Mahabharata

Karna Parva, Adhyaya 9

Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 9, Verse 1

ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम्

जघान समरे शूरः शरैः संनतपर्वभिः

Mahabharata

Karna Parva, Adhyaya 9, Verse 2

तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम्

कर्णस्य प्रमुखे क्रुद्धा विनिजघ्नुर्महारथाः

Mahabharata

Karna Parva, Adhyaya 9, Verse 3

कर्णो राजन्महाबाहुर्न्यवधीत्पाण्डवीं चमूम्

नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः

Mahabharata

Karna Parva, Adhyaya 9, Verse 4

तत्र भारत कर्णेन नाराचैस्ताडिता गजाः

नेदुः सेदुश्च मम्लुश्च बभ्रमुश्च दिशो दश

Mahabharata

Karna Parva, Adhyaya 9, Verse 5

वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष

नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे

Mahabharata

Karna Parva, Adhyaya 9, Verse 6

भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम्

विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत्

Mahabharata

Karna Parva, Adhyaya 9, Verse 7

श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः

प्रतिविन्ध्यं तथा चित्रश्चित्रकेतनकार्मुकः

Mahabharata

Karna Parva, Adhyaya 9, Verse 8

दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम्

संशप्तकगणान्क्रुद्धो अभ्यधावद्धनंजयः

Mahabharata

Karna Parva, Adhyaya 9, Verse 9

धृष्टद्युम्नः कृपं चाथ तस्मिन्वीरवरक्षये

शिखण्डी कृतवर्माणं समासादयदच्युतम्

Mahabharata

Karna Parva, Adhyaya 9, Verse 10

श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव

दुःशासनं महाराज सहदेवः प्रतापवान्

Mahabharata

Karna Parva, Adhyaya 9, Verse 11

केकयौ सात्यकिं युद्धे शरवर्षेण भास्वता

सात्यकिः केकयौ चैव छादयामास भारत

Mahabharata

Karna Parva, Adhyaya 9, Verse 12

तावेनं भ्रातरौ वीरं जघ्नतुर्हृदये भृशम्

विषाणाभ्यां यथा नागौ प्रतिनागं महाहवे

Mahabharata

Karna Parva, Adhyaya 9, Verse 13

शरसंभिन्नवर्माणौ तावुभौ भ्रातरौ रणे

सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः

Mahabharata

Karna Parva, Adhyaya 9, Verse 14

तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशम्

छादयञ्शरवर्षेण वारयामास भारत

Mahabharata

Karna Parva, Adhyaya 9, Verse 15

वार्यमाणौ ततस्तौ तु शैनेयशरवृष्टिभिः

शैनेयस्य रथं तूर्णं छादयामासतुः शरैः

Mahabharata

Karna Parva, Adhyaya 9, Verse 16

तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महाहवे

अथ तौ सायकैस्तीक्ष्णैश्छादयामास दुःसहैः

Mahabharata

Karna Parva, Adhyaya 9, Verse 17

अथान्ये धनुषी मृष्टे प्रगृह्य च महाशरान्

सात्यकिं पूरयन्तौ तौ चेरतुर्लघु सुष्ठु च

Mahabharata

Karna Parva, Adhyaya 9, Verse 18

ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः

द्योतयन्तो दिशः सर्वाः संपेतुः स्वर्णभूषणाः

Mahabharata

Karna Parva, Adhyaya 9, Verse 19

बाणान्धकारमभवत्तयो राजन्महाहवे

अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः

Mahabharata

Karna Parva, Adhyaya 9, Verse 20

ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः

धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे

क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरोऽहरत्

Mahabharata

Karna Parva, Adhyaya 9, Verse 21

तच्छिरो न्यपतद्भूमौ कुण्डलोत्पीडितं महत्

शम्बरस्य शिरो यद्वन्निहतस्य महारणे

शोषयन्केकयान्सर्वाञ्जगामाशु वसुंधराम्

Mahabharata

Karna Parva, Adhyaya 9, Verse 22

तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः

सज्यमन्यद्धनुः कृत्वा शैनेयं प्रत्यवारयत्

Mahabharata

Karna Parva, Adhyaya 9, Verse 23

स शक्त्या सात्यकिं विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः

ननाद बलवन्नादं तिष्ठ तिष्ठेति चाब्रवीत्

Mahabharata

Karna Parva, Adhyaya 9, Verse 24

स सात्यकिं पुनः क्रुद्धः केकयानां महारथः

शरैरग्निशिखाकारैर्बाह्वोरुरसि चार्दयत्

Mahabharata

Karna Parva, Adhyaya 9, Verse 25

स शरैः क्षतसर्वाङ्गः सात्वतः सत्त्वकोविदः

रराज समरे राजन्सपत्र इव किंशुकः

Mahabharata

Karna Parva, Adhyaya 9, Verse 26

सात्यकिः समरे विद्धः केकयेन महात्मना

केकयं पञ्चविंशत्या विव्याध प्रहसन्निव

Mahabharata

Karna Parva, Adhyaya 9, Verse 27

शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तु तौ

व्यरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ

यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ

Mahabharata

Karna Parva, Adhyaya 9, Verse 28

मण्डलानि ततस्तौ च विचरन्तौ महारणे

अन्योन्यमसिभिस्तूर्णं समाजघ्नतुराहवे

Mahabharata

Karna Parva, Adhyaya 9, Verse 29

केकयस्य ततश्चर्म द्विधा चिच्छेद सात्वतः

सात्यकेश्च तथैवासौ चर्म चिच्छेद पार्थिवः

Mahabharata

Karna Parva, Adhyaya 9, Verse 30

चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम्

चचार मण्डलान्येव गतप्रत्यागतानि च