Mahabharata

Karna Parva, Adhyaya 25

Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 25, Verse 1

एवं स भगवान्देवः सर्वलोकपितामहः

सारथ्यमकरोत्तत्र यत्र रुद्रोऽभवद्रथी

Mahabharata

Karna Parva, Adhyaya 25, Verse 2

रथिनाभ्यधिको वीरः कर्तव्यो रथसारथिः

तस्मात्त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि

Mahabharata

Karna Parva, Adhyaya 25, Verse 3

ततः शल्यः परिष्वज्य सुतं ते वाक्यमब्रवीत्

दुर्योधनममित्रघ्नः प्रीतो मद्राधिपस्तदा

Mahabharata

Karna Parva, Adhyaya 25, Verse 4

एवं चेन्मन्यसे राजन्गान्धारे प्रियदर्शन

तस्मात्ते यत्प्रियं किंचित्तत्सर्वं करवाण्यहम्

Mahabharata

Karna Parva, Adhyaya 25, Verse 5

यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित्

तत्र सर्वात्मना युक्तो वक्ष्ये कार्यधुरं तव

Mahabharata

Karna Parva, Adhyaya 25, Verse 6

यत्तु कर्णमहं ब्रूयां हितकामः प्रियाप्रियम्

मम तत्क्षमतां सर्वं भवान्कर्णश्च सर्वशः

Mahabharata

Karna Parva, Adhyaya 25, Verse 7

ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः

तथा नित्यं हिते युक्तो मद्रराज भजस्व नः

Mahabharata

Karna Parva, Adhyaya 25, Verse 8

आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः

अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम्

Mahabharata

Karna Parva, Adhyaya 25, Verse 9

यत्तु विद्वन्प्रवक्ष्यामि प्रत्ययार्थमहं तव

आत्मनः स्तवसंयुक्तं तन्निबोध यथातथम्

Mahabharata

Karna Parva, Adhyaya 25, Verse 10

अहं शक्रस्य सारथ्ये योग्यो मातलिवत्प्रभो

अप्रमादप्रयोगाच्च ज्ञानविद्याचिकित्सितैः

Mahabharata

Karna Parva, Adhyaya 25, Verse 11

ततः पार्थेन संग्रामे युध्यमानस्य तेऽनघ

वाहयिष्यामि तुरगान्विज्वरो भव सूतज