Karna Parva, Adhyaya 22, Verse 1
स्वेन च्छन्देन नः सर्वान्नावधीद्व्यक्तमर्जुनः
न ह्यस्य समरे मुच्येतान्तकोऽप्याततायिनः
Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.
स्वेन च्छन्देन नः सर्वान्नावधीद्व्यक्तमर्जुनः
न ह्यस्य समरे मुच्येतान्तकोऽप्याततायिनः
पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पयत्
एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान्
एको निवातकवचानवधीद्दिव्यकार्मुकः
एकः किरातरूपेण स्थितं शर्वमयोधयत्
एकोऽभ्यरक्षद्भरतानेको भवमतोषयत्
तेनैकेन जिताः सर्वे मदीया उग्रतेजसः
ते न निन्द्याः प्रशस्याश्च यत्ते चक्रुर्ब्रवीहि तत्
हतप्रहतविध्वस्ता विवर्मायुधवाहनाः
दीनस्वरा दूयमाना मानिनः शत्रुभिर्जिताः
शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः
भग्नदंष्ट्रा हतविषाः पदाक्रान्ता इवोरगाः
तानब्रवीत्ततः कर्णः क्रुद्धः सर्प इव श्वसन्
करं करेणाभिपीड्य प्रेक्षमाणस्तवात्मजम्
यत्तो दृढश्च दक्षश्च धृतिमानर्जुनः सदा
स बोधयति चाप्येनं प्राप्तकालमधोक्षजः
सहसास्त्रविसर्गेण वयं तेनाद्य वञ्चिताः
श्वस्त्वहं तस्य संकल्पं सर्वं हन्ता महीपते
एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान्
सुखोषितास्ते रजनीं हृष्टा युद्धाय निर्ययुः
तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम्
प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोमतात्
अथ प्रतीपकर्तारं सततं विजितात्मनाम्
सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा
पुरंदरसमं युद्धे मरुद्गणसमं बले
कार्तवीर्यसमं वीर्ये कर्णं राज्ञोऽगमन्मनः
सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव
यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं तदा
अप्यद्राक्षत तं यूयं शीतार्ता इव भास्करम्
कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः
कथं वैकर्तनः कर्णस्तत्रायुध्यत संजय
कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम्
कर्णो ह्येको महाबाहुर्हन्यात्पार्थान्ससोमकान्
कर्णस्य भुजयोर्वीर्यं शक्रविष्णुसमं मतम्
तथास्त्राणि सुघोराणि विक्रमश्च महात्मनः
दुर्योधनं तदा दृष्ट्वा पाण्डवेन भृशार्दितम्
पराक्रान्तान्पाण्डुसुतान्दृष्ट्वा चापि महाहवे
कर्णमाश्रित्य संग्रामे दर्पो दुर्योधने पुनः
जेतुमुत्सहते पार्थान्सपुत्रान्सहकेशवान्
अहो बत महद्दुःखं यत्र पाण्डुसुतान्रणे
नातरद्रभसः कर्णो दैवं नूनं परायणम्
अहो द्यूतस्य निष्ठेयं घोरा संप्रति वर्तते
अहो दुःखानि तीव्राणि दुर्योधनकृतान्यहम्
सहिष्यामि सुघोराणि शल्यभूतानि संजय
सौबलं च तथा तात नीतिमानिति मन्यते
युद्धेषु नाम दिव्येषु वर्तमानेषु संजय
अश्रौषं निहतान्पुत्रान्नित्यमेव च निर्जितान्
न पाण्डवानां समरे कश्चिदस्ति निवारकः
स्त्रीमध्यमिव गाहन्ति दैवं हि बलवत्तरम्
अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तयतीति च
तच्चास्य न भवेत्कार्यं चिन्तया च विनश्यति
तदिदं तव कार्यं तु दूरप्राप्तं विजानता
न कृतं यत्त्वया पूर्वं प्राप्ताप्राप्तविचारणे
उक्तोऽसि बहुधा राजन्मा युध्यस्वेति पाण्डवैः
गृह्णीषे न च तन्मोहात्पाण्डवेषु विशां पते
त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु
त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षयः
तत्त्विदानीमतिक्रम्य मा शुचो भरतर्षभ
शृणु सर्वं यथावृत्तं घोरं वैशसमच्युत
प्रभातायां रजन्यां तु कर्णो राजानमभ्ययात्
समेत्य च महाबाहुर्दुर्योधनमभाषत
अद्य राजन्समेष्यामि पाण्डवेन यशस्विना
हनिष्यामि च तं वीरं स वा मां निहनिष्यति