Karna Parva, Adhyaya 17, Verse 1
हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः
धृष्टद्युम्नं जिघांसन्तः क्रुद्धाः पार्षतमभ्ययुः
Containing 120 sacred Sanskrit shlokas with multi-author commentaries and translations.
हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः
धृष्टद्युम्नं जिघांसन्तः क्रुद्धाः पार्षतमभ्ययुः
प्राच्याश्च दाक्षिणात्याश्च प्रवीरा गजयोधिनः
अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः
मेकलाः कोशला मद्रा दशार्णा निषधास्तथा
गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत
शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः
सिषिचुस्ते ततः सर्वे पाञ्चालाचलमाहवे
तान्संमिमर्दिषुर्नागान्पार्ष्ण्यङ्गुष्ठाङ्कुशैर्भृशम्
पोथितान्पार्षतो बाणैर्नाराचैश्चाभ्यवीवृषत्
एकैकं दशभिः षड्भिरष्टाभिरपि भारत
द्विरदानभिविव्याध क्षिप्तैर्गिरिनिभाञ्शरैः
प्रच्छाद्यमानो द्विरदैर्मेघैरिव दिवाकरः
पर्यासुः पाण्डुपाञ्चाला नदन्तो निशितायुधाः
तान्नागानभिवर्षन्तो ज्यातन्त्रीशरनादितैः
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः
सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान्
ते म्लेच्छैः प्रेषिता नागा नरानश्वान्रथानपि
हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः
बिभिदुश्च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः
विषाणलग्नैश्चाप्यन्ये परिपेतुर्विभीषणाः
प्रमुखे वर्तमानं तु द्विपं वङ्गस्य सात्यकिः
नाराचेनोग्रवेगेन भित्त्वा मर्मण्यपातयत्
तस्यावर्जितनागस्य द्विरदादुत्पतिष्यतः
नाराचेनाभिनद्वक्षः सोऽपतद्भुवि सात्यकेः
पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम्
सहदेवः प्रयत्नात्तैर्नाराचैर्व्यहनत्त्रिभिः
विपताकं वियन्तारं विवर्मध्वजजीवितम्
तं कृत्वा द्विरदं भूयः सहदेवोऽङ्गमभ्यगात्
सहदेवं तु नकुलो वारयित्वाङ्गमार्दयत्
नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन च
दिवाकरकरप्रख्यानङ्गश्चिक्षेप तोमरान्
नकुलाय शतान्यष्टौ त्रिधैकैकं तु सोऽच्छिनत्
तथार्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः
स पपात हतो म्लेच्छस्तेनैव सह दन्तिना
आचार्यपुत्रे निहते हस्तिशिक्षाविशारदे
अङ्गाः क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः
चलत्पताकैः प्रमुखैर्हेमकक्ष्यातनुच्छदैः
मिमर्दिषन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः
मेकलोत्कलकालिङ्गा निषादास्ताम्रलिप्तकाः
शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः
तैश्छाद्यमानं नकुलं दिवाकरमिवाम्बुदैः
परि पेतुः सुसंरब्धाः पाण्डुपाञ्चालसोमकाः
ततस्तदभवद्युद्धं रथिनां हस्तिभिः सह
सृजतां शरवर्षाणि तोमरांश्च सहस्रशः
नागानां प्रस्फुटुः कुम्भा मर्माणि विविधानि च
दन्ताश्चैवातिविद्धानां नाराचैर्भूषणानि च
तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः
सहदेवो जघानाशु ते पेतुः सह सादिभिः
अञ्जोगतिभिरायम्य प्रयत्नाद्धनुरुत्तमम्
नाराचैरहनन्नागान्नकुलः कुरुनन्दन
ततः शैनेयपाञ्चाल्यौ द्रौपदेयाः प्रभद्रकाः
शिखण्डी च महानागान्सिषिचुः शरवृष्टिभिः
ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः
बाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाचलाः
एवं हत्वा तव गजांस्ते पाण्डुनरकुञ्जराः
द्रुतं सेनामवैक्षन्त भिन्नकूलामिवापगाम्
ते तां सेनामवालोक्य पाण्डुपुत्रस्य सैनिकाः
विक्षोभयित्वा च पुनः कर्णमेवाभिदुद्रुवुः
सहदेवं ततः क्रुद्धं दहन्तं तव वाहिनीम्
दुःशासनो महाराज भ्राता भ्रातरमभ्ययात्