Mahabharata

Karna Parva, Adhyaya 18

Containing 76 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 18, Verse 1

युयुत्सुं तव पुत्रं तु प्राद्रवन्तं महद्बलम्

उलूकोऽभ्यपतत्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्

Mahabharata

Karna Parva, Adhyaya 18, Verse 2

युयुत्सुस्तु ततो राजञ्शितधारेण पत्रिणा

उलूकं ताडयामास वज्रेणेन्द्र इवाचलम्

Mahabharata

Karna Parva, Adhyaya 18, Verse 3

उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे

क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना

Mahabharata

Karna Parva, Adhyaya 18, Verse 4

तदपास्य धनुश्छिन्नं युयुत्सुर्वेगवत्तरम्

अन्यदादत्त सुमहच्चापं संरक्तलोचनः

Mahabharata

Karna Parva, Adhyaya 18, Verse 5

शाकुनिं च ततः षष्ट्या विव्याध भरतर्षभ

सारथिं त्रिभिरानर्छत्तं च भूयो व्यविध्यत

Mahabharata

Karna Parva, Adhyaya 18, Verse 6

उलूकस्तं तु विंशत्या विद्ध्वा हेमविभूषितैः

अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम्

Mahabharata

Karna Parva, Adhyaya 18, Verse 7

स च्छिन्नयष्टिः सुमहाञ्शीर्यमाणो महाध्वजः

पपात प्रमुखे राजन्युयुत्सोः काञ्चनोज्ज्वलः

Mahabharata

Karna Parva, Adhyaya 18, Verse 8

ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्छितः

उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे

Mahabharata

Karna Parva, Adhyaya 18, Verse 9

उलूकस्तस्य भल्लेन तैलधौतेन मारिष

शिरश्चिच्छेद सहसा यन्तुर्भरतसत्तम

Mahabharata

Karna Parva, Adhyaya 18, Verse 10

जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः

सोऽतिविद्धो बलवता प्रत्यपायाद्रथान्तरम्

Mahabharata

Karna Parva, Adhyaya 18, Verse 11

तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ

पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः

Mahabharata

Karna Parva, Adhyaya 18, Verse 12

शतानीकं महाराज श्रुतकर्मा सुतस्तव

व्यश्वसूतरथं चक्रे निमेषार्धादसंभ्रमम्

Mahabharata

Karna Parva, Adhyaya 18, Verse 13

हताश्वे तु रथे तिष्ठञ्शतानीको महाबलः

गदां चिक्षेप संक्रुद्धस्तव पुत्रस्य मारिष

Mahabharata

Karna Parva, Adhyaya 18, Verse 14

सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन्

पपात धरणीं तूर्णं दारयन्तीव भारत

Mahabharata

Karna Parva, Adhyaya 18, Verse 15

तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ

अपाक्रमेतां युद्धार्तौ प्रेक्षमाणौ परस्परम्

Mahabharata

Karna Parva, Adhyaya 18, Verse 16

पुत्रस्तु तव संभ्रान्तो विवित्सो रथमाविशत्

शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः

Mahabharata

Karna Parva, Adhyaya 18, Verse 17

सुतसोमस्तु शकुनिं विव्याध निशितैः शरैः

नाकम्पयत संरब्धो वार्योघ इव पर्वतम्

Mahabharata

Karna Parva, Adhyaya 18, Verse 18

सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम्

शरैरनेकसाहस्रैश्छादयामास भारत

Mahabharata

Karna Parva, Adhyaya 18, Verse 19

ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिः

लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे

Mahabharata

Karna Parva, Adhyaya 18, Verse 20

निवार्य समरे चापि शरांस्तान्निशितैः शरैः

आजघान सुसंक्रुद्धः सुतसोमं त्रिभिः शरैः

Mahabharata

Karna Parva, Adhyaya 18, Verse 21

तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैः

स्यालस्तव महावीर्यस्ततस्ते चुक्रुशुर्जनाः

Mahabharata

Karna Parva, Adhyaya 18, Verse 22

हताश्वो विरथश्चैव छिन्नधन्वा च मारिष

धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत

व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान्

Mahabharata

Karna Parva, Adhyaya 18, Verse 23

छादयामासुरथ ते तव स्यालस्य तं रथम्

पतंगानामिव व्राताः शरव्राता महारथम्

Mahabharata

Karna Parva, Adhyaya 18, Verse 24

रथोपस्थान्समीक्ष्यापि विव्यथे नैव सौबलः

प्रमृद्नंश्च शरांस्तांस्ताञ्शरव्रातैर्महायशाः

Mahabharata

Karna Parva, Adhyaya 18, Verse 25

तत्रातुष्यन्त योधाश्च सिद्धाश्चापि दिवि स्थिताः

सुतसोमस्य तत्कर्म दृष्ट्वाश्रद्धेयमद्भुतम्

रथस्थं नृपतिं तं तु पदातिः सन्नयोधयत्

Mahabharata

Karna Parva, Adhyaya 18, Verse 26

तस्य तीक्ष्णैर्महावेगैर्भल्लैः संनतपर्वभिः

व्यहनत्कार्मुकं राजा तूणीरं चैव सर्वशः

Mahabharata

Karna Parva, Adhyaya 18, Verse 27

स च्छिन्नधन्वा समरे खड्गमुद्यम्य नानदन्

वैडूर्योत्पलवर्णाभं हस्तिदन्तमयत्सरुम्

Mahabharata

Karna Parva, Adhyaya 18, Verse 28

भ्राम्यमाणं ततस्तं तु विमलाम्बरवर्चसम्

कालोपमं ततो मेने सुतसोमस्य धीमतः

Mahabharata

Karna Parva, Adhyaya 18, Verse 29

सोऽचरत्सहसा खड्गी मण्डलानि सहस्रशः

चतुर्विंशन्महाराज शिक्षाबलसमन्वितः

Mahabharata

Karna Parva, Adhyaya 18, Verse 30

सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान्

तानापतत एवाशु चिच्छेद परमासिना