Mahabharata

Karna Parva, Adhyaya 14

Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 14, Verse 1

प्रत्यागत्य पुनर्जिष्णुरहन्संशप्तकान्बहून्

वक्रानुवक्रगमनादङ्गारक इव ग्रहः

Mahabharata

Karna Parva, Adhyaya 14, Verse 2

पार्थबाणहता राजन्नराश्वरथकुञ्जराः

विचेलुर्बभ्रमुर्नेदुः पेतुर्मम्लुश्च मारिष

Mahabharata

Karna Parva, Adhyaya 14, Verse 3

धुर्यं धुर्यतरान्सूतान्रथांश्च परिसंक्षिपन्

पाणीन्पाणिगतं शस्त्रं बाहूनपि शिरांसि च

Mahabharata

Karna Parva, Adhyaya 14, Verse 4

भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः

चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम्

Mahabharata

Karna Parva, Adhyaya 14, Verse 5

वाशितार्थे युयुत्सन्तो वृषभा वृषभं यथा

आपतन्त्यर्जुनं शूराः शतशोऽथ सहस्रशः

Mahabharata

Karna Parva, Adhyaya 14, Verse 6

तेषां तस्य च तद्युद्धमभवल्लोमहर्षणम्

त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा

Mahabharata

Karna Parva, Adhyaya 14, Verse 7

तमविध्यत्त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः

उग्रायुधस्ततस्तस्य शिरः कायादपाहरत्

Mahabharata

Karna Parva, Adhyaya 14, Verse 8

तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन्

मरुद्भिः प्रेषिता मेघा हिमवन्तमिवोष्णगे

Mahabharata

Karna Parva, Adhyaya 14, Verse 9

अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः

सम्यगस्तैः शरैः सर्वान्सहितानहनद्बहून्

Mahabharata

Karna Parva, Adhyaya 14, Verse 10

छिन्नत्रिवेणुजङ्घेषान्निहतपार्ष्णिसारथीन्

संछिन्नरश्मियोक्त्राक्षान्व्यनुकर्षयुगान्रथान्

विध्वस्तसर्वसंनाहान्बाणैश्चक्रेऽर्जुनस्त्वरन्

Mahabharata

Karna Parva, Adhyaya 14, Verse 11

ते रथास्तत्र विध्वस्ताः परार्ध्या भान्त्यनेकशः

धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः

Mahabharata

Karna Parva, Adhyaya 14, Verse 12

द्विपाः संभिन्नमर्माणो वज्राशनिसमैः शरैः

पेतुर्गिर्यग्रवेश्मानि वज्रवाताग्निभिर्यथा

Mahabharata

Karna Parva, Adhyaya 14, Verse 13

सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः

निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः

Mahabharata

Karna Parva, Adhyaya 14, Verse 14

नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना

बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष

Mahabharata

Karna Parva, Adhyaya 14, Verse 15

अणकैश्च शिलाधौतैर्वज्राशनिविषोपमैः

शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान्

Mahabharata

Karna Parva, Adhyaya 14, Verse 16

महार्हवर्माभरणा नानारूपाम्बरायुधाः

सरथाः सध्वजा वीरा हताः पार्थेन शेरते

Mahabharata

Karna Parva, Adhyaya 14, Verse 17

विजिताः पुण्यकर्माणो विशिष्टाभिजनश्रुताः

गताः शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम्

Mahabharata

Karna Parva, Adhyaya 14, Verse 18

अथार्जुनरथं वीरास्त्वदीयाः समुपाद्रवन्

नानाजनपदाध्यक्षाः सगणा जातमन्यवः

Mahabharata

Karna Parva, Adhyaya 14, Verse 19

उह्यमाना रथाश्वैस्ते पत्तयश्च जिघांसवः

समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम्

Mahabharata

Karna Parva, Adhyaya 14, Verse 20

तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः

व्यधमन्निशितैर्बाणैः क्षिप्रमर्जुनमारुतः

Mahabharata

Karna Parva, Adhyaya 14, Verse 21

साश्वपत्तिद्विपरथं महाशस्त्रौघमप्लवम्

सहसा संतितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना

Mahabharata

Karna Parva, Adhyaya 14, Verse 22

अथाब्रवीद्वासुदेवः पार्थं किं क्रीडसेऽनघ

संशप्तकान्प्रमथ्यैतांस्ततः कर्णवधे त्वर

Mahabharata

Karna Parva, Adhyaya 14, Verse 23

तथेत्युक्त्वार्जुनः क्षिप्रं शिष्टान्संशप्तकांस्तदा

आक्षिप्य शस्त्रेण बलाद्दैत्यानिन्द्र इवावधीत्

Mahabharata

Karna Parva, Adhyaya 14, Verse 24

आदधत्संदधन्नेषून्दृष्टः कैश्चिद्रणेऽर्जुनः

विमुञ्चन्वा शराञ्शीघ्रं दृश्यते स्म हि कैरपि

Mahabharata

Karna Parva, Adhyaya 14, Verse 25

आश्चर्यमिति गोविन्दो ब्रुवन्नश्वानचोदयत्

हंसांसगौरास्ते सेनां हंसाः सर इवाविशन्

Mahabharata

Karna Parva, Adhyaya 14, Verse 26

ततः संग्रामभूमिं तां वर्तमाने जनक्षये

अवेक्षमाणो गोविन्दः सव्यसाचिनमब्रवीत्

Mahabharata

Karna Parva, Adhyaya 14, Verse 27

एष पार्थ महारौद्रो वर्तते भरतक्षयः

पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान्

Mahabharata

Karna Parva, Adhyaya 14, Verse 28

पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम्

महतामपविद्धानि कलापानिषुधीस्तथा

Mahabharata

Karna Parva, Adhyaya 14, Verse 29

जातरूपमयैः पुङ्खैः शरांश्च नतपर्वणः

तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान्

Mahabharata

Karna Parva, Adhyaya 14, Verse 30

हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान्

आकीर्णांस्तोमरांश्चापांश्चित्रान्हेमविभूषितान्