Mahabharata

Drona Parva, Adhyaya 159

Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 159, Verse 1

घटोत्कचे तु निहते सूतपुत्रेण तां निशाम्

दुःखामर्षवशं प्राप्तो धर्मपुत्रो युधिष्ठिरः

Mahabharata

Drona Parva, Adhyaya 159, Verse 2

दृष्ट्व भीमेन महतीं वार्यमाणां चमूं तव

धृष्टद्युम्नमुवाचेदं कुम्भयोनिं निवारय

Mahabharata

Drona Parva, Adhyaya 159, Verse 3

त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात्

सशरः कवची खड्गी धन्वी च परतापनः

अभिद्रव रणे हृष्टो न च ते भीः कथंचन

Mahabharata

Drona Parva, Adhyaya 159, Verse 4

जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधनः

अभिद्रवन्तु संहृष्टाः कुम्भयोनिं समन्ततः

Mahabharata

Drona Parva, Adhyaya 159, Verse 5

नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः

द्रुपदश्च विराटश्च पुत्रभ्रातृसमन्वितौ

Mahabharata

Drona Parva, Adhyaya 159, Verse 6

सात्यकिः केकयाश्चैव पाण्डवश्च धनंजयः

अभिद्रवन्तु वेगेन भारद्वाजवधेप्सया

Mahabharata

Drona Parva, Adhyaya 159, Verse 7

तथैव रथिनः सर्वे हस्त्यश्वं यच्च किंचन

पादाताश्च रणे द्रोणं प्रापयन्तु महारथम्

Mahabharata

Drona Parva, Adhyaya 159, Verse 8

तथाज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना

अभ्यद्रवन्त वेगेन कुम्भयोनिं युयुत्सया

Mahabharata

Drona Parva, Adhyaya 159, Verse 9

आगच्छतस्तान्सहसा सर्वोद्योगेन पाण्डवान्

प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः

Mahabharata

Drona Parva, Adhyaya 159, Verse 10

ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान्

अभ्यद्रवत्सुसंक्रुद्ध इच्छन्द्रोणस्य जीवितम्

Mahabharata

Drona Parva, Adhyaya 159, Verse 11

ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम्

पाण्डवानां कुरूणां च गर्जतामितरेतरम्

Mahabharata

Drona Parva, Adhyaya 159, Verse 12

निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे

नाभ्यपद्यन्त समरे कांचिच्चेष्टां महारथाः

Mahabharata

Drona Parva, Adhyaya 159, Verse 13

त्रियामा रजनी चैषा घोररूपा भयानका

सहस्रयामप्रतिमा बभूव प्राणहारिणी

वध्यतां च तथा तेषां क्षतानां च विशेषतः

Mahabharata

Drona Parva, Adhyaya 159, Verse 14

अहो रात्रिः समाजज्ञे निद्रान्धानां विशेषतः

सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः

तव चैव परेषां च गतास्त्रा विगतेषवः

Mahabharata

Drona Parva, Adhyaya 159, Verse 15

ते तथा पारयन्तश्च ह्रीमन्तश्च विशेषतः

स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम्

Mahabharata

Drona Parva, Adhyaya 159, Verse 16

शस्त्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः

गजेष्वन्ये रथेष्वन्ये हयेष्वन्ये च भारत

Mahabharata

Drona Parva, Adhyaya 159, Verse 17

निद्रान्धा नो बुबुधिरे कांचिच्चेष्टां नराधिपाः

तेऽन्योन्यं समरे योधाः प्रेषयन्त यमक्षयम्

Mahabharata

Drona Parva, Adhyaya 159, Verse 18

स्वप्नायमानास्त्वपरे परानिति विचेतसः

आत्मानं समरे जघ्नुः स्वानेव च परानपि

Mahabharata

Drona Parva, Adhyaya 159, Verse 19

नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे

योद्धव्यमिति तिष्ठन्तो निद्रासंसक्तलोचनाः

Mahabharata

Drona Parva, Adhyaya 159, Verse 20

संमर्द्यान्ये रणे केचिन्निद्रान्धाश्च परस्परम्

जघ्नुः शूरा रणे राजंस्तस्मिंस्तमसि दारुणे

Mahabharata

Drona Parva, Adhyaya 159, Verse 21

हन्यमानं तथात्मानं परेभ्यो बहवो जनाः

नाभ्यजानन्त समरे निद्रया मोहिता भृशम्

Mahabharata

Drona Parva, Adhyaya 159, Verse 22

तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः

उवाच वाक्यं बीभत्सुरुच्चैः संनादयन्दिशः

Mahabharata

Drona Parva, Adhyaya 159, Verse 23

श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः

तमसा चावृते सैन्ये रजसा बहुलेन च

Mahabharata

Drona Parva, Adhyaya 159, Verse 24

ते यूयं यदि मन्यध्वमुपारमत सैनिकाः

निमीलयत चात्रैव रणभूमौ मुहूर्तकम्

Mahabharata

Drona Parva, Adhyaya 159, Verse 25

ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः

संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः

Mahabharata

Drona Parva, Adhyaya 159, Verse 26

तद्वचः सर्वधर्मज्ञा धार्मिकस्य निशम्य ते

अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन्

Mahabharata

Drona Parva, Adhyaya 159, Verse 27

चुक्रुशुः कर्ण कर्णेति राजन्दुर्योधनेति च

उपारमत पाण्डूनां विरता हि वरूथिनी

Mahabharata

Drona Parva, Adhyaya 159, Verse 28

तथा विक्रोशमानस्य फल्गुनस्य ततस्ततः

उपारमत पाण्डूनां सेना तव च भारत

Mahabharata

Drona Parva, Adhyaya 159, Verse 29

तामस्य वाचं देवाश्च ऋषयश्च महात्मनः

सर्वसैन्यानि चाक्षुद्राः प्रहृष्टाः प्रत्यपूजयन्

Mahabharata

Drona Parva, Adhyaya 159, Verse 30

तत्संपूज्य वचोऽक्रूरं सर्वसैन्यानि भारत

मुहूर्तमस्वपन्राजञ्श्रान्तानि भरतर्षभ