Mahabharata

Drona Parva, Adhyaya 161

Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 161, Verse 1

त्रिभागमात्रशेषायां रात्र्यां युद्धमवर्तत

कुरूणां पाण्डवानां च संहृष्टानां विशां पते

Mahabharata

Drona Parva, Adhyaya 161, Verse 2

अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः

अरुणोऽभ्युदयां चक्रे ताम्रीकुर्वन्निवाम्बरम्

Mahabharata

Drona Parva, Adhyaya 161, Verse 3

ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान्

अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमः

Mahabharata

Drona Parva, Adhyaya 161, Verse 4

द्वैधीभूतान्कुरून्दृष्ट्वा माधवोऽर्जुनमब्रवीत्

सपत्नान्सव्यतः कुर्मि सव्यसाचिन्निमान्कुरून्

Mahabharata

Drona Parva, Adhyaya 161, Verse 5

स माधवमनुज्ञाय कुरुष्वेति धनंजयः

द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत

Mahabharata

Drona Parva, Adhyaya 161, Verse 6

अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरंजयः

आजिशीर्षगतं दृष्ट्वा भीमसेनं समासदत्

Mahabharata

Drona Parva, Adhyaya 161, Verse 7

अर्जुनार्जुन बीभत्सो शृणु मे तत्त्वतो वचः

यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः

Mahabharata

Drona Parva, Adhyaya 161, Verse 8

अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे

असंभावितरूपः सन्नानृशंस्यं करिष्यसि

Mahabharata

Drona Parva, Adhyaya 161, Verse 9

सत्यश्रीधर्मयशसां वीर्येणानृण्यमाप्नुहि

भिन्ध्यनीकं युधां श्रेष्ठ सव्यसाचिन्निमान्कुरु

Mahabharata

Drona Parva, Adhyaya 161, Verse 10

स सव्यसाची भीमेन चोदितः केशवेन च

कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत्

Mahabharata

Drona Parva, Adhyaya 161, Verse 11

तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान्

पराक्रान्तं पराक्रम्य यतन्तः क्षत्रियर्षभाः

नाशक्नुवन्वारयितुं वर्धमानमिवानलम्

Mahabharata

Drona Parva, Adhyaya 161, Verse 12

अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः

अभ्यवर्षञ्शरव्रातैः कुन्तीपुत्रं धनंजयम्

Mahabharata

Drona Parva, Adhyaya 161, Verse 13

तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः

कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत्

Mahabharata

Drona Parva, Adhyaya 161, Verse 14

अस्त्रैरस्त्राणि संवार्य लघुहस्तो धनंजयः

सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः

Mahabharata

Drona Parva, Adhyaya 161, Verse 15

उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च

तमश्च घोरं शब्दश्च तदा समभवन्महान्

Mahabharata

Drona Parva, Adhyaya 161, Verse 16

न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथा गते

सैन्येन रजसा मूढं सर्वमन्धमिवाभवत्

Mahabharata

Drona Parva, Adhyaya 161, Verse 17

नैव ते न वयं राजन्प्रज्ञासिष्म परस्परम्

उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः

Mahabharata

Drona Parva, Adhyaya 161, Verse 18

विरथा रथिनो राजन्समासाद्य परस्परम्

केशेषु समसज्जन्त कवचेषु भुजेषु च

Mahabharata

Drona Parva, Adhyaya 161, Verse 19

हताश्वा हतसूताश्च निश्चेष्टा रथिनस्तदा

जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः

Mahabharata

Drona Parva, Adhyaya 161, Verse 20

हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः

गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः

Mahabharata

Drona Parva, Adhyaya 161, Verse 21

ततस्त्वभ्यवसृत्यैव संग्रामादुत्तरां दिशम्

अतिष्ठदाहवे द्रोणो विधूम इव पावकः

Mahabharata

Drona Parva, Adhyaya 161, Verse 22

तमाजिशीर्षादेकान्तमपक्रान्तं निशाम्य तु

समकम्पन्त सैन्यानि पाण्डवानां विशां पते

Mahabharata

Drona Parva, Adhyaya 161, Verse 23

भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा

द्रोणं दृष्ट्वारयस्त्रेसुश्चेलुर्मम्लुश्च मारिष

Mahabharata

Drona Parva, Adhyaya 161, Verse 24

आह्वयन्तं परानीकं प्रभिन्नमिव वारणम्

नैनं शशंसिरे जेतुं दानवा वासवं यथा

Mahabharata

Drona Parva, Adhyaya 161, Verse 25

केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः

विस्मिताश्चाभवन्केचित्केचिदासन्नमर्षिताः

Mahabharata

Drona Parva, Adhyaya 161, Verse 26

हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नराधिपाः

अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः

Mahabharata

Drona Parva, Adhyaya 161, Verse 27

व्याक्षिपन्नायुधानन्ये ममृदुश्चापरे भुजान्

अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः

Mahabharata

Drona Parva, Adhyaya 161, Verse 28

पाञ्चालास्तु विशेषेण द्रोणसायकपीडिताः

समसज्जन्त राजेन्द्र समरे भृशवेदनाः

Mahabharata

Drona Parva, Adhyaya 161, Verse 29

ततो विराटद्रुपदौ द्रोणं प्रतिययू रणे

तथा चरन्तं संग्रामे भृशं समरदुर्जयम्

Mahabharata

Drona Parva, Adhyaya 161, Verse 30

द्रुपदस्य ततः पौत्रास्त्रय एव विशां पते

चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि