Karna Parva, Adhyaya 26, Verse 1
अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति
कृष्णादभ्यधिको यन्ता देवेन्द्रस्येव मातलिः
Containing 74 sacred Sanskrit shlokas with multi-author commentaries and translations.
अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति
कृष्णादभ्यधिको यन्ता देवेन्द्रस्येव मातलिः
यथा हरिहयैर्युक्तं संगृह्णाति स मातलिः
शल्यस्तव तथाद्यायं संयन्ता रथवाजिनाम्
योधे त्वयि रथस्थे च मद्रराजे च सारथौ
रथश्रेष्ठो ध्रुवं संख्ये पार्थो नाभिभविष्यति
ततो दुर्योधनो भूयो मद्रराजं तरस्विनम्
उवाच राजन्संग्रामे संयच्छन्तं हयोत्तमान्
त्वयाभिगुप्तो राधेयो विजेष्यति धनंजयम्
इत्युक्तो रथमास्थाय तथेति प्राह भारत
शल्येऽभ्युपगते कर्णः सारथिं सुमनोऽब्रवीत्
स्वं सूत स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन्
ततो जैत्रं रथवरं गन्धर्वनगरोपमम्
विधिवत्कल्पितं भर्त्रे जयेत्युक्त्वा न्यवेदयत्
तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि
संपादितं ब्रह्मविदा पूर्वमेव पुरोधसा
कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम्
समीपस्थं मद्रराजं समारोपयदग्रतः
ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत्
आरुरोह महातेजाः शल्यः सिंह इवाचलम्
ततः शल्यास्थितं राजन्कर्णः स्वरथमुत्तमम्
अध्यतिष्ठद्यथाम्भोदं विद्युत्वन्तं दिवाकरः
तावेकरथमारूढावादित्याग्निसमत्विषौ
व्यभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि
संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तरौ
ऋत्विक्सदस्यैरिन्द्राग्नी हूयमानाविवाध्वरे
स शल्यसंगृहीताश्वे रथे कर्णः स्थितोऽभवत्
धनुर्विस्फारयन्घोरं परिवेषीव भास्करः
आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान्
प्रबभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान्
तं रथस्थं महावीरं यान्तं चामिततेजसम्
दुर्योधनः स्म राधेयमिदं वचनमब्रवीत्
अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे
कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम्
मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ
अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम्
ताभ्यां यदकृतं वीर वीरकर्म महामृधे
तत्कर्म कुरु राधेय वज्रपाणिरिवापरः
गृहाण धर्मराजं वा जहि वा त्वं धनंजयम्
भीमसेनं च राधेय माद्रीपुत्रौ यमावपि
जयश्च तेऽस्तु भद्रं च प्रयाहि पुरुषर्षभ
पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात्
ततस्तूर्यसहस्राणि भेरीणामयुतानि च
वाद्यमानान्यरोचन्त मेघशब्दा यथा दिवि
प्रतिगृह्य तु तद्वाक्यं रथस्थो रथसत्तमः
अभ्यभाषत राधेयः शल्यं युद्धविशारदम्
चोदयाश्वान्महाबाहो यावद्धन्मि धनंजयम्
भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम्
अद्य पश्यतु मे शल्य बाहुवीर्यं धनंजयः
अस्यतः कङ्कपत्राणां सहस्राणि शतानि च
अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान्
पाण्डवानां विनाशाय दुर्योधनजयाय च
सूतपुत्र कथं नु त्वं पाण्डवानवमन्यसे
सर्वास्त्रज्ञान्महेष्वासान्सर्वानेव महारथान्
अनिवर्तिनो महाभागानजेयान्सत्यविक्रमान्
अपि संजनयेयुर्ये भयं साक्षाच्छतक्रतोः
यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः
राधेय गाण्डिवस्याजौ तदा नैवं वदिष्यसि
अनादृत्य तु तद्वाक्यं मद्रराजेन भाषितम्
द्रक्ष्यस्यद्येत्यवोचद्वै शल्यं कर्णो नरेश्वर