Mahabharata

Karna Parva, Adhyaya 23

Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 23, Verse 1

पुत्रस्तव महाराज मद्रराजमिदं वचः

विनयेनोपसंगम्य प्रणयाद्वाक्यमब्रवीत्

Mahabharata

Karna Parva, Adhyaya 23, Verse 2

सत्यव्रत महाभाग द्विषतामघवर्धन

मद्रेश्वर रणे शूर परसैन्यभयंकर

Mahabharata

Karna Parva, Adhyaya 23, Verse 3

श्रुतवानसि कर्णस्य ब्रुवतो वदतां वर

यथा नृपतिसिंहानां मध्ये त्वां वरयत्ययम्

Mahabharata

Karna Parva, Adhyaya 23, Verse 4

तस्मात्पार्थविनाशार्थं हितार्थं मम चैव हि

सारथ्यं रथिनां श्रेष्ठ सुमनाः कर्तुमर्हसि

Mahabharata

Karna Parva, Adhyaya 23, Verse 5

अस्याभीशुग्रहो लोके नान्योऽस्ति भवता समः

स पातु सर्वतः कर्णं भवान्ब्रह्मेव शंकरम्

Mahabharata

Karna Parva, Adhyaya 23, Verse 6

पार्थस्य सचिवः कृष्णो यथाभीशुग्रहो वरः

तथा त्वमपि राधेयं सर्वतः परिपालय

Mahabharata

Karna Parva, Adhyaya 23, Verse 7

भीष्मो द्रोणः कृपः कर्णो भवान्भोजश्च वीर्यवान्

शकुनिः सौबलो द्रौणिरहमेव च नो बलम्

एषामेव कृतो भागो नवधा पृतनापते

Mahabharata

Karna Parva, Adhyaya 23, Verse 8

नैव भागोऽत्र भीष्मस्य द्रोणस्य च महात्मनः

ताभ्यामतीत्य तौ भागौ निहता मम शत्रवः

Mahabharata

Karna Parva, Adhyaya 23, Verse 9

वृद्धौ हि तौ नरव्याघ्रौ छलेन निहतौ च तौ

कृत्वा नसुकरं कर्म गतौ स्वर्गमितोऽनघ

Mahabharata

Karna Parva, Adhyaya 23, Verse 10

तथान्ये पुरुषव्याघ्राः परैर्विनिहता युधि

अस्मदीयाश्च बहवः स्वर्गायोपगता रणे

त्यक्त्वा प्राणान्यथाशक्ति चेष्टाः कृत्वा च पुष्कलाः

Mahabharata

Karna Parva, Adhyaya 23, Verse 11

कर्णो ह्येको महाबाहुरस्मत्प्रियहिते रतः

भवांश्च पुरुषव्याघ्र सर्वलोकमहारथः

तस्मिञ्जयाशा विपुला मम मद्रजनाधिप

Mahabharata

Karna Parva, Adhyaya 23, Verse 12

पार्थस्य समरे कृष्णो यथाभीशुवरग्रहः

तेन युक्तो रणे पार्थो रक्ष्यमाणश्च पार्थिव

यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव ते

Mahabharata

Karna Parva, Adhyaya 23, Verse 13

पूर्वं न समरे ह्येवमवधीदर्जुनो रिपून्

अहन्यहनि मद्रेश द्रावयन्दृश्यते युधि

Mahabharata

Karna Parva, Adhyaya 23, Verse 14

भागोऽवशिष्टः कर्णस्य तव चैव महाद्युते

तं भागं सह कर्णेन युगपन्नाशयाहवे

Mahabharata

Karna Parva, Adhyaya 23, Verse 15

सूर्यारुणौ यथा दृष्ट्वा तमो नश्यति मारिष

तथा नश्यन्तु कौन्तेयाः सपाञ्चालाः ससृञ्जयाः

Mahabharata

Karna Parva, Adhyaya 23, Verse 16

रथानां प्रवरः कर्णो यन्तॄणां प्रवरो भवान्

संनिपातः समो लोके भवतोर्नास्ति कश्चन

Mahabharata

Karna Parva, Adhyaya 23, Verse 17

यथा सर्वास्ववस्थासु वार्ष्णेयः पाति पाण्डवम्

तथा भवान्परित्रातु कर्णं वैकर्तनं रणे

Mahabharata

Karna Parva, Adhyaya 23, Verse 18

त्वया सारथिना ह्येष अप्रधृष्यो भविष्यति

देवतानामपि रणे सशक्राणां महीपते

किं पुनः पाण्डवेयानां मातिशङ्कीर्वचो मम

Mahabharata

Karna Parva, Adhyaya 23, Verse 19

दुर्योधनवचः श्रुत्वा शल्यः क्रोधसमन्वितः

त्रिशिखां भ्रुकुटीं कृत्वा धुन्वन्हस्तौ पुनः पुनः

Mahabharata

Karna Parva, Adhyaya 23, Verse 20

क्रोधरक्ते महानेत्रे परिवर्त्य महाभुजः

कुलैश्वर्यश्रुतिबलैर्दृप्तः शल्योऽब्रवीदिदम्

Mahabharata

Karna Parva, Adhyaya 23, Verse 21

अवमन्यसे मां गान्धारे ध्रुवं मां परिशङ्कसे

यन्मां ब्रवीषि विस्रब्धं सारथ्यं क्रियतामिति

Mahabharata

Karna Parva, Adhyaya 23, Verse 22

अस्मत्तोऽभ्यधिकं कर्णं मन्यमानः प्रशंससि

न चाहं युधि राधेयं गणये तुल्यमात्मना

Mahabharata

Karna Parva, Adhyaya 23, Verse 23

आदिश्यतामभ्यधिको ममांशः पृथिवीपते

तमहं समरे हत्वा गमिष्यामि यथागतम्

Mahabharata

Karna Parva, Adhyaya 23, Verse 24

अथ वाप्येक एवाहं योत्स्यामि कुरुनन्दन

पश्य वीर्यं ममाद्य त्वं संग्रामे दहतो रिपून्

Mahabharata

Karna Parva, Adhyaya 23, Verse 25

न चाभिकामान्कौरव्य विधाय हृदये पुमान्

अस्मद्विधः प्रवर्तेत मा मा त्वमतिशङ्किथाः

Mahabharata

Karna Parva, Adhyaya 23, Verse 26

युधि चाप्यवमानो मे न कर्तव्यः कथंचन

पश्य हीमौ मम भुजौ वज्रसंहननोपमौ

Mahabharata

Karna Parva, Adhyaya 23, Verse 27

धनुः पश्य च मे चित्रं शरांश्चाशीविषोपमान्

रथं पश्य च मे कॢप्तं सदश्वैर्वातवेगितैः

गदां च पश्य गान्धारे हेमपट्टविभूषिताम्

Mahabharata

Karna Parva, Adhyaya 23, Verse 28

दारयेयं महीं क्रुद्धो विकिरेयं च पर्वतान्

शोषयेयं समुद्रांश्च तेजसा स्वेन पार्थिव

Mahabharata

Karna Parva, Adhyaya 23, Verse 29

तन्मामेवंविधं जानन्समर्थमरिनिग्रहे

कस्माद्युनक्षि सारथ्ये न्यूनस्याधिरथेर्नृप

Mahabharata

Karna Parva, Adhyaya 23, Verse 30

न नाम धुरि राजेन्द्र प्रयोक्तुं त्वमिहार्हसि

न हि पापीयसः श्रेयान्भूत्वा प्रेष्यत्वमुत्सहे