Drona Parva, Adhyaya 146, Verse 1
ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः
अमृष्यमाणाः संरब्धा युयुधानरथं प्रति
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः
अमृष्यमाणाः संरब्धा युयुधानरथं प्रति
ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः
सादिभिश्च गजैश्चैव परिवव्रुः स्म सात्वतम्
अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः
सिंहनादांस्तदा चक्रुस्तर्जयन्तः स्म सात्यकिम्
तेऽभ्यवर्षञ्शरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम्
त्वरमाणा महावीर्या माधवस्य वधैषिणः
तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा
प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून्
तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः
निचकर्त शिरांस्युग्रैः शरैः संनतपर्वभिः
हस्तिहस्तान्हयग्रीवान्बाहूनपि च सायुधान्
क्षुरप्रैः पातयामास तावकानां स माधवः
पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत
बभूव धरणी पूर्णा नक्षत्रैर्द्यौरिव प्रभो
तेषां तु युयुधानेन युध्यतां युधि भारत
बभूव तुमुलः शब्दः प्रेतानामिव क्रन्दताम्
तेन शब्देन महता पूरितासीद्वसुंधरा
रात्रिः समभवच्चैव तीव्ररूपा भयावहा
दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम्
श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणम्
सुतस्तवाब्रवीद्राजन्सारथिं रथिनां वरः
यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनः पुनः
तेन संचोद्यमानस्तु ततस्तांस्तुरगोत्तमान्
सूतः संचोदयामास युयुधानरथं प्रति
ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः
शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत्
ततः पूर्णायतोत्सृष्टैर्मांसशोणितभोजनैः
दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत
दुर्योधनस्तेन तथा पूर्वमेवार्दितः शरैः
शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः
ततः समभवद्युद्धमाकुलं भरतर्षभ
पाञ्चालानां च सर्वेषां भारतानां च दारुणम्
शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम्
सायकानामशीत्या तु विव्याधोरसि भारत
ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम्
सारथिं च रथात्तूर्णं पातयामास पत्रिणा
हताश्वे तु रथे तिष्ठन्पुत्रस्तव विशां पते
मुमोच निशितान्बाणाञ्शैनेयस्य रथं प्रति
शरान्पञ्चाशतस्तांस्तु शैनेयः कृतहस्तवत्
चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते
अथापरेण भल्लेन मुष्टिदेशे महद्धनुः
चिच्छेद रभसो युद्धे तव पुत्रस्य मारिष
विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः
दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम्
द्रावयामास विशिखैर्निशामध्ये विशां पते
शकुनिश्चार्जुनं राजन्परिवार्य समन्ततः
रथैरनेकसाहस्रैर्गजैश्चैव सहस्रशः
तथा हयसहस्रैश्च तुमुलं सर्वतोऽकरोत्
ते महास्त्राणि दिव्यानि विकिरन्तोऽर्जुनं प्रति
अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः
तान्यर्जुनः सहस्राणि रथवारणवाजिनाम्
प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम्
ततस्तु समरे शूरः शकुनिः सौबलस्तदा
विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव
पुनश्चैव शतेनास्य संरुरोध महारथम्
तमर्जुनस्तु विंशत्या विव्याध युधि भारत
अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत
संवार्य तान्बाणगणैर्युधि राजन्धनंजयः
अवधीत्तावकान्योधान्वज्रपाणिरिवासुरान्