Mahabharata

Drona Parva, Adhyaya 153

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 153, Verse 1

संप्रेक्ष्य समरे भीमं रक्षसा ग्रस्तमन्तिकात्

वासुदेवोऽब्रवीद्वाक्यं घटोत्कचमिदं तदा

Mahabharata

Drona Parva, Adhyaya 153, Verse 2

पश्य भीमं महाबाहो रक्षसा ग्रस्तमन्तिकात्

पश्यतां सर्वसैन्यानां तव चैव महाद्युते

Mahabharata

Drona Parva, Adhyaya 153, Verse 3

स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम्

जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि

Mahabharata

Drona Parva, Adhyaya 153, Verse 4

स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान्

युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः

तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः

Mahabharata

Drona Parva, Adhyaya 153, Verse 5

अलायुधस्य योधांस्तु राक्षसान्भीमदर्शनान्

वेगेनापततः शूरान्प्रगृहीतशरासनान्

Mahabharata

Drona Parva, Adhyaya 153, Verse 6

आत्तायुधः सुसंक्रुद्धो युयुधानो महारथः

नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः

Mahabharata

Drona Parva, Adhyaya 153, Verse 7

सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान्

परिचिक्षेप बीभत्सुः सर्वतः प्रक्षिपञ्शरान्

Mahabharata

Drona Parva, Adhyaya 153, Verse 8

कर्णश्च समरे राजन्व्यद्रावयत पार्थिवान्

धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां महारथान्

Mahabharata

Drona Parva, Adhyaya 153, Verse 9

तान्वध्यमानान्दृष्ट्वा तु भीमो भीमपराक्रमः

अभ्ययात्त्वरितः कर्णं विशिखान्विकिरन्रणे

Mahabharata

Drona Parva, Adhyaya 153, Verse 10

ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः

नकुलः सहदेवश्च सात्यकिश्च महारथः

ते कर्णं योधयामासुः पाञ्चाला द्रोणमेव च

Mahabharata

Drona Parva, Adhyaya 153, Verse 11

अलायुधस्तु संक्रुद्धो घटोत्कचमरिंदमम्

परिघेणातिकायेन ताडयामास मूर्धनि

Mahabharata

Drona Parva, Adhyaya 153, Verse 12

स तु तेन प्रहारेण भैमसेनिर्महाबलः

ईषन्मूर्छान्वितोऽऽत्मानं संस्तम्भयत वीर्यवान्

Mahabharata

Drona Parva, Adhyaya 153, Verse 13

ततो दीप्ताग्निसंकाशां शतघण्टामलंकृताम्

चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम्

Mahabharata

Drona Parva, Adhyaya 153, Verse 14

सा हयान्सारथिं चैव रथं चास्य महास्वना

चूर्णयामास वेगेन विसृष्टा भीमकर्मणा

Mahabharata

Drona Parva, Adhyaya 153, Verse 15

स भग्नहयचक्राक्षो विशीर्णध्वजकूबरः

उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम्

Mahabharata

Drona Parva, Adhyaya 153, Verse 16

स समास्थाय मायां तु ववर्ष रुधिरं बहु

विद्युद्विभ्राजितं चासीत्तिमिराभ्राकुलं नभः

Mahabharata

Drona Parva, Adhyaya 153, Verse 17

ततो वज्रनिपाताश्च साशनिस्तनयित्नवः

महांश्चटचटाशब्दस्तत्रासीद्धि महाहवे

Mahabharata

Drona Parva, Adhyaya 153, Verse 18

तां प्रेक्ष्य विहितां मायां राक्षसो राक्षसेन तु

ऊर्ध्वमुत्पत्य हैडिम्बस्तां मायां माययावधीत्

Mahabharata

Drona Parva, Adhyaya 153, Verse 19

सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि

अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे

Mahabharata

Drona Parva, Adhyaya 153, Verse 20

अश्मवर्षं स तद्घोरं शरवर्षेण वीर्यवान्

दिशो विध्वंसयामास तदद्भुतमिवाभवत्

Mahabharata

Drona Parva, Adhyaya 153, Verse 21

ततो नानाप्रहरणैरन्योन्यमभिवर्षताम्

आयसैः परिघैः शूलैर्गदामुसलमुद्गरैः

Mahabharata

Drona Parva, Adhyaya 153, Verse 22

पिनाकैः करवालैश्च तोमरप्रासकम्पनैः

नाराचैर्निशितैर्भल्लैः शरैश्चक्रैः परश्वधैः

Mahabharata

Drona Parva, Adhyaya 153, Verse 23

अयोगुडैर्भिण्डिपालैर्गोशीर्षोलूखलैरपि

उत्पाट्य च महाशाखैर्विविधैर्जगतीरुहैः

Mahabharata

Drona Parva, Adhyaya 153, Verse 24

शमीपीलुकरीरैश्च शम्याकैश्चैव भारत

इङ्गुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः

Mahabharata

Drona Parva, Adhyaya 153, Verse 25

पलाशैररिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः

महद्भिः समरे तस्मिन्नन्योन्यमभिजघ्नतुः

Mahabharata

Drona Parva, Adhyaya 153, Verse 26

विविधैः पर्वताग्रैश्च नानाधातुभिराचितैः

तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव

Mahabharata

Drona Parva, Adhyaya 153, Verse 27

युद्धं तदभवद्घोरं भैम्यलायुधयोर्नृप

हरीन्द्रयोर्यथा राजन्वालिसुग्रीवयोः पुरा

Mahabharata

Drona Parva, Adhyaya 153, Verse 28

तौ युद्ध्वा विविधैर्घोरैरायुधैर्विशिखैस्तथा

प्रगृह्य निशितौ खड्गावन्योन्यमभिजघ्नतुः

Mahabharata

Drona Parva, Adhyaya 153, Verse 29

तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ

भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ

Mahabharata

Drona Parva, Adhyaya 153, Verse 30

तौ भिन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप

रुधिरं च महाकायावभिवृष्टाविवाचलौ