Karna Parva, Adhyaya 7, Verse 1
सेनापत्यं तु संप्राप्य कर्णो वैकर्तनस्तदा
तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
सेनापत्यं तु संप्राप्य कर्णो वैकर्तनस्तदा
तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः
योगमाज्ञाप्य सेनाया आदित्येऽभ्युदिते तदा
अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व संजय
कर्णस्य मतमाज्ञाय पुत्रस्ते भरतर्षभ
योगमाज्ञापयामास नान्दीतूर्यपुरःसरम्
महत्यपररात्रे तु तव पुत्रस्य मारिष
योगो योगेति सहसा प्रादुरासीन्महास्वनः
नागानां कल्पमानानां रथानां च वरूथिनाम्
संनह्यतां पदातीनां वाजिनां च विशां पते
क्रोशतां चापि योधानां त्वरितानां परस्परम्
बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्तदा
ततः श्वेतपताकेन बालार्काकारवाजिना
हेमपृष्ठेन धनुषा हस्तिकक्ष्येण केतुना
तूणेन शरपूर्णेन साङ्गदेन वरूथिना
शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा
कार्मुकेणोपपन्नेन विमलादित्यवर्चसा
रथेनातिपताकेन सूतपुत्रो व्यदृश्यत
धमन्तं वारिजं तात हेमजालविभूषितम्
विधुन्वानं महच्चापं कार्तस्वरविभूषितम्
दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम्
भानुमन्तमिवोद्यन्तं तमो घ्नन्तं सहस्रशः
न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष
नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः
ततस्तु त्वरयन्योधाञ्शङ्खशब्देन मारिष
कर्णो निष्कासयामास कौरवाणां वरूथिनीम्
व्यूहं व्यूह्य महेष्वासो माकरं शत्रुतापनः
प्रत्युद्ययौ तदा कर्णः पाण्डवान्विजिगीषया
मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः
नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः
द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः
मध्ये दुर्योधनो राजा बलेन महता वृतः
वामे पादे तु राजेन्द्र कृतवर्मा व्यवस्थितः
नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदः
पादे तु दक्षिणे राजन्गौतमः सत्यविक्रमः
त्रिगर्तैश्च महेष्वासैर्दाक्षिणात्यैश्च संवृतः
अनुपादस्तु यो वामस्तत्र शल्यो व्यवस्थितः
महत्या सेनया सार्धं मद्रदेशसमुत्थया
दक्षिणे तु महाराज सुषेणः सत्यसंगरः
वृतो रथसहस्रैश्च दन्तिनां च शतैस्तथा
पुच्छे आस्तां महावीरौ भ्रातरौ पार्थिवौ तदा
चित्रसेनश्च चित्रश्च महत्या सेनया वृतौ
ततः प्रयाते राजेन्द्र कर्णे नरवरोत्तमे
धनंजयमभिप्रेक्ष्य धर्मराजोऽब्रवीदिदम्
पश्य पार्थ महासेनां धार्तराष्ट्रस्य संयुगे
कर्णेन निर्मितां वीर गुप्तां वीरैर्महारथैः
हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः
फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम
एको ह्यत्र महेष्वासः सूतपुत्रो व्यवस्थितः
सदेवासुरगन्धर्वैः सकिंनरमहोरगैः
चराचरैस्त्रिभिर्लोकैर्योऽजय्यो रथिनां वरः
तं हत्वाद्य महाबाहो विजयस्तव फल्गुन
उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः
एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि
भ्रातुस्तद्वचनं श्रुत्वा पाण्डवः श्वेतवाहनः
अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम्
वामपार्श्वेऽभवद्राजन्भीमसेनो व्यवस्थितः
दक्षिणे च महेष्वासो धृष्टद्युम्नो महाबलः
मध्ये व्यूहस्य साक्षात्तु पाण्डवः कृष्णसारथिः
नकुलः सहदेवश्च धर्मराजश्च पृष्ठतः
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ
नार्जुनं जहतुर्युद्धे पाल्यमानौ किरीटिना