Karna Parva, Adhyaya 20, Verse 1
अतितीव्राणि दुःखानि दुःसहानि बहूनि च
तवाहं संजयाश्रौषं पुत्राणां मम संक्षयम्
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
अतितीव्राणि दुःखानि दुःसहानि बहूनि च
तवाहं संजयाश्रौषं पुत्राणां मम संक्षयम्
तथा तु मे कथयसे यथा युद्धं तु वर्तते
न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः
दुर्योधनस्तु विरथः कृतस्तत्र महारणे
धर्मपुत्रः कथं चक्रे तस्मिन्वा नृपतिः कथम्
अपराह्णे कथं युद्धमभवल्लोमहर्षणम्
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय
संसक्तेषु च सैन्येषु युध्यमानेषु भागशः
रथमन्यं समास्थाय पुत्रस्तव विशां पते
क्रोधेन महताविष्टः सविषो भुजगो यथा
दुर्योधनस्तु दृष्ट्वा वै धर्मराजं युधिष्ठिरम्
उवाच सूत त्वरितं याहि याहीति भारत
अत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः
ध्रियमाणेन छत्रेण राजा राजति दंशितः
स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम्
युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे
ततो युधिष्ठिरः क्रुद्धः प्रमत्त इव सद्गवः
सारथिं चोदयामास याहि यत्र सुयोधनः
तौ समाजग्मतुर्वीरौ भ्रातरौ रथसत्तमौ
समेत्य च महावीर्यौ संनद्धौ युद्धदुर्मदौ
ततक्षतुर्महेष्वासौ शरैरन्योन्यमाहवे
ततो दुर्योधनो राजा धर्मशीलस्य मारिष
शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे
तं नामृष्यत संक्रुद्धो व्यवसायं युधिष्ठिरः
अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः
अन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे
दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च
अथान्यद्धनुरादाय प्रत्यविध्यत पाण्डवम्
तावन्योन्यं सुसंरब्धौ शरवर्षाण्यमुञ्चताम्
सिंहाविव सुसंक्रुद्धौ परस्परजिगीषया
अन्योन्यं जघ्नतुश्चैव नर्दमानौ वृषाविव
अन्योन्यं प्रेक्षमाणौ च चेरतुस्तौ महारथौ
ततः पूर्णायतोत्सृष्टैरन्योन्यं सुकृतव्रणौ
विरेजतुर्महाराज पुष्पिताविव किंशुकौ
ततो राजन्प्रतिभयान्सिंहनादान्मुहुर्मुहुः
तलयोश्च तथा शब्दान्धनुषोश्च महाहवे
शङ्खशब्दरवांश्चैव चक्रतुस्तौ रथोत्तमौ
अन्योन्यं च महाराज पीडयां चक्रतुर्भृशम्
ततो युधिष्ठिरो राजा तव पुत्रं त्रिभिः शरैः
आजघानोरसि क्रुद्धो वज्रवेगो दुरासदः
प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिम्
पञ्चभिर्निशितैर्बाणैर्हेमपुङ्खैः शिलाशितैः
ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत
सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा
तामापतन्तीं सहसा धर्मराजः शिलाशितैः
त्रिभिश्चिच्छेद सहसा तं च विव्याध सप्तभिः
निपपात ततः साथ हेमदण्डा महाघना
निपतन्ती महोल्केव व्यराजच्छिखिसंनिभा
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते
नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम्
सोऽतिविद्धो बलवतामग्रणीः शत्रुतापनः
दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः
समाधत्त च तं बाणं धनुष्युग्रं महाबलः
चिक्षेप च ततो राजा राज्ञः क्रुद्धः पराक्रमी
स तु बाणः समासाद्य तव पुत्रं महारथम्
व्यमोहयत राजानं धरणीं च जगाम ह
ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः
विधित्सुः कलहस्यान्तमभिदुद्राव पाण्डवम्
तमालक्ष्योद्यतगदं दण्डहस्तमिवान्तकम्
धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे
दीप्यमानां महावेगां महोल्कां ज्वलितामिव
रथस्थः स तया विद्धो वर्म भित्त्वा महाहवे
भृशं संविग्नहृदयः पपात च मुमोह च