Mahabharata

Karna Parva, Adhyaya 11

Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 11, Verse 1

भीमसेनं ततो द्रौणी राजन्विव्याध पत्रिणा

त्वरया परया युक्तो दर्शयन्नस्त्रलाघवम्

Mahabharata

Karna Parva, Adhyaya 11, Verse 2

अथैनं पुनराजघ्ने नवत्या निशितैः शरैः

सर्वमर्माणि संप्रेक्ष्य मर्मज्ञो लघुहस्तवत्

Mahabharata

Karna Parva, Adhyaya 11, Verse 3

भीमसेनः समाकीर्णो द्रौणिना निशितैः शरैः

रराज समरे राजन्रश्मिवानिव भास्करः

Mahabharata

Karna Parva, Adhyaya 11, Verse 4

ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः

द्रोणपुत्रमवच्छाद्य सिंहनादममुञ्चत

Mahabharata

Karna Parva, Adhyaya 11, Verse 5

शरैः शरांस्ततो द्रौणिः संवार्य युधि पाण्डवम्

ललाटेऽभ्यहनद्राजन्नाराचेन स्मयन्निव

Mahabharata

Karna Parva, Adhyaya 11, Verse 6

ललाटस्थं ततो बाणं धारयामास पाण्डवः

यथा शृङ्गं वने दृप्तः खड्गो धारयते नृप

Mahabharata

Karna Parva, Adhyaya 11, Verse 7

ततो द्रौणिं रणे भीमो यतमानं पराक्रमी

त्रिभिर्विव्याध नाराचैर्ललाटे विस्मयन्निव

Mahabharata

Karna Parva, Adhyaya 11, Verse 8

ललाटस्थैस्ततो बाणैर्ब्राह्मणः स व्यरोचत

प्रावृषीव यथा सिक्तस्त्रिशृङ्गः पर्वतोत्तमः

Mahabharata

Karna Parva, Adhyaya 11, Verse 9

ततः शरशतैर्द्रौणिमर्दयामास पाण्डवः

न चैनं कम्पयामास मातरिश्वेव पर्वतम्

Mahabharata

Karna Parva, Adhyaya 11, Verse 10

तथैव पाण्डवं युद्धे द्रौणिः शरशतैः शितैः

नाकम्पयत संहृष्टो वार्योघ इव पर्वतम्

Mahabharata

Karna Parva, Adhyaya 11, Verse 11

तावन्योन्यं शरैर्घोरैश्छादयानौ महारथौ

रथचर्यागतौ शूरौ शुशुभाते रणोत्कटौ

Mahabharata

Karna Parva, Adhyaya 11, Verse 12

आदित्याविव संदीप्तौ लोकक्षयकरावुभौ

स्वरश्मिभिरिवान्योन्यं तापयन्तौ शरोत्तमैः

Mahabharata

Karna Parva, Adhyaya 11, Verse 13

कृतप्रतिकृते यत्नं कुर्वाणौ च महारणे

कृतप्रतिकृते यत्नं चक्राते तावभीतवत्

Mahabharata

Karna Parva, Adhyaya 11, Verse 14

व्याघ्राविव च संग्रामे चेरतुस्तौ महारथौ

शरदंष्ट्रौ दुराधर्षौ चापव्यात्तौ भयानकौ

Mahabharata

Karna Parva, Adhyaya 11, Verse 15

अभूतां तावदृश्यौ च शरजालैः समन्ततः

मेघजालैरिव च्छन्नौ गगने चन्द्रभास्करौ

Mahabharata

Karna Parva, Adhyaya 11, Verse 16

प्रकाशौ च मुहूर्तेन तत्रैवास्तामरिंदमौ

विमुक्तौ मेघजालेन शशिसूर्यौ यथा दिवि

Mahabharata

Karna Parva, Adhyaya 11, Verse 17

अपसव्यं ततश्चक्रे द्रौणिस्तत्र वृकोदरम्

किरञ्शरशतैरुग्रैर्धाराभिरिव पर्वतम्

Mahabharata

Karna Parva, Adhyaya 11, Verse 18

न तु तन्ममृषे भीमः शत्रोर्विजयलक्षणम्

प्रतिचक्रे च तं राजन्पाण्डवोऽप्यपसव्यतः

Mahabharata

Karna Parva, Adhyaya 11, Verse 19

मण्डलानां विभागेषु गतप्रत्यागतेषु च

बभूव तुमुलं युद्धं तयोस्तत्र महामृधे

Mahabharata

Karna Parva, Adhyaya 11, Verse 20

चरित्वा विविधान्मार्गान्मण्डलं स्थानमेव च

शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः

Mahabharata

Karna Parva, Adhyaya 11, Verse 21

अन्योन्यस्य वधे यत्नं चक्रतुस्तौ महारथौ

ईषतुर्विरथं चैव कर्तुमन्योन्यमाहवे

Mahabharata

Karna Parva, Adhyaya 11, Verse 22

ततो द्रौणिर्महास्त्राणि प्रादुश्चक्रे महारथः

तान्यस्त्रैरेव समरे प्रतिजघ्नेऽस्य पाण्डवः

Mahabharata

Karna Parva, Adhyaya 11, Verse 23

ततो घोरं महाराज अस्त्रयुद्धमवर्तत

ग्रहयुद्धं यथा घोरं प्रजासंहरणे अभूत्

Mahabharata

Karna Parva, Adhyaya 11, Verse 24

ते बाणाः समसज्जन्त क्षिप्तास्ताभ्यां तु भारत

द्योतयन्तो दिशः सर्वास्तच्च सैन्यं समन्ततः

Mahabharata

Karna Parva, Adhyaya 11, Verse 25

बाणसंघावृतं घोरमाकाशं समपद्यत

उक्लापातकृतं यद्वत्प्रजानां संक्षये नृप

Mahabharata

Karna Parva, Adhyaya 11, Verse 26

बाणाभिघातात्संजज्ञे तत्र भारत पावकः

सविस्फुलिङ्गो दीप्तार्चिः सोऽदहद्वाहिनीद्वयम्

Mahabharata

Karna Parva, Adhyaya 11, Verse 27

तत्र सिद्धा महाराज संपतन्तोऽब्रुवन्वचः

अति युद्धानि सर्वाणि युद्धमेतत्ततोऽधिकम्

Mahabharata

Karna Parva, Adhyaya 11, Verse 28

सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम्

नैतादृशं पुनर्युद्धं न भूतं न भविष्यति

Mahabharata

Karna Parva, Adhyaya 11, Verse 29

अहो ज्ञानेन संयुक्तावुभौ चोग्रपराक्रमौ

अहो भीमे बलं भीममेतयोश्च कृतास्त्रता

Mahabharata

Karna Parva, Adhyaya 11, Verse 30

अहो वीर्यस्य सारत्वमहो सौष्ठवमेतयोः

स्थितावेतौ हि समरे कालान्तकयमोपमौ