Mahabharata

Drona Parva, Adhyaya 162

Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 162, Verse 1

ते तथैव महाराज दंशिता रणमूर्धनि

संध्यागतं सहस्रांशुमादित्यमुपतस्थिरे

Mahabharata

Drona Parva, Adhyaya 162, Verse 2

उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे

प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत

Mahabharata

Drona Parva, Adhyaya 162, Verse 3

द्वंद्वानि यानि तत्रासन्संसक्तानि पुरोदयात्

तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत

Mahabharata

Drona Parva, Adhyaya 162, Verse 4

रथैर्हया हयैर्नागाः पादाताश्चापि कुञ्जरैः

हया हयैः समाजग्मुः पादाताश्च पदातिभिः

संसक्ताश्च वियुक्ताश्च योधाः संन्यपतन्रणे

Mahabharata

Drona Parva, Adhyaya 162, Verse 5

ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा

क्षुत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन्

Mahabharata

Drona Parva, Adhyaya 162, Verse 6

शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम्

विस्फारितविकृष्टानां कार्मुकाणां च कूजताम्

Mahabharata

Drona Parva, Adhyaya 162, Verse 7

शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ

द्रवतां च पदातीनां शस्त्राणां विनिपात्यताम्

Mahabharata

Drona Parva, Adhyaya 162, Verse 8

हयानां हेषतां चैव रथानां च निवर्तताम्

क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत्

Mahabharata

Drona Parva, Adhyaya 162, Verse 9

विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महास्वनः

नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः

Mahabharata

Drona Parva, Adhyaya 162, Verse 10

भूमावश्रूयत महांस्तदासीत्कृपणं महत्

पततां पतितानां च पत्त्यश्वरथहस्तिनाम्

Mahabharata

Drona Parva, Adhyaya 162, Verse 11

तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः

स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वे परांश्च परान्परे

Mahabharata

Drona Parva, Adhyaya 162, Verse 12

वीरबाहुविसृष्टाश्च योधेषु च गजेषु च

असयः प्रत्यदृश्यन्त वाससां नेजनेष्विव

Mahabharata

Drona Parva, Adhyaya 162, Verse 13

उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः

स एव शब्दस्तद्रूपो वाससां निज्यतामिव

Mahabharata

Drona Parva, Adhyaya 162, Verse 14

अर्धासिभिस्तथा खड्गैस्तोमरैः सपरश्वधैः

निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम्

Mahabharata

Drona Parva, Adhyaya 162, Verse 15

गजाश्वकायप्रभवां नरदेहप्रवाहिनीम्

शस्त्रमत्स्यसुसंपूर्णां मांसशोणितकर्दमाम्

Mahabharata

Drona Parva, Adhyaya 162, Verse 16

आर्तनादस्वनवतीं पताकावस्त्रफेनिलाम्

नदीं प्रावर्तयन्वीराः परलोकप्रवाहिनीम्

Mahabharata

Drona Parva, Adhyaya 162, Verse 17

शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः

विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः

संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः

Mahabharata

Drona Parva, Adhyaya 162, Verse 18

युद्धोपकरणैश्चान्यैस्तत्र तत्र प्रकाशितैः

क्रव्यादसंघैराकीर्णं मृतैरर्धमृतैरपि

नासीद्रथपथस्तत्र सर्वमायोधनं प्रति

Mahabharata

Drona Parva, Adhyaya 162, Verse 19

मज्जत्सु चक्रेषु रथान्सत्त्वमास्थाय वाजिनः

कथंचिदवहञ्श्रान्ता वेपमानाः शरार्दिताः

कुलसत्त्वबलोपेता वाजिनो वारणोपमाः

Mahabharata

Drona Parva, Adhyaya 162, Verse 20

विह्वलं तत्समुद्भ्रान्तं सभयं भारतातुरम्

बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ

Mahabharata

Drona Parva, Adhyaya 162, Verse 21

तावेवास्तां निलयनं तावार्तायनमेव च

तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम्

Mahabharata

Drona Parva, Adhyaya 162, Verse 22

आविग्नमभवत्सर्वं कौरवाणां महद्बलम्

पाञ्चालानां च संसक्तं न प्राज्ञायत किंचन

Mahabharata

Drona Parva, Adhyaya 162, Verse 23

अन्तकाक्रीडसदृशे भीरूणां भयवर्धने

पृथिव्यां राजवंशानामुत्थिते महति क्षये

Mahabharata

Drona Parva, Adhyaya 162, Verse 24

न तत्र कर्णं न द्रोणं नार्जुनं न युधिष्ठिरम्

न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम्

Mahabharata

Drona Parva, Adhyaya 162, Verse 25

न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ

न कृपं मद्रराजं वा कृतवर्माणमेव च

Mahabharata

Drona Parva, Adhyaya 162, Verse 26

न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा

पश्याम राजन्संसक्तान्सैन्येन रजसावृतान्

Mahabharata

Drona Parva, Adhyaya 162, Verse 27

संभ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते

द्वितीयामिव संप्राप्ताममन्यन्त निशां तदा

Mahabharata

Drona Parva, Adhyaya 162, Verse 28

न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः

न दिशो न दिवं नोर्वीं न समं विषमं तथा

Mahabharata

Drona Parva, Adhyaya 162, Verse 29

हस्तसंस्पर्शमापन्नान्परान्वाप्यथ वा स्वकान्

न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः

Mahabharata

Drona Parva, Adhyaya 162, Verse 30

उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च

प्रशशाम रजो भौमं शीघ्रत्वादनिलस्य च