Drona Parva, Adhyaya 149, Verse 1
दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति
प्रयान्तं त्वरया युक्तं जिघांसुं कर्णमाहवे
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति
प्रयान्तं त्वरया युक्तं जिघांसुं कर्णमाहवे
अब्रवीत्तव पुत्रस्तु दुःशासनमिदं वचः
एतद्रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम्
अभियाति द्रुतं कर्णं तद्वारय महारथम्
वृतः सैन्येन महता याहि यत्र महाबलः
कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति
रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद
एतस्मिन्नन्तरे राजञ्जटासुरसुतो बली
दुर्योधनमुपागम्य प्राह प्रहरतां वरः
दुर्योधन तवामित्रान्प्रख्यातान्युद्धदुर्मदान्
पाण्डवान्हन्तुमिच्छामि त्वयाज्ञप्तः सहानुगान्
जटासुरो मम पिता रक्षसामग्रणीः पुरा
प्रयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर्निपातितः
तस्यापचितिमिच्छामि त्वद्दिष्टो गन्तुमीश्वर
तमब्रवीत्ततो राजा प्रीयमाणः पुनः पुनः
द्रोणकर्णादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे
त्वं तु गच्छ मयाज्ञप्तो जहि युद्धं घटोत्कचम्
तथेत्युक्त्वा महाकायः समाहूय घटोत्कचम्
जटासुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत्
अलंबलं च कर्णं च कुरुसैन्यं च दुस्तरम्
हैडिम्बः प्रममाथैको महावातोऽम्बुदानिव
ततो मायामयं दृष्ट्वा रथं तूर्णमलंबलः
घटोत्कचं शरव्रातैर्नानालिङ्गैः समार्दयत्
विद्ध्वा च बहुभिर्बाणैर्भैमसेनिमलंबलः
व्यद्रावयच्छरव्रातैः पाण्डवानामनीकिनीम्
तेन विद्राव्यमाणानि पाण्डुसैन्यानि मारिष
निशीथे विप्रकीर्यन्त वातनुन्ना घना इव
घटोत्कचशरैर्नुन्ना तथैव कुरुवाहिनी
निशीथे प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः
अलंबलस्ततः क्रुद्धो भैमसेनिं महामृधे
आजघ्ने निशितैर्बाणैस्तोत्त्रैरिव महाद्विपम्
तिलशस्तस्य तद्यानं सूतं सर्वायुधानि च
घटोत्कचः प्रचिच्छेद प्राणदच्चातिदारुणम्
ततः कर्णं शरव्रातैः कुरूनन्यान्सहस्रशः
अलंबलं चाभ्यवर्षन्मेघो मेरुमिवाचलम्
ततः संचुक्षुभे सैन्यं कुरूणां राक्षसार्दितम्
उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह
जटासुरिर्महाराज विरथो हतसारथिः
घटोत्कचं रणे क्रुद्धो मुष्टिनाभ्यहनद्दृढम्
मुष्टिनाभिहतस्तेन प्रचचाल घटोत्कचः
क्षितिकम्पे यथा शैलः सवृक्षगणगुल्मवान्
ततः स परिघाभेन द्विट्संघघ्नेन बाहुना
जटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम्
तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत्
दोर्भ्यामिन्द्रध्वजाभाभ्यां निष्पिपेष महीतले
अलंबलोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम्
घटोत्कचं रणे रोषान्निष्पिपेष महीतले
तयोः समभवद्युद्धं गर्जतोरतिकाययोः
घटोत्कचालंबलयोस्तुमुलं लोमहर्षणम्
विशेषयन्तावन्योन्यं मायाभिरतिमायिनौ
युयुधाते महावीर्याविन्द्रवैरोचनाविव
पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षकौ
पुनर्मेघमहावातौ पुनर्वज्रमहाचलौ
पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ
एवं मायाशतसृजावन्योन्यवधकाङ्क्षिणौ
भृशं चित्रमयुध्येतामलंबलघटोत्कचौ
परिघैश्च गदाभिश्च प्रासमुद्गरपट्टिशैः
मुसलैः पर्वताग्रैश्च तावन्योन्यं निजघ्नतुः
हयाभ्यां च गजाभ्यां च पदातिरथिनौ पुनः
युयुधाते महामायौ राक्षसप्रवरौ युधि
ततो घटोत्कचो राजन्नलंबलवधेप्सया
उत्पपात भृशं क्रुद्धः श्येनवन्निपपात ह