Karna Parva, Adhyaya 16, Verse 1
पाण्ड्ये हते किमकरोदर्जुनो युधि संजय
एकवीरेण कर्णेन द्रावितेषु परेषु च
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
पाण्ड्ये हते किमकरोदर्जुनो युधि संजय
एकवीरेण कर्णेन द्रावितेषु परेषु च
समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवः
सर्वभूतेष्वनुज्ञातः शंकरेण महात्मना
तस्मान्महद्भयं तीव्रममित्रघ्नाद्धनंजयात्
स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व संजय
हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम्
पश्यातिमान्यं राजानमपयातांश्च पाण्डवान्
अश्वत्थाम्नश्च संकल्पाद्धताः कर्णेन सृञ्जयाः
तथाश्वनरनागानां कृतं च कदनं महत्
इत्याचष्ट सुदुर्धर्षो वासुदेवः किरीटिने
एतच्छ्रुत्वा च दृष्ट्वा च भ्रातुर्घोरं महद्भयम्
वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः
ततः प्रायाद्धृषीकेशो रथेनाप्रतियोधिना
दारुणश्च पुनस्तत्र प्रादुरासीत्समागमः
ततः प्रववृते भूयः संग्रामो राजसत्तम
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः
धनूंषि बाणान्परिघानसितोमरपट्टिशान्
मुसलानि भुशुण्डीश्च शक्तिऋष्टिपरश्वधान्
गदाः प्रासानसीन्कुन्तान्भिण्डिपालान्महाङ्कुशान्
प्रगृह्य क्षिप्रमापेतुः परस्परजिगीषया
बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत्
पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान्
तेन शब्देन महता संहृष्टाश्चक्रुराहवम्
वीरा वीरैर्महाघोरं कलहान्तं तितीर्षवः
ज्यातलत्रधनुःशब्दाः कुञ्जराणां च बृंहितम्
ताडितानां च पततां निनादः सुमहानभूत्
बाणशब्दांश्च विविधाञ्शूराणामभिगर्जताम्
श्रुत्वा शब्दं भृशं त्रेसुर्जघ्नुर्मम्लुश्च भारत
तेषां नानद्यतां चैव शस्त्रवृष्टिं च मुञ्चताम्
बहूनाधिरथिः कर्णः प्रममाथ रणेषुभिः
पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च
साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम्
योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे
शीघ्रास्त्रा दिवमावृत्य परिवव्रुः समन्ततः
ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन्
विजगाहेऽण्डजापूर्णां पद्मिनीमिव यूथपः
द्विषन्मध्यमवस्कन्द्य राधेयो धनुरुत्तमम्
विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत्
चर्मवर्माणि संछिन्द्य निर्वापमिव देहिनाम्
विषेहुर्नास्य संपर्कं द्वितीयस्य पतत्रिणः
वर्मदेहासुमथनैर्धनुषः प्रच्युतैः शरैः
मौर्व्या तलत्रैर्न्यवधीत्कशया वाजिनो यथा
पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमानयत्
ममर्द कर्णस्तरसा सिंहो मृगगणानिव
ततः पाञ्चालपुत्राश्च द्रौपदेयाश्च मारिष
यमौ च युयुधानश्च सहिताः कर्णमभ्ययुः
व्यायच्छमानाः सुभृशं कुरुपाण्डवसृञ्जयाः
प्रियानसून्रणे त्यक्त्वा योधा जग्मुः परस्परम्
सुसंनद्धाः कवचिनः सशिरस्त्राणभूषणाः
गदाभिर्मुसलैश्चान्ये परिघैश्च महारथाः
समभ्यधावन्त भृशं देवा दण्डैरिवोद्यतैः
नदन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष
ततो निजघ्नुरन्योन्यं पेतुश्चाहवताडिताः
वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षणा युधि
दन्तपूर्णैः सरुधिरैर्वक्त्रैर्दाडिमसंनिभैः
जीवन्त इव चाप्येते तस्थुः शस्त्रोपबृंहिताः
परस्परं चाप्यपरे पट्टिशैरसिभिस्तथा
शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः
ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा
संचकर्तुश्च जघ्नुश्च क्रुद्धा निर्बिभिदुश्च ह