Mahabharata

Karna Parva, Adhyaya 3

Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Karna Parva, Adhyaya 3, Verse 1

एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः

शोकस्यान्तमपश्यन्वै हतं मत्वा सुयोधनम्

विह्वलः पतितो भूमौ नष्टचेता इव द्विपः

Mahabharata

Karna Parva, Adhyaya 3, Verse 2

तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे

आर्तनादो महानासीत्स्त्रीणां भरतसत्तम

Mahabharata

Karna Parva, Adhyaya 3, Verse 3

स शब्दः पृथिवीं सर्वां पूरयामास सर्वशः

शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः

Mahabharata

Karna Parva, Adhyaya 3, Verse 4

राजानं च समासाद्य गान्धारी भरतर्षभ

निःसंज्ञा पतिता भूमौ सर्वाण्यन्तःपुराणि च

Mahabharata

Karna Parva, Adhyaya 3, Verse 5

ततस्ताः संजयो राजन्समाश्वासयदातुराः

मुह्यमानाः सुबहुशो मुञ्चन्त्यो वारि नेत्रजम्

Mahabharata

Karna Parva, Adhyaya 3, Verse 6

समाश्वस्ताः स्त्रियस्तास्तु वेपमाना मुहुर्मुहुः

कदल्य इव वातेन धूयमानाः समन्ततः

Mahabharata

Karna Parva, Adhyaya 3, Verse 7

राजानं विदुरश्चापि प्रज्ञाचक्षुषमीश्वरम्

आश्वासयामास तदा सिञ्चंस्तोयेन कौरवम्

Mahabharata

Karna Parva, Adhyaya 3, Verse 8

स लब्ध्वा शनकैः संज्ञां ताश्च दृष्ट्वा स्त्रियो नृप

उन्मत्त इव राजा स स्थितस्तूष्णीं विशां पते

Mahabharata

Karna Parva, Adhyaya 3, Verse 9

ततो ध्यात्वा चिरं कालं निःश्वसंश्च पुनः पुनः

स्वान्पुत्रान्गर्हयामास बहु मेने च पाण्डवान्

Mahabharata

Karna Parva, Adhyaya 3, Verse 10

गर्हयित्वात्मनो बुद्धिं शकुनेः सौबलस्य च

ध्यात्वा च सुचिरं कालं वेपमानो मुहुर्मुहुः

Mahabharata

Karna Parva, Adhyaya 3, Verse 11

संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः

पुनर्गावल्गणिं सूतं पर्यपृच्छत संजयम्

Mahabharata

Karna Parva, Adhyaya 3, Verse 12

यत्त्वया कथितं वाक्यं श्रुतं संजय तन्मया

कच्चिद्दुर्योधनः सूत न गतो वै यमक्षयम्

ब्रूहि संजय तत्त्वेन पुनरुक्तां कथामिमाम्

Mahabharata

Karna Parva, Adhyaya 3, Verse 13

एवमुक्तोऽब्रवीत्सूतो राजानं जनमेजय

हतो वैकर्तनो राजन्सह पुत्रैर्महारथैः

भ्रातृभिश्च महेष्वासैः सूतपुत्रैस्तनुत्यजैः

Mahabharata

Karna Parva, Adhyaya 3, Verse 14

दुःशासनश्च निहतः पाण्डवेन यशस्विना

पीतं च रुधिरं कोपाद्भीमसेनेन संयुगे