Mahabharata

Drona Parva, Adhyaya 150

Containing 106 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 150, Verse 1

यत्र वैकर्तनः कर्णो राक्षसश्च घटोत्कचः

निशीथे समसज्जेतां तद्युद्धमभवत्कथम्

Mahabharata

Drona Parva, Adhyaya 150, Verse 2

कीदृशं चाभवद्युद्धं तस्य घोरस्य रक्षसः

रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च

Mahabharata

Drona Parva, Adhyaya 150, Verse 3

किंप्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा

कीदृशं वर्म चैवास्य कण्ठत्राणं च कीदृशम्

पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि संजय

Mahabharata

Drona Parva, Adhyaya 150, Verse 4

लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः

ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः

Mahabharata

Drona Parva, Adhyaya 150, Verse 5

आकर्णाद्दारितास्यश्च तीक्ष्णदंष्ट्रः करालवान्

सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः

Mahabharata

Drona Parva, Adhyaya 150, Verse 6

नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयंकरः

महाकायो महाबाहुर्महाशीर्षो महाबलः

Mahabharata

Drona Parva, Adhyaya 150, Verse 7

विकचः परुषस्पर्शो विकटोद्बद्धपिण्डिकः

स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान्

Mahabharata

Drona Parva, Adhyaya 150, Verse 8

तथैव हस्ताभरणी महामायोऽङ्गदी तथा

उरसा धारयन्निष्कमग्निमालां यथाचलः

Mahabharata

Drona Parva, Adhyaya 150, Verse 9

तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम्

तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत

Mahabharata

Drona Parva, Adhyaya 150, Verse 10

कुण्डले बालसूर्याभे मालां हेममयीं शुभाम्

धारयन्विपुलं कांस्यं कवचं च महाप्रभम्

Mahabharata

Drona Parva, Adhyaya 150, Verse 11

किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम्

ऋक्षचर्मावनद्धाङ्गं नल्वमात्रं महारथम्

Mahabharata

Drona Parva, Adhyaya 150, Verse 12

सर्वायुधवरोपेतमास्थितो ध्वजमालिनम्

अष्टचक्रसमायुक्तं मेघगम्भीरनिस्वनम्

Mahabharata

Drona Parva, Adhyaya 150, Verse 13

तत्र मातङ्गसंकाशा लोहिताक्षा विभीषणाः

कामवर्णजवा युक्ता बलवन्तोऽवहन्हयाः

Mahabharata

Drona Parva, Adhyaya 150, Verse 14

राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः

रश्मिभिः सूर्यरश्म्याभैः संजग्राह हयान्रणे

स तेन सहितस्तस्थावरुणेन यथा रविः

Mahabharata

Drona Parva, Adhyaya 150, Verse 15

संसक्त इव चाभ्रेण यथाद्रिर्महता महान्

दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः

रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः

Mahabharata

Drona Parva, Adhyaya 150, Verse 16

वासवाशनिनिर्घोषं दृढज्यमभिविक्षिपन्

व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम्

Mahabharata

Drona Parva, Adhyaya 150, Verse 17

रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन्दिशः

तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात्

Mahabharata

Drona Parva, Adhyaya 150, Verse 18

तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः

अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः

Mahabharata

Drona Parva, Adhyaya 150, Verse 19

तेन वित्रास्यमानानि तव सैन्यानि भारत

समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः

Mahabharata

Drona Parva, Adhyaya 150, Verse 20

तमापतन्तं संप्रेक्ष्य विरूपाक्षं विभीषणम्

उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत्

Mahabharata

Drona Parva, Adhyaya 150, Verse 21

ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात्

मातङ्ग इव मातङ्गं यूथर्षभ इवर्षभम्

Mahabharata

Drona Parva, Adhyaya 150, Verse 22

स संनिपातस्तुमुलस्तयोरासीद्विशां पते

कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव

Mahabharata

Drona Parva, Adhyaya 150, Verse 23

तौ प्रगृह्य महावेगे धनुषी भीमनिस्वने

प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः

Mahabharata

Drona Parva, Adhyaya 150, Verse 24

ततः पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः

न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी

Mahabharata

Drona Parva, Adhyaya 150, Verse 25

तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ

रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः

Mahabharata

Drona Parva, Adhyaya 150, Verse 26

संछिन्दन्तौ हि गात्राणि संदधानौ च सायकान्

धक्ष्यमाणौ शरव्रातैर्नोदीक्षितुमशक्नुताम्

Mahabharata

Drona Parva, Adhyaya 150, Verse 27

तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ

व्यभ्राजेतां यथा वारिप्रस्रुतौ गैरिकाचलौ

Mahabharata

Drona Parva, Adhyaya 150, Verse 28

तौ शराग्रविभिन्नाङ्गौ निर्भिन्दन्तौ परस्परम्

नाकम्पयेतामन्योन्यं यतमानौ महाद्युती

Mahabharata

Drona Parva, Adhyaya 150, Verse 29

तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत्

प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे

Mahabharata

Drona Parva, Adhyaya 150, Verse 30

तस्य संदधतस्तीक्ष्णाञ्शरांश्चासक्तमस्यतः

धनुर्घोषेण वित्रस्ताः स्वे परे च तदाभवन्

घटोत्कचं यदा कर्णो विशेषयति नो नृप