Karna Parva, Adhyaya 12, Verse 1
यथा संशप्तकैः सार्धमर्जुनस्याभवद्रणः
अन्येषां च मदीयानां पाण्डवैस्तद्ब्रवीहि मे
Containing 71 sacred Sanskrit shlokas with multi-author commentaries and translations.
यथा संशप्तकैः सार्धमर्जुनस्याभवद्रणः
अन्येषां च मदीयानां पाण्डवैस्तद्ब्रवीहि मे
शृणु राजन्यथावृत्तं संग्रामं ब्रुवतो मम
वीराणां शत्रुभिः सार्धं देहपाप्मप्रणाशनम्
पार्थः संशप्तकगणं प्रविश्यार्णवसंनिभम्
व्यक्षोभयदमित्रघ्नो महावात इवार्णवम्
शिरांस्युन्मथ्य वीराणां शितैर्भल्लैर्धनंजयः
पूर्णचन्द्राभवक्त्राणि स्वक्षिभ्रूदशनानि च
संतस्तार क्षितिं क्षिप्रं विनालैर्नलिनैरिव
सुवृत्तानायतान्पुष्टांश्चन्दनागुरुभूषितान्
सायुधान्सतनुत्राणान्पञ्चास्योरगसंनिभान्
बाहून्क्षुरैरमित्राणां विचकर्तार्जुनो रणे
धुर्यान्धुर्यतरान्सूतान्ध्वजांश्चापानि सायकान्
पाणीनरत्नीनसकृद्भल्लैश्चिच्छेद पाण्डवः
द्विपान्हयान्रथांश्चैव सारोहानर्जुनो रणे
शरैरनेकसाहस्रै राजन्निन्ये यमक्षयम्
तं प्रवीरं प्रतीयाता नर्दमाना इवर्षभाः
वाशितार्थमभिक्रुद्धा हुंकृत्वा चाभिदुद्रुवुः
निघ्नन्तमभिजघ्नुस्ते शरैः शृङ्गैरिवर्षभाः
तस्य तेषां च तद्युद्धमभवल्लोमहर्षणम्
त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः
इषुभिर्बहुभिस्तूर्णं विद्ध्वा प्राणान्ररास सः
छिन्नत्रिवेणुचक्राक्षान्हतयोधाश्वसारथीन्
विध्वस्तायुधतूणीरान्समुन्मथितकेतनान्
संछिन्नयोक्त्ररश्मीकान्वित्रिवेणून्विकूबरान्
विध्वस्तबन्धुरयुगान्विशस्तायुधमण्डलान्
रथान्विशकलीकुर्वन्महाभ्राणीव मारुतः
विस्मापयन्प्रेक्षणीयं द्विषातां भयवर्धनम्
महारथसहस्रस्य समं कर्मार्जुनोऽकरोत्
सिद्धदेवर्षिसंघाश्च चारणाश्चैव तुष्टुवुः
देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन्
केशवार्जुनयोर्मूर्ध्नि प्राह वाक्चाशरीरिणी
चन्द्रार्कानिलवह्नीनां कान्तिदीप्तिबलद्युतीः
यौ सदा बिभ्रतुर्वीरौ ताविमौ केशवार्जुनौ
ब्रह्मेशानाविवाजय्यौ वीरावेकरथे स्थितौ
सर्वभूतवरौ वीरौ नरनारायणावुभौ
इत्येतन्महदाश्चर्यं दृष्ट्वा श्रुत्वा च भारत
अश्वत्थामा सुसंयत्तः कृष्णावभ्यद्रवद्रणे
अथ पाण्डवमस्यन्तं यमकालान्तकाञ्शरान्
सेषुणा पाणिनाहूय हसन्द्रौणिरथाब्रवीत्
यदि मां मन्यसे वीर प्राप्तमर्हमिवातिथिम्
ततः सर्वात्मनाद्य त्वं युद्धातिथ्यं प्रयच्छ मे
एवमाचार्यपुत्रेण समाहूतो युयुत्सया
बहु मेनेऽर्जुनोऽऽत्मानमिदं चाह जनार्दनम्
संशप्तकाश्च मे वध्या द्रौणिराह्वयते च माम्
यदत्रानन्तरं प्राप्तं प्रशाधि त्वं महाभुज
एवमुक्तोऽवहत्पार्थं कृष्णो द्रोणात्मजान्तिकम्
जैत्रेण विधिनाहूतं वायुरिन्द्रमिवाध्वरे
तमामन्त्र्यैकमनसा केशवो द्रौणिमब्रवीत्
अश्वत्थामन्स्थिरो भूत्वा प्रहराशु सहस्व च
निर्वेष्टुं भर्तृपिण्डं हि कालोऽयमुपजीविनाम्
सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जयाजयौ
यां न संक्षमसे मोहाद्दिव्यां पार्थस्य सत्क्रियाम्
तामाप्तुमिच्छन्युध्यस्व स्थिरो भूत्वाद्य पाण्डवम्
इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः
विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः
तस्यार्जुनः सुसंक्रुद्धस्त्रिभिर्भल्लैः शरासनम्
चिच्छेदाथान्यदादत्त द्रौणिर्घोरतरं धनुः
सज्यं कृत्वा निमेषात्तद्विव्याधार्जुनकेशवौ
त्रिभिः शरैर्वासुदेवं सहस्रेण च पाण्डवम्
ततः शरसहस्राणि प्रयुतान्यर्बुदानि च
ससृजे द्रौणिरायस्तः संस्तभ्य च रणेऽर्जुनम्
इषुधेर्धनुषो ज्याया अङ्गुलीभ्यश्च मारिष
बाह्वोः कराभ्यामुरसो वदनघ्राणनेत्रतः