Mahabharata

Karna Parva, Adhyaya 8

Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 8, Verse 1

ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे

बृहत्यौ संप्रजह्राते देवासुरचमूपमे

Mahabharata

Karna Parva, Adhyaya 8, Verse 2

ततो गजा रथाश्चाश्वाः पत्तयश्च महाहवे

संप्रहारं परं चक्रुर्देहपाप्मप्रणाशनम्

Mahabharata

Karna Parva, Adhyaya 8, Verse 3

पूर्णचन्द्रार्कपद्मानां कान्तित्विड्गन्धतः समैः

उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम्

Mahabharata

Karna Parva, Adhyaya 8, Verse 4

अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टिशैः

परश्वधैश्चाप्यकृन्तन्नुत्तमाङ्गानि युध्यताम्

Mahabharata

Karna Parva, Adhyaya 8, Verse 5

व्यायतायतबाहूनां व्यायतायतबाहुभिः

व्यायता बाहवः पेतुश्छिन्नमुष्ट्यायुधाङ्गदाः

Mahabharata

Karna Parva, Adhyaya 8, Verse 6

तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तदा

गरुडप्रहतैरुग्रैः पञ्चास्यैरिव पन्नगैः

Mahabharata

Karna Parva, Adhyaya 8, Verse 7

हयस्यन्दननागेभ्यः पेतुर्वीरा द्विषद्धताः

विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गसदस्तथा

Mahabharata

Karna Parva, Adhyaya 8, Verse 8

गदाभिरन्यैर्गुर्वीभिः परिघैर्मुसलैरपि

पोथिताः शतशः पेतुर्वीरा वीरतरै रणे

Mahabharata

Karna Parva, Adhyaya 8, Verse 9

रथा रथैर्विनिहता मत्ता मत्तैर्द्विपैर्द्विपाः

सादिनः सादिभिश्चैव तस्मिन्परमसंकुले

Mahabharata

Karna Parva, Adhyaya 8, Verse 10

रथा वररथैर्नागैरश्वारोहाश्च पत्तिभिः

अश्वारोहैः पदाताश्च निहता युधि शेरते

Mahabharata

Karna Parva, Adhyaya 8, Verse 11

रथाश्वपत्तयो नागै रथैर्नागाश्च पत्तयः

रथपत्तिद्विपाश्चाश्वैर्नृभिश्चाश्वरथद्विपाः

Mahabharata

Karna Parva, Adhyaya 8, Verse 12

रथाश्वेभनराणां च नराश्वेभरथैः कृतम्

पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत्

Mahabharata

Karna Parva, Adhyaya 8, Verse 13

तथा तस्मिन्बले शूरैर्वध्यमाने हतेऽपि च

अस्मानभ्यागमन्पार्था वृकोदरपुरोगमाः

Mahabharata

Karna Parva, Adhyaya 8, Verse 14

धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः

सात्यकिश्चेकितानश्च द्रविडैः सैनिकैः सह

Mahabharata

Karna Parva, Adhyaya 8, Verse 15

भृता वित्तेन महता पाण्ड्याश्चौड्राः सकेरलाः

व्यूढोरस्का दीर्घभुजाः प्रांशवः प्रियदर्शनाः

Mahabharata

Karna Parva, Adhyaya 8, Verse 16

आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः

नानाविरागवसना गन्धचूर्णावचूर्णिताः

Mahabharata

Karna Parva, Adhyaya 8, Verse 17

बद्धासयः पाशहस्ता वारणप्रतिवारणाः

समानमृत्यवो राजन्ननीकस्थाः परस्परम्

Mahabharata

Karna Parva, Adhyaya 8, Verse 18

कलापिनश्चापहस्ता दीर्घकेशाः प्रियाहवाः

पत्तयः सात्यकेरन्ध्रा घोररूपपराक्रमाः

Mahabharata

Karna Parva, Adhyaya 8, Verse 19

अथापरे पुनः शूराश्चेदिपाञ्चालकेकयाः

करूषाः कोसलाः काश्या मागधाश्चापि दुद्रुवुः

Mahabharata

Karna Parva, Adhyaya 8, Verse 20

तेषां रथाश्च नागाश्च प्रवराश्चापि पत्तयः

नानाविधरवैर्हृष्टा नृत्यन्ति च हसन्ति च

Mahabharata

Karna Parva, Adhyaya 8, Verse 21

तस्य सैन्यस्य महतो महामात्रवरैर्वृतः

मध्यं वृकोदरोऽभ्यागात्त्वदीयं नागधूर्गतः

Mahabharata

Karna Parva, Adhyaya 8, Verse 22

स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो बभौ

उदयाद्र्यग्र्यभवनं यथाभ्युदितभास्करम्

Mahabharata

Karna Parva, Adhyaya 8, Verse 23

तस्यायसं वर्मवरं वररत्नविभूषितम्

तारोद्भासस्य नभसः शारदस्य समत्विषम्

Mahabharata

Karna Parva, Adhyaya 8, Verse 24

स तोमरप्रासकरश्चारुमौलिः स्वलंकृतः

चरन्मध्यंदिनार्काभस्तेजसा व्यदहद्रिपून्

Mahabharata

Karna Parva, Adhyaya 8, Verse 25

तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थितः

आह्वयानोऽभिदुद्राव प्रमनाः प्रमनस्तरम्

Mahabharata

Karna Parva, Adhyaya 8, Verse 26

तयोः समभवद्युद्धं द्विपयोरुग्ररूपयोः

यदृच्छया द्रुमवतोर्महापर्वतयोरिव

Mahabharata

Karna Parva, Adhyaya 8, Verse 27

संसक्तनागौ तौ वीरौ तोमरैरितरेतरम्

बलवत्सूर्यरश्म्याभैर्भित्त्वा भित्त्वा विनेदतुः

Mahabharata

Karna Parva, Adhyaya 8, Verse 28

व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः

प्रगृह्य चैव धनुषी जघ्नतुर्वै परस्परम्

Mahabharata

Karna Parva, Adhyaya 8, Verse 29

क्ष्वेडितास्फोटितरवैर्बाणशब्दैश्च सर्वशः

तौ जनान्हर्षयित्वा च सिंहनादान्प्रचक्रतुः

Mahabharata

Karna Parva, Adhyaya 8, Verse 30

समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ

वातोद्धूतपताकाभ्यां युयुधाते महाबलौ