Drona Parva, Adhyaya 157, Verse 1
एकवीरवधे मोघा शक्तिः सूतात्मजे यदा
कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान्
Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.
एकवीरवधे मोघा शक्तिः सूतात्मजे यदा
कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान्
तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः
एकवीरवधे कस्मान्न युद्धे जयमादधत्
आहूतो न निवर्तेयमिति तस्य महाव्रतम्
स्वयमाह्वयितव्यः स सूतपुत्रेण फल्गुनः
ततो द्वैरथमानीय फल्गुनं शक्रदत्तया
न जघान वृषा कस्मात्तन्ममाचक्ष्व संजय
नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः
शत्रुभिर्व्यंसितोपायः कथं नु स जयेदरीन्
या ह्यस्य परमा शक्तिर्जयस्य च परायणम्
सा शक्तिर्वासुदेवेन व्यंसितास्य घटोत्कचे
कुणेर्यथा हस्तगतं ह्रियेद्बिल्वं बलीयसा
तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे
यथा वराहस्य शुनश्च युध्यतो;स्तयोरभावे श्वपचस्य लाभः
मन्ये विद्वन्वासुदेवस्य तद्व;द्युद्धे लाभः कर्णहैडिम्बयोर्वै
घटोत्कचो यदि हन्याद्धि कर्णं; परो लाभः स भवेत्पाण्डवानाम्
वैकर्तनो वा यदि तं निहन्या;त्तथापि कृत्यं शक्तिनाशात्कृतं स्यात्
इति प्राज्ञः प्रज्ञयैतद्विचार्य; घटोत्कचं सूतपुत्रेण युद्धे
अयोधयद्वासुदेवो नृसिंहः; प्रियं कुर्वन्पाण्डवानां हितं च
एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप
नियोजयामास तदा द्वैरथे राक्षसेश्वरम्
घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः
अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव
तदैव कृतकार्या हि वयं स्याम कुरूद्वह
न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात्
साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद्भुवि
विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम्
तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिव
जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः
सविशेषं त्वमोघायाः कृष्णोऽरक्षत पाण्डवम्
हन्यात्क्षिप्ता हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः
विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः
यस्यैष समतिक्रान्तो वधोपायो जयं प्रति
तवापि समतिक्रान्तमेतद्गावल्गणे कथम्
एतमर्थं महाबुद्धे यत्त्वया नावबोधितः
दुर्योधनस्य शकुनेर्मम दुःशासनस्य च
रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना
श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनंजयम्
प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः
अथ वा निहते पार्थे पाण्डुष्वन्यतमं ततः
स्थापयेद्युधि वार्ष्णेयस्तस्मात्कृष्णो निपात्यताम्
कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः
शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसंज्ञिताः
कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः
कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः
तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज
कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा
हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम्
कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशयः
यदि हि स निहतः शयीत भूमौ; यदुकुलपाण्डवनन्दनो महात्मा
ननु तव वसुधा नरेन्द्र सर्वा; सगिरिसमुद्रवना वशं व्रजेत
सा तु बुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरे
अप्रमेये हृषीकेशे युद्धकाले व्यमुह्यत
अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः
न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे
अन्यांश्चास्मै रथोदारानुपस्थापयदच्युतः
अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो
ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः
पप्रच्छ रथशार्दूल कर्णं प्रति महारथम्