Karna Parva, Adhyaya 6, Verse 1
हते द्रोणे महेष्वासे तस्मिन्नहनि भारत
कृते च मोघसंकल्पे द्रोणपुत्रे महारथे
Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.
हते द्रोणे महेष्वासे तस्मिन्नहनि भारत
कृते च मोघसंकल्पे द्रोणपुत्रे महारथे
द्रवमाणे महाराज कौरवाणां बले तथा
व्यूह्य पार्थः स्वकं सैन्यमतिष्ठद्भ्रातृभिः सह
तमवस्थितमाज्ञाय पुत्रस्ते भरतर्षभ
द्रवच्च स्वबलं दृष्ट्वा पौरुषेण न्यवारयत्
स्वमनीकमवस्थाप्य बाहुवीर्ये व्यवस्थितः
युद्ध्वा च सुचिरं कालं पाण्डवैः सह भारत
लब्धलक्षैः परैर्हृष्टैर्व्यायच्छद्भिश्चिरं तदा
संध्याकालं समासाद्य प्रत्याहारमकारयत्
कृत्वावहारं सैन्यानां प्रविश्य शिबिरं स्वकम्
कुरवोऽऽत्महितं मन्त्रं मन्त्रयां चक्रिरे तदा
पर्यङ्केषु परार्ध्येषु स्पर्ध्यास्तरणवत्सु च
वरासनेषूपविष्टाः सुखशय्यास्विवामराः
ततो दुर्योधनो राजा साम्ना परमवल्गुना
तानाभाष्य महेष्वासान्प्राप्तकालमभाषत
मतिं मतिमतां श्रेष्ठाः सर्वे प्रब्रूत माचिरम्
एवं गते तु यत्कार्यं भवेत्कार्यकरं नृपाः
एवमुक्ते नरेन्द्रेण नरसिंहा युयुत्सवः
चक्रुर्नानाविधाश्चेष्टाः सिंहासनगतास्तदा
तेषां निशम्येङ्गितानि युद्धे प्राणाञ्जुहूषताम्
समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसः
आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यमाददे
रागो योगस्तथा दाक्ष्यं नयश्चेत्यर्थसाधकाः
उपायाः पण्डितैः प्रोक्ताः सर्वे दैवसमाश्रिताः
लोकप्रवीरा येऽस्माकं देवकल्पा महारथाः
नीतिमन्तस्तथा युक्ता दक्षा रक्ताश्च ते हताः
न त्वेव कार्यं नैराश्यमस्माभिर्विजयं प्रति
सुनीतैरिह सर्वार्थैर्दैवमप्यनुलोम्यते
ते वयं प्रवरं नॄणां सर्वैर्गुणगणैर्युतम्
कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून्
ततो दुर्योधनः प्रीतः प्रियं श्रुत्वा वचस्तदा
प्रीतिसंस्कारसंयुक्तं तथ्यमात्महितं शुभम्
स्वं मनः समवस्थाप्य बाहुवीर्यमुपाश्रितः
दुर्योधनो महाराज राधेयमिदमब्रवीत्
कर्ण जानामि ते वीर्यं सौहृदं च परं मयि
तथापि त्वां महाबाहो प्रवक्ष्यामि हितं वचः
श्रुत्वा यथेष्टं च कुरु वीर यत्तव रोचते
भवान्प्राज्ञतमो नित्यं मम चैव परा गतिः
भीष्मद्रोणावतिरथौ हतौ सेनापती मम
सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः
वृद्धौ च तौ महेष्वासौ सापेक्षौ च धनंजये
मानितौ च मया वीरौ राधेय वचनात्तव
पितामहत्वं संप्रेक्ष्य पाण्डुपुत्रा महारणे
रक्षितास्तात भीष्मेण दिवसानि दशैव ह
न्यस्तशस्त्रे च भवति हतो भीष्मः पितामहः
शिखण्डिनं पुरस्कृत्य फल्गुनेन महाहवे
हते तस्मिन्महाभागे शरतल्पगते तदा
त्वयोक्ते पुरुषव्याघ्र द्रोणो ह्यासीत्पुरःसरः
तेनापि रक्षिताः पार्थाः शिष्यत्वादिह संयुगे
स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम्
निहताभ्यां प्रधानाभ्यां ताभ्याममितविक्रम
त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन्
भवानेव तु नः शक्तो विजयाय न संशयः
पूर्वं मध्ये च पश्चाच्च तवैव विदितं हि तत्
स भवान्धुर्यवत्संख्ये धुरमुद्वोढुमर्हसि
अभिषेचय सेनान्ये स्वयमात्मानमात्मना
देवतानां यथा स्कन्दः सेनानीः प्रभुरव्ययः
तथा भवानिमां सेनां धार्तराष्ट्रीं बिभर्तु मे
जहि शत्रुगणान्सर्वान्महेन्द्र इव दानवान्
अवस्थितं रणे ज्ञात्वा पाण्डवास्त्वां महारथम्
द्रविष्यन्ति सपाञ्चाला विष्णुं दृष्ट्वेव दानवाः
तस्मात्त्वं पुरुषव्याघ्र प्रकर्षेथा महाचमूम्