Mahabharata

Drona Parva, Adhyaya 144

Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Drona Parva, Adhyaya 144, Verse 1

नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव

अभ्ययात्सौबलः क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत्

Mahabharata

Drona Parva, Adhyaya 144, Verse 2

कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ

शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः

Mahabharata

Drona Parva, Adhyaya 144, Verse 3

यथैव सौबलः क्षिप्रं शरवर्षाणि मुञ्चति

तथैव नकुलो राजञ्शिक्षां संदर्शयन्युधि

Mahabharata

Drona Parva, Adhyaya 144, Verse 4

तावुभौ समरे शूरौ शरकण्टकिनौ तदा

व्यराजेतां महाराज कण्टकैरिव शाल्मली

Mahabharata

Drona Parva, Adhyaya 144, Verse 5

सुजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ

क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम्

Mahabharata

Drona Parva, Adhyaya 144, Verse 6

स्यालस्तु तव संक्रुद्धो माद्रीपुत्रं हसन्निव

कर्णिनैकेन विव्याध हृदये निशितेन ह

Mahabharata

Drona Parva, Adhyaya 144, Verse 7

नकुलस्तु भृशं विद्धः स्यालेन तव धन्विना

निषसाद रथोपस्थे कश्मलं चैनमाविशत्

Mahabharata

Drona Parva, Adhyaya 144, Verse 8

अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम्

ननाद शकुनी राजंस्तपान्ते जलदो यथा

Mahabharata

Drona Parva, Adhyaya 144, Verse 9

प्रतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः

अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः

Mahabharata

Drona Parva, Adhyaya 144, Verse 10

संक्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ

पुनश्चैव शतेनैव नाराचानां स्तनान्तरे

Mahabharata

Drona Parva, Adhyaya 144, Verse 11

ततोऽस्य सशरं चापं मुष्टिदेशे स चिच्छिदे

ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत्

Mahabharata

Drona Parva, Adhyaya 144, Verse 12

सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्

तं विसंज्ञं निपतितं दृष्ट्वा स्यालं तवानघ

अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात्

Mahabharata

Drona Parva, Adhyaya 144, Verse 13

ततः संचुक्रुशुः पार्था ये च तेषां पदानुगाः

निर्जित्य च रणे शत्रून्नकुलः शत्रुतापनः

अब्रवीत्सारथिं क्रुद्धो द्रोणानीकाय मां वह

Mahabharata

Drona Parva, Adhyaya 144, Verse 14

तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः

प्रायात्तेन रणे राजन्येन द्रोणोऽन्वयुध्यत

Mahabharata

Drona Parva, Adhyaya 144, Verse 15

शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशां पते

कृपः शारद्वतो यत्तः प्रत्युद्गच्छत्सुवेगितः

Mahabharata

Drona Parva, Adhyaya 144, Verse 16

गौतमं द्रुतमायान्तं द्रोणान्तिकमरिंदमम्

विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव

Mahabharata

Drona Parva, Adhyaya 144, Verse 17

तमाचार्यो महाराज विद्ध्वा पञ्चभिराशुगैः

पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव

Mahabharata

Drona Parva, Adhyaya 144, Verse 18

महद्युद्धं तयोरासीद्घोररूपं विशां पते

यथा देवासुरे युद्धे शम्बरामरराजयोः

Mahabharata

Drona Parva, Adhyaya 144, Verse 19

शरजालावृतं व्योम चक्रतुस्तौ महारथौ

प्रकृत्या घोररूपं तदासीद्घोरतरं पुनः

Mahabharata

Drona Parva, Adhyaya 144, Verse 20

रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम्

कालरात्रिनिभा ह्यासीद्घोररूपा भयावहा

Mahabharata

Drona Parva, Adhyaya 144, Verse 21

शिखण्डी तु महाराज गौतमस्य महद्धनुः

अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा

Mahabharata

Drona Parva, Adhyaya 144, Verse 22

तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम्

स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम्

Mahabharata

Drona Parva, Adhyaya 144, Verse 23

तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः

सापतन्मेदिनीं दीप्ता भासयन्ती महाप्रभा

Mahabharata

Drona Parva, Adhyaya 144, Verse 24

अथान्यद्धनुरादाय गौतमो रथिनां वरः

प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम्

Mahabharata

Drona Parva, Adhyaya 144, Verse 25

स छाद्यमानः समरे गौतमेन यशस्विना

व्यषीदत रथोपस्थे शिखण्डी रथिनां वरः

Mahabharata

Drona Parva, Adhyaya 144, Verse 26

सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि

आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत

Mahabharata

Drona Parva, Adhyaya 144, Verse 27

विमुखं तं रणे दृष्ट्वा याज्ञसेनिं महारथम्

पाञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः

Mahabharata

Drona Parva, Adhyaya 144, Verse 28

तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम्

महत्या सेनया सार्धं ततो युद्धमभूत्पुनः

Mahabharata

Drona Parva, Adhyaya 144, Verse 29

रथानां च रणे राजन्नन्योन्यमभिधावताम्

बभूव तुमुलः शब्दो मेघानां नदतामिव

Mahabharata

Drona Parva, Adhyaya 144, Verse 30

द्रवतां सादिनां चैव गजानां च विशां पते

अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ