, Adhyaya 27, Verse 26

सहितः सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः

धनंजयेन युध्यस्व श्रेयश्चेत्प्राप्तुमिच्छसि

Mahabharata

Karna Parva, Adhyaya 27, Verse 27

हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वा न हिंसया

श्रद्धत्स्वैतन्मया प्रोक्तं यदि तेऽस्ति जिजीविषा

Mahabharata

Karna Parva, Adhyaya 27, Verse 28

स्ववीर्येऽहं पराश्वस्य प्रार्थयाम्यर्जुनं रणे

त्वं तु मित्रमुखः शत्रुर्मां भीषयितुमिच्छसि

Mahabharata

Karna Parva, Adhyaya 27, Verse 29

न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत्

अपीन्द्रो वज्रमुद्यम्य किं नु मर्त्यः करिष्यति

Mahabharata

Karna Parva, Adhyaya 27, Verse 30

इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः

चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः