Mahabharata

Karna Parva, Adhyaya 24

Containing 161 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 24, Verse 1

भूय एव तु मद्रेश यत्ते वक्ष्यामि तच्छृणु

यथा पुरा वृत्तमिदं युद्धे देवासुरे विभो

Mahabharata

Karna Parva, Adhyaya 24, Verse 2

यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महानृषिः

तदशेषेण ब्रुवतो मम राजर्षिसत्तम

त्वं निबोध न चाप्यत्र कर्तव्या ते विचारणा

Mahabharata

Karna Parva, Adhyaya 24, Verse 3

देवानामसुराणां च महानासीत्समागमः

बभूव प्रथमो राजन्संग्रामस्तारकामयः

निर्जिताश्च तदा दैत्या दैवतैरिति नः श्रुतम्

Mahabharata

Karna Parva, Adhyaya 24, Verse 4

निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः

ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव

Mahabharata

Karna Parva, Adhyaya 24, Verse 5

तप उग्रं समास्थाय नियमे परमे स्थिताः

तपसा कर्शयामासुर्देहान्स्वाञ्शत्रुतापन

Mahabharata

Karna Parva, Adhyaya 24, Verse 6

दमेन तपसा चैव नियमेन च पार्थिव

तेषां पितामहः प्रीतो वरदः प्रददौ वरान्

Mahabharata

Karna Parva, Adhyaya 24, Verse 7

अवध्यत्वं च ते राजन्सर्वभूतेषु सर्वदा

सहिता वरयामासुः सर्वलोकपितामहम्

Mahabharata

Karna Parva, Adhyaya 24, Verse 8

तानब्रवीत्तदा देवो लोकानां प्रभुरीश्वरः

नास्ति सर्वामरत्वं हि निवर्तध्वमतोऽसुराः

वरमन्यं वृणीध्वं वै यादृशं संप्ररोचते

Mahabharata

Karna Parva, Adhyaya 24, Verse 9

ततस्ते सहिता राजन्संप्रधार्यासकृद्बहु

सर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाब्रुवन्

Mahabharata

Karna Parva, Adhyaya 24, Verse 10

अस्माकं त्वं वरं देव प्रयच्छेमं पितामह

वयं पुराणि त्रीण्येव समास्थाय महीमिमाम्

विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः

Mahabharata

Karna Parva, Adhyaya 24, Verse 11

ततो वर्षसहस्रे तु समेष्यामः परस्परम्

एकीभावं गमिष्यन्ति पुराण्येतानि चानघ

Mahabharata

Karna Parva, Adhyaya 24, Verse 12

समागतानि चैतानि यो हन्याद्भगवंस्तदा

एकेषुणा देववरः स नो मृत्युर्भविष्यति

एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम्

Mahabharata

Karna Parva, Adhyaya 24, Verse 13

ते तु लब्धवराः प्रीताः संप्रधार्य परस्परम्

पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महासुरम्

विश्वकर्माणमजरं दैत्यदानवपूजितम्

Mahabharata

Karna Parva, Adhyaya 24, Verse 14

ततो मयः स्वतपसा चक्रे धीमान्पुराणि ह

त्रीणि काञ्चनमेकं तु रौप्यं कार्ष्णायसं तथा

Mahabharata

Karna Parva, Adhyaya 24, Verse 15

काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम्

आयसं चाभवद्भूमौ चक्रस्थं पृथिवीपते

Mahabharata

Karna Parva, Adhyaya 24, Verse 16

एकैकं योजनशतं विस्तारायामसंमितम्

गृहाट्टाट्टालकयुतं बृहत्प्राकारतोरणम्

Mahabharata

Karna Parva, Adhyaya 24, Verse 17

गुणप्रसवसंबाधमसंबाधमनामयम्

प्रासादैर्विविधैश्चैव द्वारैश्चाप्युपशोभितम्

Mahabharata

Karna Parva, Adhyaya 24, Verse 18

पुरेषु चाभवन्राजन्राजानो वै पृथक्पृथक्

काञ्चनं तारकाक्षस्य चित्रमासीन्महात्मनः

राजतं कमलाक्षस्य विद्युन्मालिन आयसम्

Mahabharata

Karna Parva, Adhyaya 24, Verse 19

त्रयस्ते दैत्यराजानस्त्रीँल्लोकानाशु तेजसा

आक्रम्य तस्थुर्वर्षाणां पूगान्नाम प्रजापतिः

Mahabharata

Karna Parva, Adhyaya 24, Verse 20

तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च

कोट्यश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः

महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः

Mahabharata

Karna Parva, Adhyaya 24, Verse 21

सर्वेषां च पुनस्तेषां सर्वयोगवहो मयः

तमाश्रित्य हि ते सर्वे अवर्तन्ताकुतोभयाः

Mahabharata

Karna Parva, Adhyaya 24, Verse 22

यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयः

तस्मै कामं मयस्तं तं विदधे मायया तदा

Mahabharata

Karna Parva, Adhyaya 24, Verse 23

तारकाक्षसुतश्चासीद्धरिर्नाम महाबलः

तपस्तेपे परमकं येनातुष्यत्पितामहः

Mahabharata

Karna Parva, Adhyaya 24, Verse 24

स तुष्टमवृणोद्देवं वापी भवतु नः पुरे

शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः

Mahabharata

Karna Parva, Adhyaya 24, Verse 25

स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः

ससृजे तत्र वापीं तां मृतानां जीवनीं प्रभो

Mahabharata

Karna Parva, Adhyaya 24, Verse 26

येन रूपेण दैत्यस्तु येन वेषेण चैव ह

मृतस्तस्यां परिक्षिप्तस्तादृशेनैव जज्ञिवान्

Mahabharata

Karna Parva, Adhyaya 24, Verse 27

तां प्राप्य त्रैपुरस्थास्तु सर्वाँल्लोकान्बबाधिरे

महता तपसा सिद्धाः सुराणां भयवर्धनाः

न तेषामभवद्राजन्क्षयो युद्धे कथंचन

Mahabharata

Karna Parva, Adhyaya 24, Verse 28

ततस्ते लोभमोहाभ्यामभिभूता विचेतसः

निर्ह्रीकाः संस्थितिं सर्वे स्थापितां समलूलुपन्

Mahabharata

Karna Parva, Adhyaya 24, Verse 29

विद्राव्य सगणान्देवांस्तत्र तत्र तदा तदा

विचेरुः स्वेन कामेन वरदानेन दर्पिताः

Mahabharata

Karna Parva, Adhyaya 24, Verse 30

देवारण्यानि सर्वाणि प्रियाणि च दिवौकसाम्

ऋषीणामाश्रमान्पुण्यान्यूपाञ्जनपदांस्तथा

व्यनाशयन्त मर्यादा दानवा दुष्टचारिणः