Mahabharata

Karna Parva, Adhyaya 19

Containing 75 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 19, Verse 1

श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम्

यथा वायुः समासाद्य तूलराशिं समन्ततः

Mahabharata

Karna Parva, Adhyaya 19, Verse 2

प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह

शाल्वाः संशप्तकाश्चैव नारायणबलं च यत्

Mahabharata

Karna Parva, Adhyaya 19, Verse 3

सत्यसेनः सत्यकीर्तिर्मित्रदेवः श्रुतंजयः

सौश्रुतिश्चित्रसेनश्च मित्रवर्मा च भारत

Mahabharata

Karna Parva, Adhyaya 19, Verse 4

त्रिगर्तराजः समरे भ्रातृभिः परिवारितः

पुत्रैश्चैव महेष्वासैर्नानाशस्त्रधरैर्युधि

Mahabharata

Karna Parva, Adhyaya 19, Verse 5

ते सृजन्तः शरव्रातान्किरन्तोऽर्जुनमाहवे

अभ्यद्रवन्त समरे वार्योघा इव सागरम्

Mahabharata

Karna Parva, Adhyaya 19, Verse 6

ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः

अगच्छन्विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः

Mahabharata

Karna Parva, Adhyaya 19, Verse 7

ते वध्यमानाः समरे नाजहुः पाण्डवं तदा

दह्यमाना यथा राजञ्शलभा इव पावकम्

Mahabharata

Karna Parva, Adhyaya 19, Verse 8

सत्यसेनस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम्

मित्रदेवस्त्रिषष्ट्या च चन्द्रदेवश्च सप्तभिः

Mahabharata

Karna Parva, Adhyaya 19, Verse 9

मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि पञ्चभिः

शत्रुंजयश्च विंशत्या सुशर्मा नवभिः शरैः

Mahabharata

Karna Parva, Adhyaya 19, Verse 10

शत्रुंजयं च राजानं हत्वा तत्र शिलाशितैः

सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत्

त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम्

Mahabharata

Karna Parva, Adhyaya 19, Verse 11

अथेतरान्महाराज यतमानान्महारथान्

पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत्

Mahabharata

Karna Parva, Adhyaya 19, Verse 12

सत्यसेनस्तु संक्रुद्धस्तोमरं व्यसृजन्महत्

समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च

Mahabharata

Karna Parva, Adhyaya 19, Verse 13

स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः

अयस्मयो महाचण्डो जगाम धरणीं तदा

Mahabharata

Karna Parva, Adhyaya 19, Verse 14

माधवस्य तु विद्धस्य तोमरेण महारणे

प्रतोदः प्रापतद्धस्ताद्रश्मयश्च विशां पते

Mahabharata

Karna Parva, Adhyaya 19, Verse 15

स प्रतोदं पुनर्गृह्य रश्मींश्चैव महायशाः

वाहयामास तानश्वान्सत्यसेनरथं प्रति

Mahabharata

Karna Parva, Adhyaya 19, Verse 16

विष्वक्सेनं तु निर्भिन्नं प्रेक्ष्य पार्थो धनंजयः

सत्यसेनं शरैस्तीक्ष्णैर्दारयित्वा महाबलः

Mahabharata

Karna Parva, Adhyaya 19, Verse 17

ततः सुनिशितैर्बाणै राज्ञस्तस्य महच्छिरः

कुण्डलोपचितं कायाच्चकर्त पृतनान्तरे

Mahabharata

Karna Parva, Adhyaya 19, Verse 18

तं निहत्य शितैर्बाणैर्मित्रवर्माणमाक्षिपत्

वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष

Mahabharata

Karna Parva, Adhyaya 19, Verse 19

ततः शरशतैर्भूयः संशप्तकगणान्वशी

पातयामास संक्रुद्धः शतशोऽथ सहस्रशः

Mahabharata

Karna Parva, Adhyaya 19, Verse 20

ततो रजतपुङ्खेन राज्ञः शीर्षं महात्मनः

मित्रदेवस्य चिच्छेद क्षुरप्रेण महायशाः

सुशर्माणं च संक्रुद्धो जत्रुदेशे समार्दयत्

Mahabharata

Karna Parva, Adhyaya 19, Verse 21

ततः संशप्तकाः सर्वे परिवार्य धनंजयम्

शस्त्रौघैर्ममृदुः क्रुद्धा नादयन्तो दिशो दश

Mahabharata

Karna Parva, Adhyaya 19, Verse 22

अभ्यर्दितस्तु तैर्जिष्णुः शक्रतुल्यपराक्रमः

ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः

ततः शरसहस्राणि प्रादुरासन्विशां पते

Mahabharata

Karna Parva, Adhyaya 19, Verse 23

ध्वजानां छिद्यमानानां कार्मुकाणां च संयुगे

रथानां सपताकानां तूणीराणां शरैः सह

Mahabharata

Karna Parva, Adhyaya 19, Verse 24

अक्षाणामथ योक्त्राणां चक्राणां रश्मिभिः सह

कूबराणां वरूथानां पृषत्कानां च संयुगे

Mahabharata

Karna Parva, Adhyaya 19, Verse 25

अश्मनां पततां चैव प्रासानामृष्टिभिः सह

गदानां परिघाणां च शक्तीनां तोमरैः सह

Mahabharata

Karna Parva, Adhyaya 19, Verse 26

शतघ्नीनां सचक्राणां भुजानामूरुभिः सह

कण्ठसूत्राङ्गदानां च केयूराणां च मारिष

Mahabharata

Karna Parva, Adhyaya 19, Verse 27

हाराणामथ निष्काणां तनुत्राणां च भारत

छत्राणां व्यजनानां च शिरसां मुकुटैः सह

अश्रूयत महाञ्शब्दस्तत्र तत्र विशां पते

Mahabharata

Karna Parva, Adhyaya 19, Verse 28

सकुण्डलानि स्वक्षीणि पूर्णचन्द्रनिभानि च

शिरांस्युर्व्यामदृश्यन्त तारागण इवाम्बरे

Mahabharata

Karna Parva, Adhyaya 19, Verse 29

सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च

शरीराणि व्यदृश्यन्त हतानां च महीतले

गन्धर्वनगराकारं घोरमायोधनं तदा

Mahabharata

Karna Parva, Adhyaya 19, Verse 30

निहतै राजपुत्रैश्च क्षत्रियैश्च महाबलैः

हस्तिभिः पतितैश्चैव तुरगैश्चाभवन्मही

अगम्यमार्गा समरे विशीर्णैरिव पर्वतैः