Mahabharata

Drona Parva, Adhyaya 156

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 156, Verse 1

कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन

जरासंधप्रभृतयो घातिताः पृथिवीष्वराः

Mahabharata

Drona Parva, Adhyaya 156, Verse 2

जरासंधश्चेदिराजो नैषादिश्च महाबलः

यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयंकराः

Mahabharata

Drona Parva, Adhyaya 156, Verse 3

सुयोधनस्तानवश्यं वृणुयाद्रथसत्तमान्

तेऽस्माभिर्नित्यसंदुष्टाः संश्रयेयुश्च कौरवान्

Mahabharata

Drona Parva, Adhyaya 156, Verse 4

ते हि वीरा महात्मानः कृतास्त्रा दृढयोधिनः

धार्तराष्ट्रीं चमूं कृत्स्नां रक्षेयुरमरा इव

Mahabharata

Drona Parva, Adhyaya 156, Verse 5

सूतपुत्रो जरासंधश्चेदिराजो निषादजः

सुयोधनं समाश्रित्य तपेरन्पृथिवीमिमाम्

Mahabharata

Drona Parva, Adhyaya 156, Verse 6

योगैरपि हता यैस्ते तान्मे शृणु धनंजय

अजय्या हि विना योगैर्मृधे ते दैवतैरपि

Mahabharata

Drona Parva, Adhyaya 156, Verse 7

एकैको हि पृथक्तेषां समस्तां सुरवाहिनीम्

योधयेत्समरे पार्थ लोकपालाभिरक्षिताम्

Mahabharata

Drona Parva, Adhyaya 156, Verse 8

जरासंधो हि रुषितो रौहिणेयप्रधर्षितः

अस्मद्वधार्थं चिक्षेप गदां वै लोहितामुखीम्

Mahabharata

Drona Parva, Adhyaya 156, Verse 9

सीमन्तमिव कुर्वाणां नभसः पावकप्रभाम्

व्यदृश्यतापतन्ती सा शक्रमुक्ता यथाशनिः

Mahabharata

Drona Parva, Adhyaya 156, Verse 10

तामापतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः

प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत्

Mahabharata

Drona Parva, Adhyaya 156, Verse 11

अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि

दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान्

Mahabharata

Drona Parva, Adhyaya 156, Verse 12

तत्र स्म राक्षसी घोरा जरा नामाशुविक्रमा

संधयामास तं जातं जरासंधमरिंदमम्

Mahabharata

Drona Parva, Adhyaya 156, Verse 13

द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक्

तया स संधितो यस्माज्जरासंधस्ततः स्मृतः

Mahabharata

Drona Parva, Adhyaya 156, Verse 14

सा तु भूमिगता पार्थ हता ससुतबान्धवा

गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी

Mahabharata

Drona Parva, Adhyaya 156, Verse 15

विनाभूतः स गदया जरासंधो महामृधे

निहतो भीमसेनेन पश्यतस्ते धनंजय

Mahabharata

Drona Parva, Adhyaya 156, Verse 16

यदि हि स्याद्गदापाणिर्जरासंधः प्रतापवान्

सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम

Mahabharata

Drona Parva, Adhyaya 156, Verse 17

त्वद्धितार्थं हि नैषादिरङ्गुष्ठेन वियोजितः

द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः

Mahabharata

Drona Parva, Adhyaya 156, Verse 18

स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः

अस्यन्नेको वनचरो बभौ राम इवापरः

Mahabharata

Drona Parva, Adhyaya 156, Verse 19

एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः

सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित्

Mahabharata

Drona Parva, Adhyaya 156, Verse 20

किमु मानुषमात्रेण शक्यः स्यात्प्रतिवीक्षितुम्

दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम्

Mahabharata

Drona Parva, Adhyaya 156, Verse 21

त्वद्धितार्थं तु स मया हतः संग्राममूर्धनि

चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव

Mahabharata

Drona Parva, Adhyaya 156, Verse 22

स चाप्यशक्यः संग्रामे जेतुं सर्वैः सुरासुरैः

वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम्

Mahabharata

Drona Parva, Adhyaya 156, Verse 23

त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया

हिडिम्बबककिर्मीरा भीमसेनेन पातिताः

रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः

Mahabharata

Drona Parva, Adhyaya 156, Verse 24

हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः

हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन घातितः

Mahabharata

Drona Parva, Adhyaya 156, Verse 25

यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे

मया वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः

Mahabharata

Drona Parva, Adhyaya 156, Verse 26

मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया

एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः

Mahabharata

Drona Parva, Adhyaya 156, Verse 27

धर्मस्य लोप्ता पापात्मा तस्मादेष निपातितः

व्यंसिता चाप्युपायेन शक्रदत्ता मयानघ

Mahabharata

Drona Parva, Adhyaya 156, Verse 28

ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव

धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया

Mahabharata

Drona Parva, Adhyaya 156, Verse 29

ब्रह्म सत्यं दमः शौचं धर्मो ह्रीः श्रीर्धृतिः क्षमा

यत्र तत्र रमे नित्यमहं सत्येन ते शपे

Mahabharata

Drona Parva, Adhyaya 156, Verse 30

न विषादस्त्वया कार्यः कर्णं वैकर्तनं प्रति

उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि