Mahabharata

Drona Parva, Adhyaya 155

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 155, Verse 1

हैडिम्बं निहतं दृष्ट्वा विकीर्णमिव पर्वतम्

पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः

Mahabharata

Drona Parva, Adhyaya 155, Verse 2

वासुदेवस्तु हर्षेण महताभिपरिप्लुतः

ननाद सिंहवन्नादं व्यथयन्निव भारत

विनद्य च महानादं पर्यष्वजत फल्गुनम्

Mahabharata

Drona Parva, Adhyaya 155, Verse 3

स विनद्य महानादमभीशून्संनियम्य च

ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः

Mahabharata

Drona Parva, Adhyaya 155, Verse 4

ततो विनिर्भ्राम्य पुनः पार्थमास्फोट्य चासकृत्

रथोपस्थगतो भीमं प्राणदत्पुनरच्युतः

Mahabharata

Drona Parva, Adhyaya 155, Verse 5

प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलम्

अब्रवीदर्जुनो राजन्नातिहृष्टमना इव

Mahabharata

Drona Parva, Adhyaya 155, Verse 6

अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन

शोकस्थाने परे प्राप्ते हैडिम्बस्य वधेन वै

Mahabharata

Drona Parva, Adhyaya 155, Verse 7

विमुखानि च सैन्यानि हतं दृष्ट्वा घटोत्कचम्

वयं च भृशमाविग्ना हैडिम्बस्य निपातनात्

Mahabharata

Drona Parva, Adhyaya 155, Verse 8

नैतत्कारणमल्पं हि भविष्यति जनार्दन

तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर

Mahabharata

Drona Parva, Adhyaya 155, Verse 9

यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिंदम

धैर्यस्य वैकृतं ब्रूहि त्वमद्य मधुसूदन

Mahabharata

Drona Parva, Adhyaya 155, Verse 10

समुद्रस्येव संक्षोभो मेरोरिव विसर्पणम्

तथैतल्लाघवं मन्ये तव कर्म जनार्दन

Mahabharata

Drona Parva, Adhyaya 155, Verse 11

अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनंजय

अतीव मनसः सद्यः प्रसादकरमुत्तमम्

Mahabharata

Drona Parva, Adhyaya 155, Verse 12

शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते

कर्णं निहतमेवाजौ विद्धि सद्यो धनंजय

Mahabharata

Drona Parva, Adhyaya 155, Verse 13

शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह

य एनमभितस्तिष्ठेत्कार्त्तिकेयमिवाहवे

Mahabharata

Drona Parva, Adhyaya 155, Verse 14

दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः

दिष्ट्या च व्यंसिता शक्तिरमोघास्य घटोत्कचे

Mahabharata

Drona Parva, Adhyaya 155, Verse 15

यदि हि स्यात्सकवचस्तथैव च सकुण्डलः

सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्बली

Mahabharata

Drona Parva, Adhyaya 155, Verse 16

वासवो वा कुबेरो वा वरुणो वा जलेश्वरः

यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम्

Mahabharata

Drona Parva, Adhyaya 155, Verse 17

गाण्डीवमायम्य भवांश्चक्रं वाहं सुदर्शनम्

न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम्

Mahabharata

Drona Parva, Adhyaya 155, Verse 18

त्वद्धितार्थं तु शक्रेण मायया हृतकुण्डलः

विहीनकवचश्चायं कृतः परपुरंजयः

Mahabharata

Drona Parva, Adhyaya 155, Verse 19

उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते

प्रादाच्छक्राय कर्णो वै तेन वैकर्तनः स्मृतः

Mahabharata

Drona Parva, Adhyaya 155, Verse 20

आशीविष इव क्रुद्धः स्तम्भितो मन्त्रतेजसा

तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः

Mahabharata

Drona Parva, Adhyaya 155, Verse 21

यदा प्रभृति कर्णाय शक्तिर्दत्ता महात्मना

वासवेन महाबाहो प्राप्ता यासौ घटोत्कचे

Mahabharata

Drona Parva, Adhyaya 155, Verse 22

कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च

तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे

Mahabharata

Drona Parva, Adhyaya 155, Verse 23

एवं गतेऽपि शक्योऽयं हन्तुं नान्येन केनचित्

ऋते त्वा पुरुषव्याघ्र शपे सत्येन चानघ

Mahabharata

Drona Parva, Adhyaya 155, Verse 24

ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः

रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः

Mahabharata

Drona Parva, Adhyaya 155, Verse 25

युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः

केसरीव वने मर्दन्मत्तमातङ्गयूथपान्

विमदान्रथशार्दूलान्कुरुते रणमूर्धनि

Mahabharata

Drona Parva, Adhyaya 155, Verse 26

मध्यंगत इवादित्यो यो न शक्यो निरीक्षितुम्

त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः

शरजालसहस्रांशुः शरदीव दिवाकरः

Mahabharata

Drona Parva, Adhyaya 155, Verse 27

तपान्ते तोयदो यद्वच्छरधाराः क्षरत्यसौ

दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान्

सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया

Mahabharata

Drona Parva, Adhyaya 155, Verse 28

एको हि योगोऽस्य भवेद्वधाय; छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम्

कृच्छ्रप्राप्तं रथचक्रे निमग्ने; हन्याः पूर्वं त्वं तु संज्ञां विचार्य

Mahabharata

Drona Parva, Adhyaya 155, Verse 29

जरासंधश्चेदिराजो महात्मा; महाबलश्चैकलव्यो निषादः

एकैकशो निहताः सर्व एव; योगैस्तैस्तैस्त्वद्धितार्थं मयैव

Mahabharata

Drona Parva, Adhyaya 155, Verse 30

अथापरे निहता राक्षसेन्द्रा; हिडिम्बकिर्मीरबकप्रधानाः

अलायुधः परसैन्यावमर्दी; घटोत्कचश्चोग्रकर्मा तरस्वी