Karna Parva, Adhyaya 10, Verse 1
श्रुतकर्मा महाराज चित्रसेनं महीपतिम्
आजघ्ने समरे क्रुद्धः पञ्चाशद्भिः शिलीमुखैः
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रुतकर्मा महाराज चित्रसेनं महीपतिम्
आजघ्ने समरे क्रुद्धः पञ्चाशद्भिः शिलीमुखैः
अभिसारस्तु तं राजा नवभिर्निशितैः शरैः
श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः
श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे
नाराचेन सुतीक्ष्णेन मर्मदेशे समर्दयत्
एतस्मिन्नन्तरे चैनं श्रुतकीर्तिर्महायशाः
नवत्या जगतीपालं छादयामास पत्रिभिः
प्रतिलभ्य ततः संज्ञां चित्रसेनो महारथः
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः
सोऽन्यत्कार्मुकमादाय वेगघ्नं रुक्मभूषणम्
चित्ररूपतरं चक्रे चित्रसेनं शरोर्मिभिः
स शरैश्चित्रितो राजंश्चित्रमाल्यधरो युवा
युवेव समशोभत्स गोष्ठीमध्ये स्वलंकृतः
श्रुतकर्माणमथ वै नाराचेन स्तनान्तरे
बिभेद समरे क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्
श्रुतकर्मापि समरे नाराचेन समर्दितः
सुस्राव रुधिरं भूरि गैरिकाम्भ इवाचलः
ततः स रुधिराक्ताङ्गो रुधिरेण कृतच्छविः
रराज समरे राजन्सपुष्प इव किंशुकः
श्रुतकर्मा ततो राजञ्शत्रूणां समभिद्रुतः
शत्रुसंवरणं कृत्वा द्विधा चिच्छेद कार्मुकम्
अथैनं छिन्नधन्वानं नाराचानां त्रिभिः शतैः
विव्याध भरतश्रेष्ठ श्रुतकर्मा महायशाः
ततोऽपरेण भल्लेन भृशं तीक्ष्णेन सत्वरः
जहार सशिरस्त्राणं शिरस्तस्य महात्मनः
तच्छिरो न्यपतद्भूमौ सुमहच्चित्रवर्मणः
यदृच्छया यथा चन्द्रश्च्युतः स्वर्गान्महीतले
राजानं निहतं दृष्ट्वा अभिसारं च मारिष
अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः
ततः क्रुद्धो महेष्वासस्तत्सैन्यं प्राद्रवच्छरैः
अन्तकाले यथा क्रुद्धः सर्वभूतानि प्रेतराट्
द्रावयन्निषुभिस्तूर्णं श्रुतकर्मा व्यरोचत
प्रतिविन्ध्यस्ततश्चित्रं भित्त्वा पञ्चभिराशुगैः
सारथिं त्रिभिरानर्च्छद्ध्वजमेकेषुणा ततः
तं चित्रो नवभिर्भल्लैर्बाह्वोरुरसि चार्दयत्
स्वर्णपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः
प्रतिविन्ध्यो धनुस्तस्य छित्त्वा भारत सायकैः
पञ्चभिर्निशितैर्बाणैरथैनं संप्रजघ्निवान्
ततः शक्तिं महाराज हेमदण्डां दुरासदाम्
प्राहिणोत्तव पुत्राय घोरामग्निशिखामिव
तामापतन्तीं सहसा शक्तिमुल्कामिवाम्बरात्
द्विधा चिच्छेद समरे प्रतिविन्ध्यो हसन्निव
सा पपात तदा छिन्ना प्रतिविन्ध्यशरैः शितैः
युगान्ते सर्वभूतानि त्रासयन्ती यथाशनिः
शक्तिं तां प्रहतां दृष्ट्वा चित्रो गृह्य महागदाम्
प्रतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम्
सा जघान हयांस्तस्य सारथिं च महारणे
रथं प्रमृद्य वेगेन धरणीमन्वपद्यत
एतस्मिन्नेव काले तु रथादाप्लुत्य भारत
शक्तिं चिक्षेप चित्राय स्वर्णघण्टामलंकृताम्
तामापतन्तीं जग्राह चित्रो राजन्महामनाः
ततस्तामेव चिक्षेप प्रतिविन्ध्याय भारत
समासाद्य रणे शूरं प्रतिविन्ध्यं महाप्रभा
निर्भिद्य दक्षिणं बाहुं निपपात महीतले
पतिताभासयच्चैव तं देशमशनिर्यथा
प्रतिविन्ध्यस्ततो राजंस्तोमरं हेमभूषितम्
प्रेषयामास संक्रुद्धश्चित्रस्य वधकाम्यया
स तस्य देवावरणं भित्त्वा हृदयमेव च
जगाम धरणीं तूर्णं महोरग इवाशयम्
स पपात तदा राजंस्तोमरेण समाहतः
प्रसार्य विपुलौ बाहू पीनौ परिघसंनिभौ