Karna Parva, Adhyaya 2, Verse 1
हते द्रोणे महेष्वासे तव पुत्रा महारथाः
बभूवुराश्वस्तमुखा विषण्णा गतचेतसः
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
हते द्रोणे महेष्वासे तव पुत्रा महारथाः
बभूवुराश्वस्तमुखा विषण्णा गतचेतसः
अवाङ्मुखाः शस्त्रभृतः सर्व एव विशां पते
अप्रेक्षमाणाः शोकार्ता नाभ्यभाषन्परस्परम्
तान्दृष्ट्वा व्यथिताकारान्सैन्यानि तव भारत
ऊर्ध्वमेवाभ्यवेक्षन्त दुःखत्रस्तान्यनेकशः
शस्त्राण्येषां च राजेन्द्र शोणिताक्तान्यशेषतः
प्राभ्रश्यन्त कराग्रेभ्यो दृष्ट्वा द्रोणं निपातितम्
तानि बद्धान्यनिष्टानि लम्बमानानि भारत
अदृश्यन्त महाराज नक्षत्राणि यथा दिवि
तथार्तं स्तिमितं दृष्ट्वा गतसत्त्वमिव स्थितम्
स्वं बलं तन्महाराज राजा दुर्योधनोऽब्रवीत्
भवतां बाहुवीर्यं हि समाश्रित्य मया युधि
पाण्डवेयाः समाहूता युद्धं चेदं प्रवर्तितम्
तदिदं निहते द्रोणे विषण्णमिव लक्ष्यते
युध्यमानाश्च समरे योधा वध्यन्ति सर्वतः
जयो वापि वधो वापि युध्यमानस्य संयुगे
भवेत्किमत्र चित्रं वै युध्यध्वं सर्वतोमुखाः
पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि
प्रचरन्तं महेष्वासं दिव्यैरस्त्रैर्महाबलम्
यस्य वै युधि संत्रासात्कुन्तीपुत्रो धनंजयः
निवर्तते सदामर्षात्सिंहात्क्षुद्रमृगो यथा
येन नागायुतप्राणो भीमसेनो महाबलः
मानुषेणैव युद्धेन तामवस्थां प्रवेशितः
येन दिव्यास्त्रविच्छूरो मायावी स घटोत्कचः
अमोघया रणे शक्त्या निहतो भैरवं नदन्
तस्य दुष्पारवीर्यस्य सत्यसंधस्य धीमतः
बाह्वोर्द्रविणमक्षय्यमद्य द्रक्ष्यथ संयुगे
द्रोणपुत्रस्य विक्रान्तं राधेयस्यैव चोभयोः
पाण्डुपाञ्चालसैन्येषु द्रक्ष्यथापि महात्मनोः
सर्व एव भवन्तश्च शूराः प्राज्ञाः कुलोद्गताः
शीलवन्तः कृतास्त्राश्च द्रक्ष्यथाद्य परस्परम्
एवमुक्ते महाराज कर्णो वैकर्तनो नृपः
सिंहनादं विनद्योच्चैः प्रायुध्यत महाबलः
स सृञ्जयानां सर्वेषां पाञ्चालानां च पश्यताम्
केकयानां विदेहानामकरोत्कदनं महत्
तस्येषुधाराः शतशः प्रादुरासञ्शरासनात्
अग्रे पुङ्खे च संसक्ता यथा भ्रमरपङ्क्तयः
स पीडयित्वा पाञ्चालान्पाण्डवांश्च तरस्विनः
हत्वा सहस्रशो योधानर्जुनेन निपातितः