Mahabharata

Drona Parva, Adhyaya 151

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 151, Verse 1

तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मृधे

अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत

Mahabharata

Drona Parva, Adhyaya 151, Verse 2

महत्या सेनया युक्तः सुयोधनमुपागमत्

राक्षसानां विरूपाणां सहस्रैः परिवारितः

नानारूपधरैर्वीरैः पूर्ववैरमनुस्मरन्

Mahabharata

Drona Parva, Adhyaya 151, Verse 3

तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः

किर्मीरश्च महातेजा हिडिम्बश्च सखा तथा

Mahabharata

Drona Parva, Adhyaya 151, Verse 4

स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन्

विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे

Mahabharata

Drona Parva, Adhyaya 151, Verse 5

स मत्त इव मातङ्गः संक्रुद्ध इव चोरगः

दुर्योधनमिदं वाक्यमब्रवीद्युद्धलालसः

Mahabharata

Drona Parva, Adhyaya 151, Verse 6

विदितं ते महाराज यथा भीमेन राक्षसाः

हिडिम्बबककिर्मीरा निहता मम बान्धवाः

Mahabharata

Drona Parva, Adhyaya 151, Verse 7

परामर्शश्च कन्याया हिडिम्बायाः कृतः पुरा

किमन्यद्राक्षसानन्यानस्मांश्च परिभूय ह

Mahabharata

Drona Parva, Adhyaya 151, Verse 8

तमहं सगणं राजन्सवाजिरथकुञ्जरम्

हैडिम्बं च सहामात्यं हन्तुमभ्यागतः स्वयम्

Mahabharata

Drona Parva, Adhyaya 151, Verse 9

अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान्

हत्वा संभक्षयिष्यामि सर्वैरनुचरैः सह

निवारय बलं सर्वं वयं योत्स्याम पाण्डवान्

Mahabharata

Drona Parva, Adhyaya 151, Verse 10

तस्य तद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा

प्रतिपूज्याब्रवीद्वाक्यं भ्रातृभिः परिवारितः

Mahabharata

Drona Parva, Adhyaya 151, Verse 11

त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान्

न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः

Mahabharata

Drona Parva, Adhyaya 151, Verse 12

एवमस्त्विति राजानमुक्त्वा राक्षसपुंगवः

अभ्ययात्त्वरितो भीमं सहितः पुरुषाशनैः

Mahabharata

Drona Parva, Adhyaya 151, Verse 13

दीप्यमानेन वपुषा रथेनादित्यवर्चसा

तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः

Mahabharata

Drona Parva, Adhyaya 151, Verse 14

तस्याप्यतुलनिर्घोषो बहुतोरणचित्रितः

ऋक्षचर्मावनद्धाङ्गो नल्वमात्रो महारथः

Mahabharata

Drona Parva, Adhyaya 151, Verse 15

तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः

शतं युक्ता महाकाया मांसशोणितभोजनाः

Mahabharata

Drona Parva, Adhyaya 151, Verse 16

तस्यापि रथनिर्घोषो महामेघरवोपमः

तस्यापि सुमहच्चापं दृढज्यं बलवत्तरम्

Mahabharata

Drona Parva, Adhyaya 151, Verse 17

तस्याप्यक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः

सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः

Mahabharata

Drona Parva, Adhyaya 151, Verse 18

तस्यापि गोमायुबडाभिगुप्तो; बभूव केतुर्ज्वलनार्कतुल्यः

स चापि रूपेण घटोत्कचस्य; श्रीमत्तमो व्याकुलदीपितास्यः

Mahabharata

Drona Parva, Adhyaya 151, Verse 19

दीप्ताङ्गदो दीप्तकिरीटमाली; बद्धस्रगुष्णीषनिबद्धखड्गः

गदी भुशुण्डी मुसली हली च; शरासनी वारणतुल्यवर्ष्मा

Mahabharata

Drona Parva, Adhyaya 151, Verse 20

रथेन तेनानलवर्चसा च; विद्रावयन्पाण्डववाहिनीं ताम्

रराज संख्ये परिवर्तमानो; विद्युन्माली मेघ इवान्तरिक्षे

Mahabharata

Drona Parva, Adhyaya 151, Verse 21

ते चापि सर्वे प्रवरा नरेन्द्रा; महाबला वर्मिणश्चर्मिणश्च

हर्षान्विता युयुधुस्तत्र राज;न्समन्ततः पाण्डवयोधवीराः