Karna Parva, Adhyaya 15, Verse 1
प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः
न त्वस्य कर्म संग्रामे त्वया संजय कीर्तितम्
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः
न त्वस्य कर्म संग्रामे त्वया संजय कीर्तितम्
तस्य विस्तरतो ब्रूहि प्रवीरस्याद्य विक्रमम्
शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च
द्रोणभीष्मकृपद्रौणिकर्णार्जुनजनार्दनान्
समाप्तविद्यान्धनुषि श्रेष्ठान्यान्मन्यसे युधि
तुल्यता कर्णभीष्माभ्यामात्मनो येन दृश्यते
वासुदेवार्जुनाभ्यां च न्यूनतां नात्मनीच्छति
स पाण्ड्यो नृपतिश्रेष्ठः सर्वशस्त्रभृतां वरः
कर्णस्यानीकमवधीत्परिभूत इवान्तकः
तदुदीर्णरथाश्वं च पत्तिप्रवरकुञ्जरम्
कुलालचक्रवद्भ्रान्तं पाण्ड्येनाधिष्ठितं बलम्
व्यश्वसूतध्वजरथान्विप्रविद्धायुधान्रिपून्
सम्यगस्तैः शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत्
द्विरदान्प्रहतप्रोथान्विपताकध्वजायुधान्
सपादरक्षानवधीद्वज्रेणारीनिवारिहा
सशक्तिप्रासतूणीरानश्वारोहान्हयानपि
पुलिन्दखशबाह्लीकान्निषादान्ध्रकतङ्गणान्
दाक्षिणात्यांश्च भोजांश्च क्रूरान्संग्रामकर्कशान्
विशस्त्रकवचान्बाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून्
चतुरङ्गं बलं बाणैर्निघ्नन्तं पाण्ड्यमाहवे
दृष्ट्वा द्रौणिरसंभ्रान्तमसंभ्रान्ततरोऽभ्ययात्
आभाष्य चैनं मधुरमभि नृत्यन्नभीतवत्
प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयन्
राजन्कमलपत्राक्ष प्रधानायुधवाहन
वज्रसंहननप्रख्य प्रधानबलपौरुष
मुष्टिश्लिष्टायुधाभ्यां च व्यायताभ्यां महद्धनुः
दोर्भ्यां विस्फारयन्भासि महाजलदवद्भृशम्
शरवर्षैर्महावेगैरमित्रानभिवर्षतः
मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे
रथद्विरदपत्त्यश्वानेकः प्रमथसे बहून्
मृगसंघानिवारण्ये विभीर्भीमबलो हरिः
महता रथघोषेण दिवं भूमिं च नादयन्
वर्षान्ते सस्यहा पीथो भाभिरापूरयन्निव
संस्पृशानः शरांस्तीक्ष्णांस्तूणादाशीविषोपमान्
मयैवैकेन युध्यस्व त्र्यम्बकेणान्धको यथा
एवमुक्तस्तथेत्युक्त्वा प्रहरेति च ताडितः
कर्णिना द्रोणतनयं विव्याध मलयध्वजः
मर्मभेदिभिरत्युग्रैर्बाणैरग्निशिखोपमैः
स्मयन्नभ्यहनद्द्रौणिः पाण्ड्यमाचार्यसत्तमः
ततो नवापरांस्तीक्ष्णान्नाराचान्कङ्कवाससः
गत्या दशम्या संयुक्तानश्वत्थामा व्यवासृजत्
तेषां पञ्चाच्छिनत्पाण्ड्यः पञ्चभिर्निशितैः शरैः
चत्वारोऽभ्याहनन्वाहानाशु ते व्यसवोऽभवन्
अथ द्रोणसुतस्येषूंस्तांश्छित्त्वा निशितैः शरैः
धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यवर्चसः
विज्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा
ततः शरसहस्राणि प्रेषयामास पाण्ड्यतः
इषुसंबाधमाकाशमकरोद्दिश एव च
ततस्तानस्यतः सर्वान्द्रौणेर्बाणान्महात्मनः
जानानोऽप्यक्षयान्पाण्ड्योऽशातयत्पुरुषर्षभः
प्रहितांस्तान्प्रयत्नेन छित्त्वा द्रौणेरिषूनरिः
चक्ररक्षौ ततस्तस्य प्राणुदन्निशितैः शरैः
अथारेर्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः
प्रास्यद्द्रोणसुतो बाणान्वृष्टिं पूषानुजो यथा
अष्टावष्टगवान्यूहुः शकटानि यदायुधम्
अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष
तमन्तकमिव क्रुद्धमन्तकालान्तकोपमम्
ये ये ददृशिरे तत्र विसंज्ञाः प्रायशोऽभवन्
पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महीम्
आचार्यपुत्रस्तां सेनां बाणवृष्ट्याभ्यवीवृषत्