Mahabharata

Drona Parva, Adhyaya 147

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 147, Verse 1

विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः

क्रोधेन महताविष्टः पुत्रस्तव विशां पते

Mahabharata

Drona Parva, Adhyaya 147, Verse 2

अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम्

अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत्

Mahabharata

Drona Parva, Adhyaya 147, Verse 3

भवद्भ्यामिह संग्रामो क्रुद्धाभ्यां संप्रवर्तितः

आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना

Mahabharata

Drona Parva, Adhyaya 147, Verse 4

निहन्यमानां पाण्डूनां बलेन मम वाहिनीम्

भूत्वा तद्विजये शक्तावशक्ताविव पश्यतः

Mahabharata

Drona Parva, Adhyaya 147, Verse 5

यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि

आवां पाण्डुसुतान्संख्ये जेष्याव इति मानदौ

Mahabharata

Drona Parva, Adhyaya 147, Verse 6

तदैवाहं वचः श्रुत्वा भवद्भ्यामनुसंमतम्

कृतवान्पाण्डवैः सार्धं वैरं योधविनाशनम्

Mahabharata

Drona Parva, Adhyaya 147, Verse 7

यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ

युध्येतामनुरूपेण विक्रमेण सुविक्रमौ

Mahabharata

Drona Parva, Adhyaya 147, Verse 8

वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते

प्रावर्तयेतां तौ युद्धं घट्टिताविव पन्नगौ

Mahabharata

Drona Parva, Adhyaya 147, Verse 9

ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ

शैनेयप्रमुखान्पार्थानभिदुद्रुवतू रणे

Mahabharata

Drona Parva, Adhyaya 147, Verse 10

तथैव सहिताः पार्थाः स्वेन सैन्येन संवृताः

अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः

Mahabharata

Drona Parva, Adhyaya 147, Verse 11

अथ द्रोणो महेष्वासो दशभिः शिनिपुंगवम्

अविध्यत्त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः

Mahabharata

Drona Parva, Adhyaya 147, Verse 12

कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः

दशभिर्वृषसेनश्च सौबलश्चापि सप्तभिः

एते कौरव संक्रन्दे शैनेयं पर्यवारयन्

Mahabharata

Drona Parva, Adhyaya 147, Verse 13

दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम्

विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः

Mahabharata

Drona Parva, Adhyaya 147, Verse 14

ततो द्रोणोऽहरत्प्राणान्क्षत्रियाणां विशां पते

रश्मिभिर्भास्करो राजंस्तमसामिव भारत

Mahabharata

Drona Parva, Adhyaya 147, Verse 15

द्रोणेन वध्यमानानां पाञ्चालानां विशां पते

शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम्

Mahabharata

Drona Parva, Adhyaya 147, Verse 16

पुत्रानन्ये पितॄनन्ये भ्रातॄनन्ये च मातुलान्

भागिनेयान्वयस्यांश्च तथा संबन्धिबान्धवान्

उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः

Mahabharata

Drona Parva, Adhyaya 147, Verse 17

अपरे मोहिता मोहात्तमेवाभिमुखा ययुः

पाण्डवानां रणे योधाः परलोकं तथापरे

Mahabharata

Drona Parva, Adhyaya 147, Verse 18

सा तथा पाण्डवी सेना वध्यमाना महात्मभिः

निशि संप्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः

Mahabharata

Drona Parva, Adhyaya 147, Verse 19

पश्यतो भीमसेनस्य विजयस्याच्युतस्य च

यमयोर्धर्मपुत्रस्य पार्षतस्य च पश्यतः

Mahabharata

Drona Parva, Adhyaya 147, Verse 20

तमसा संवृते लोके न प्राज्ञायत किंचन

कौरवाणां प्रकाशेन दृश्यन्ते तु द्रुताः परे

Mahabharata

Drona Parva, Adhyaya 147, Verse 21

द्रवमाणं तु तत्सैन्यं द्रोणकर्णौ महारथौ

जघ्नतुः पृष्ठतो राजन्किरन्तौ सायकान्बहून्

Mahabharata

Drona Parva, Adhyaya 147, Verse 22

पाञ्चालेषु प्रभग्नेषु दीर्यमाणेषु सर्वशः

जनार्दनो दीनमनाः प्रत्यभाषत फल्गुनम्

Mahabharata

Drona Parva, Adhyaya 147, Verse 23

द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी

पाञ्चालांश्चैव सहितौ जघ्नतुः सायकैर्भृशम्

Mahabharata

Drona Parva, Adhyaya 147, Verse 24

एतयोः शरवर्षेण प्रभग्ना नो महारथाः

वार्यमाणापि कौन्तेय पृतना नावतिष्ठते

Mahabharata

Drona Parva, Adhyaya 147, Verse 25

एतावावां सर्वसैन्यैर्व्यूढैः सम्यगुदायुधैः

द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम्

Mahabharata

Drona Parva, Adhyaya 147, Verse 26

एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ

उपेक्षितौ बलं क्रुद्धौ नाशयेतां निशामिमाम्

एष भीमोऽभियात्युग्रः पुनरावर्त्य वाहिनीम्

Mahabharata

Drona Parva, Adhyaya 147, Verse 27

वृकोदरं तथायान्तं दृष्ट्वा तत्र जनार्दनः

पुनरेवाब्रवीद्राजन्हर्षयन्निव पाण्डवम्

Mahabharata

Drona Parva, Adhyaya 147, Verse 28

एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः

रुषितोऽभ्येति वेगेन द्रोणकर्णौ महाबलौ

Mahabharata

Drona Parva, Adhyaya 147, Verse 29

एतेन सहितो युध्य पाञ्चालैश्च महारथैः

आश्वासनार्थं सर्वेषां सैन्यानां पाण्डुनन्दन

Mahabharata

Drona Parva, Adhyaya 147, Verse 30

ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ

द्रोणकर्णौ समासाद्य धिष्ठितौ रणमूर्धनि